अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2202, कुल 2600 में से
संदर्भ में पढ़ेंपुरुषप्रवृत्त्युपयोग्यथर्कथनेनैव चरितार्थ्यादन्यार्थकथनस्य स्तुतित्वमस्तु नाम । न ह्येवं प्रकृते । मुमुक्षोः कर्मबन्धाभावप्रेप्सोस्तत्साधनत्वज्ञान एव प्रवृत्तिसम्भ- वात् । यच्च कर्मफलसम्बन्धनिषेधानुपपत्त्या कर्मसम्बन्ध इत्युक्तम्, तन्न साधीयः । न हि तरणौ तमःकार्याभाव इत्युक्ते तत्प्राप्तिरपि सम्भवति । अथवा । पुरुषो- त्तमज्ञानमुख्यफलस्यातिमहत्त्वेन साक्षाद्वक्तुमशक्यत्वं ज्ञापयन्ती कैमुतिकन्यायेन परम्परया तदाहनयर्चा 'तं विदित्वा ब्राह्मणो भवती'ति श्रुतेर्ब्राह्मणपदेन ब्रह्म- विदुच्यते । तथा चायपदेन बुद्धिस्थब्राह्मणमाहात्म्योद्देशे कृते, स क इत्याकाङ्क्षा- यामाह, तं ब्राह्मणं विदित्वा विहितनिषिद्धफलासम्बन्धी भवतीतिलक्षण इत्यर्थः । साक्षाद्भगवद्विदः किमु वाच्यमिति भावः । अतस्तस्यैव तच्छब्दस्य पूर्वपरामर्शित्वात् ब्राह्मणस्यैव भगवद्विदो भक्तस्यैव पदवित् स्यात्, तज्ज्ञाना- नुकूलप्रयत्नवान् स्यात्, तद्भजेतेति यावत् । तथा च यत्र भक्तविद्विषयकज्ञानस्या- प्युक्तरीत्या न कर्मशेषत्वं वक्तुं शक्यम्, तत्र भगवज्ज्ञानस्य तथात्वं दूरदूरतर- मिति सर्वं सुस्थम् ॥ २१ ॥ भाष्यप्रकाशः अन्यार्थकथनम् । पूर्वोक्तमाशङ्कान्तरमनूद्य परिहरन्ति यच्चेत्यादि । 'यतो वाचो निवर्तन्त' इत्य- त्राकुतोभयस्य भगवज्ज्ञानफलत्वश्रवणात् । ततो न्यूनं कर्मफलसम्बन्धाभावमात्रस्य फलत्वकथन- मप्रयोजकमित्यरुच्या 'एष नित्य' इति ऋगुत्तरार्ध प्रकारान्तरेणाहुः अथवेत्यादि । तदाहेति । महत्त्वमाह । तद्विशदयन्ति तमित्यादि । 'तं विदित्वे'ति व्याख्येयप्रतीकम् । श्रुतेरिति । विपा- पादिपदोत्तरं पठिताभिरपेक्षाच्छन्दात् । आयपदेनेति । एष इति पदेन । स क इति । ब्राह्मणः कः । विहितनिषिद्धफलासम्बन्धीति । पापकपदे पापं कं सुखं यस्मादित्यस्याप्यर्थस्य सङ्ग्रहीतुं शक्यत्वात् तथेत्यर्थः । तद्भजेतेति । पदं भजेत । सुस्थमिति । कर्मफलासम्बन्धस्य विधेयत्वेन स्तुतिरूपताया आदर्तुमशक्यत्वाज्ज्ञानस्य न सन्न्यासाश्रमीणकर्मशेषत्वमिति यदुक्तं तदक्षुण्णमित्यर्थः । रश्मिः । इति कर्मफलासम्बन्धफलकत्वस्य विधेयत्वम् । पूर्वोक्तमिति । अत्रैव पूर्वोक्तम् । भगवदिति । 'आनन्दं ब्रह्मणो विद्वा'नित्यनेनानन्दात्मकभगवज्ज्ञानफलत्वश्रावणात् । न्यूनेति । न्यूनञ्च तत् कर्म- फलसम्बन्धाभावमात्रं तस्य । कर्मफले गुणदोषौ तयोः सम्बन्धस्तस्याभावः स एव तन्मात्रं तस्येति व्याख्यातम् । अथवेत्यादीति । पुरुषोत्तमज्ञानफलं प्रवेशः मुख्यं फलं पदवित्त्वं तस्य । महत्त्व- मिति । उपकारस्मृत्या पूज्यत्वम् । अनया ऋचा वेद आह । एष इति पदेनेति । 'एष नित्यो महिमा ब्राह्मणस्ये'ति श्रुतिस्थपदेन । भाष्ये । बुद्धिस्थेति । एष बुद्धौ सन्निहितः इच्छाद्वारा ज्ञानकार्यस्य उद्देशकृतिरूपयत्नस्याग्रे दर्शनात् । नित्यो महिमेति । तथा च बुद्धिस्थं ब्राह्मणस्य महिमरूपमाहात्म्यं तस्योद्देश इत्यर्थः । प्रकृते । पापकेति । 'तस्यैव स्यात् पदवित् तं विदित्वा न कर्मणा लिप्यते पापकेने'त्यत्र पापकपदे । तथेति । विहितनिषिद्धफलासम्बन्धीत्यर्थः । पुष्टिमार्गे पापस्य प्रतिबन्धकत्वमाशङ्क्य श्रुत्योक्तम् । भाष्ये । इतिलक्षण इति । एष इति पूर्वोक्तवि- १. भगवद्विद्विषयक इति पाठः । २. रश्मौ न्यून कर्मफलेति समस्तं पदम् । ६० ब्र० सू० २० 2073