अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2189, कुल 2600 में से
संदर्भ में पढ़ें४६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० १ सू० १९. 'वीरहा वा एष देवानां योऽग्निमुद्वासयत' इति श्रुतिर्न स्यात्, अतो 'ब्रह्मचर्यं समाप्य गृही भवेत्, गृहाद्वनीभूत्वा प्रव्रजेत्, यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वनाद्वे'तिश्रुतेरप्यङ्गहीन एव स विषयः, यत आयुर्भागविभागेनाश्रमाणां विधानम् । तुरीये तस्मिन् देहेन्द्रियादिवैकल्यं नियतम्, अतः कर्मण्येव श्रुतेस्ता- त्पर्यम् । अपिच, ज्ञानकर्मणोरलौकिकफलसाधकत्वे तत्त्वेन विहितत्वमेव प्रयोजकम् । अपरोक्षब्रह्मज्ञानं च न विधेयम् । साक्षात्स्वकृत्यसाध्यत्वात् । चोदनाबोधकलिङाद्य- भावाच्च ज्ञानस्य न मुक्तिसाधकत्वं वक्तुं शक्यम् । 'य एवं विदु'रित्यादिस्तु यागे- ष्टिज्यविष्णुस्तुतिपरेत्याशयेनाह अचोदना चेति । जैमिनिवत्तत्सहायभूतेयम- चोदना च परामर्शमपवदतीति सम्बन्धः। तथाच विधिसम्बन्धात् कर्मैवानुष्ठेयम्, न तु मुक्तिसाधनमपि, अतथात्वादिति स्थितम् ॥ १८ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥ बादरायण आचार्यो जैमिनेरपि गुरुस्तदेव कर्तव्यमिति शिष्यसंमत- मनुष्ठेयं कर्मापवदतीति पूर्वेण सम्बन्धः । तत्र हेतुः । साम्यश्रुतेः । यथा 'वीरहा वा एष देवाना'मिति श्रुत्या कर्मत्यागकर्तृनिन्दा श्रूयते, एवमेव भगव- ज्ज्ञानरहितस्यापि सा श्रूयते यतः । तथाहि । 'असुर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्यापि गच्छन्त्यविद्वांसोऽबुधा जनाः ।' एतदग्रे च, 'ये तद्विदु- भाष्यप्रकाशः । शास्त्रकथनप्रस्तावे 'द्विजन्मना जैमिनिना पूर्वं वेदमयार्थतः । निरीश्वरेण वादेन कृतं शास्त्रं महत्तर'- मिति । पराशरोपपुराणेपि 'अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंऽशः श्रुत्येकशरणैर्नृभिः । जैमिनीये चे'त्युक्तम् । तन्मतेन सन्न्यासविधितात्पर्यमाहुः कर्मेत्यादि । अङ्ग- हीन एव स इति । अङ्गहीनः पुरुषः । अत्र गमकं यत इत्यादिनाेच्यते । तदुपपादनं तुरीय इत्यादिना । एतेन सिद्धमाहुः अत इत्यादि । अचोदनेत्याद्यंशमवतारयन्ति अपि चेत्यादि । शेषं स्फुटम् ॥ १८ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥ पूर्वसूत्रे जैमिनिमतमनुष्ठेदानीं तत्परि- हरतीत्याशयेन सूत्रं व्याकुर्वन्ति बादरायण इत्यादि । 'असुर्या' इति मन्त्रे 'अविद्वांस' इत्यनेन कर्माङ्गभूतविद्वद्वाक्योक्तज्ञानशून्या एव निन्यन्त इति शङ्कानिरासायाहुः एतदग्र इत्यादि । श्रुती तु बृहदारण्यके शारीरब्राह्मणस्थे । तथाच यथा कर्माकरणनिन्दया कर्मनित्यत्वम्, तथा अविद्व- न्निन्दया ब्रह्मज्ञाननित्यत्वं प्राप्यते, अतो निन्दामात्रेण कृत्वा कर्मकरणे श्रुतितात्पर्यसाधनमयु- रश्मिः । मित्युक्तत्वात् । पुनरिति । शेषत्वादितिसूत्रीयजैमिनिशब्देनैव चारितार्थ्ये पुनरित्यर्थः । जैमिनीये चेति । 'जैमिनीये च वैयासे न विरोधोऽस्ति कश्चने'ति । अपि चेत्यादिनेति । तत्त्वेनेति । अलौकिकफलसाधकत्वेन । तत्सहायेति । जैमिनिमतसहायभूता । परामर्शं ज्ञानपरामर्शम् । अतथात्वादिति । विधिसम्बन्धाभावात् ॥ १८ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥ तथोक्तमिति । आपाततो नाम 2060