अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2198, कुल 2600 में से
संदर्भ में पढ़ेंतच्छब्दस्य प्रसिद्धार्थकत्वाल्लोकवेदमसिद्धस्य पुरुषोत्तमस्यैव, तत्रापि, 'पदवि'देव, दीनभावेन भक्तिमार्गीयंज्ञानवानेव, स्यादेवेत्येवकारः सर्वत्रानुषज्यते। तथा सति भक्तौ जातायां स्वत एव भगवज्ज्ञानं भवतीति ज्ञापयितुं 'तं विदित्वे'ति पश्चा- दुक्तवतीति तदाशयो ज्ञायते । अत एव पूर्वं कर्म निरूपितम् । साधनत्वात् । स्यादेतत् । भक्तिसाधनत्वमेव चेत् कर्मणः श्रुतेरभिप्रेतम्, तदा भगवद्विदि तत्फलासम्बन्ध इत्यनुपपन्नमिति चेत् । मैवम् । कर्मणां हि भक्त्युत्पत्तौ स्वरूप- योग्यतासम्पादकत्वमेव । 'नायमात्मे'ति श्रुतेः कर्मज्ञानाभ्यामलभ्यत्वाद्भगवतः स्वरूपयोग्यतापेक्षापि मार्यादिकस्य, न तु पौष्टिकस्य, अत एव वाशब्द उक्तोऽ- नियमवाची । तथा सति भगवदनुग्रहश्चेत्, तदा भक्तिः, तया पुरुषोत्तमज्ञानम्, तदा कर्मतत्फलसम्बन्धगन्धोऽपि नेति किमनुपपन्नम्। एतेन, 'तमेव विदित्वा मुनिर्भवति' 'अग्राह्यो न हि गृह्यते' इत्यादिश्रुतीनां मिथो विरोधः परिहृतः, भाष्यप्रकाशः। अत्र पुनश्चोदयति स्यादित्यादि । अनुपपन्नमिति । साङ्गाद्वैदिककर्मणः फलावश्यम्भा- वनियमेन ततो भक्त्युत्पत्तिसम्भवादनुपपन्नमित्यर्थः । तत् समाधत्ते मैवमित्यादि । उक्त इति । ज्ञानस्य कर्मसापेक्षत्वात् पूर्वकाण्डे नित्यविधिर्ज्ञानमार्गीयत्वेति कर्मणस्तदङ्गत्वबोधनाय सूत्रे उक्त इत्यर्थः । उक्तार्थोपष्टम्भार्थमेवंतत्पर्याङ्गीकारे गुणान्तरमाहुः एतेनेत्यादि । अत रश्मिः। प्रेमविवशा वदन्ति । भ्रमरगीतटिप्पण्यां विरहे प्रेम प्रसिद्धम् । निरोधलक्षणे च 'अहं निरुद्धो रोधेन निरोधपदवीं गत' इति । दीनेति । अहङ्कारविरुद्धं पादसेवनानुकूलं दैन्यं, तेन । भावपदेन भक्त्यन्तः- पातिना । भक्तिमार्गीयेति । भक्तिमार्गीयपदज्ञानवान् । पदविच्छब्द इति । श्रुतिप्रामाण्यादिति भावः । भाष्ये । तथा सतीत्यादि । मुक्तिसाधनपादसेवने सति । तजन्यप्रेमभक्तौ । स्वत इति । आत्मीयभक्तेः प्रेम्णः । भगवज्ज्ञानं फलार्थकं 'भक्त्या मामभिजानाती'ति वाक्योक्तम् । 'तं विदि- त्वे'ति । शारीरब्राह्मणे 'एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैव स्यात् पदवित् तं विदित्वा न कर्मणा लिप्यते पापकेने'ति । अग्रे 'तस्मादेवंविच्छान्तो दान्त