अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2188, कुल 2600 में से
संदर्भ में पढ़ेंयेषां नोऽयमात्मा नायं लोक' इत्यादिश्रुतेश्च ब्रह्मप्राप्तावेव सर्वस्याः श्रुतेस्तात्पर्यमिति सिध्यति, तस्या एव सर्वक्लेशापायपूर्वकपरमानन्दरूपत्वात्, न तु कर्मणि, दुःखा- त्मकसंसारहेतुत्वात् तस्य । जीवश्रेयोनिमित्तमेव श्रुतिप्राकट्यात् । अन्यथा निषे- धविधिर्न स्यात् । तथाच कर्मविधिनापि परम्परामोक्ष एव फलत्वेन परामृश्यत इति सिद्धम् । तं परामर्शं कर्मस्वातन्त्र्यवादी जैमिनिरपवदति बाधत इत्यर्थः । मोहकशास्त्रप्रवर्तकः स इतीश्वरमेव न मनुते यतः, अतस्तत्प्राप्तिस्तस्य मते दूरापास्ता । कर्मानधिकारिणामन्धादीनां संन्यासविधिविषयत्वम् । अन्यथा भाष्यप्रकाशः । न्तरस्य सन्दिग्धतया तृतीयायां काण्वश्रुतौ च लोकपदतो लोकसंस्तवप्रतीत्या च तथावसायात् । अपि चापवदति । 'वीरहा वा एष देवानामि'ति, 'आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यव- च्छेत्सी' रिति, 'नापुत्रस्य लोकोऽस्ती'ति प्रत्यक्षा श्रुतिरेवाश्रमन्तरमपवदतीति व्याख्याय 'ब्रह्म- चर्यादेव प्रव्रजे'दिति जाबालश्रुतिमनपेक्ष्यायं विचार इत्याहुः । तत्र जाबालश्रुत्यनपेक्षायां बीजं नोपलभ्यते । परामर्शशब्दश्च ग्रहणे प्रसिद्धः, न त्वनुवाद इत्यतो न सूत्रे तदुक्तोऽर्थोऽभिप्रेतः, किन्तु पूर्वोक्तमेव सिद्धान्तं स्थूणाखननवद् दृढीकर्तुं पुन- र्जैमिनिमतमुत्थापयतीत्याशयेन पूर्वसिद्धमनुवदन्तः सूत्रं व्याकुर्वन्ति ऊर्ध्वेत्यादि । तस्येति । ज्ञानस्य । इत्यादिश्रुतेश्चेति । 'नापुत्रस्य लोकोऽस्ती'त्यादिश्रुतिविरुद्धायाः 'किं प्रजया करि- ष्यामः, न कर्मणा न प्रजये'त्यादिश्रुतेश्च । तस्या इति । ब्रह्मप्राप्तेः । न तु कर्मणीति । कर्म- करणे तु न तात्पर्यम् । तस्येति । कर्मणः । तथाच कर्मविधिनापि 'तमेतं वेदानुवचनेने'ति श्रुत्यादिभिर्ज्ञानजननद्वारा कर्मणां फलत्वेन मोक्ष एव तात्पर्यगोचरीक्रियते इति श्रुतिसन्दर्भ- विचारात् सिद्धम् । तमेतं परामर्शं निश्चयं कर्मस्वातन्त्र्यवादी जैमिनिर्बाधत इति सूत्रभागस्यार्थो युक्त इत्यर्थः । पुनर्जैमिनिपदकथनतात्पर्यमाहुः मोहकेत्यादि । तदुक्तं पाद्मोत्तरखण्डे मोहक- रश्मिः । मादन्याश्रमस्य वानप्रस्थस्य । लोकेति । प्रव्राजिनां क्षयिष्णुलोकासम्भवाल्लोकस्य संस्तवः एतादृशो लोको यः प्रव्राजिनां फलमिति । एवं लोकसंस्तवप्रतीतिस्तया । तथेति । अर्थान्तरपरत्वावसायात् । एष इति । आश्रमन्तरस्थः । आश्रमन्तरमिति । गृहस्थाश्रमादन्यमाश्रमम् । पूर्वोक्तमेवेति । ज्ञाननिरपेक्षं मोक्षरूपम् । एवकारो जैमिनिमतीयं कर्मण एव मोक्ष इति पक्षयोगं व्यवच्छिनत्ति । स्थूणेति । 'असन्दिग्धो हि वेदार्थः स्थूणाखननवन्मत' इति जिज्ञासाधिकरण एवोक्तम् । भाष्ये । जीवश्रेय इत्यादि । जिज्ञासाधिकरण उक्तम् । निषेधेति । 'न कलञ्जं भक्षयेत्', 'नेक्षेतो- द्यन्तमादित्यं नास्तं यन्तं कदाचने'ति निषेधविधी । यथा विधयः प्रेरणामभिदधतः स्वप्रवर्तकत्व- निर्वाहार्थं विधेयस्य यागादेः श्रेयःसाधनतामाक्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति । एवं 'न कलञ्जं भक्षये'- दित्यादयो निषेधा अपि निवर्तनामभिदधतः स्वनिवर्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्जभक्षणादेरनर्थहे- तुत्वमाक्षिपन्तः पुरुषं ततो निवर्तयन्तीति । अन्यत् मीमांसार्थप्रदीपे स्पष्टम् । प्रकृते । तथा चेति भाष्यं विवृण्वन्ति स्म तथा च कर्मेति । श्रुत्यादिभिरिति । आदिना 'ज्ञानी त्वात्मैव मे मत' इति गीता, 'कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारण'मिति श्रीभागवतं च । तमिति भाष्यं विवृण्वन्ति स्म तमेतमिति । निश्चयमिति । ज्ञानग्रहणम् । पूर्वं परामर्शो ग्रहण-