भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2201, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2201

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

४७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० १ सू० २१. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥ ननु साम्यश्रुतेर्हेतोः कर्मशेषत्वं ज्ञानस्य यदपास्तम्, तन्नोपपद्यते । साम्यो- क्तेर्ज्ञानस्तुतिरूपत्वात् । अपि च । तथा ज्ञानिनोपि कर्मोपादानात् कर्मकृतित्स्वी- कारादिति यावत् । अन्यथा ज्ञानिनां कर्मकृत्यभावेन तत्कृतगुणदोषाप्रसक्त्या तन्निषेधानुपपत्तिः स्यात् । तेषामपि तत्कृतगुणदोषसम्बन्धोऽस्त्येवेति ज्ञापनार्थं मात्रपदम् । निषेधेनेतरसाधारण्यं परिह्रियते । तथा च ज्ञानिनोपि कर्मकरणात् कर्मशेषत्वं ज्ञानस्य निष्प्रत्यूहमिति चेत्, नैवं वक्तुं युक्तम् । पदज्ञानस्य कर्मफला- सम्बन्धफलकत्वस्यापूर्वत्वाद्विधेयत्वमेव । न हि यस्य कर्मणो ज्ञानस्य वा यत्फलं तदुक्तिरपि स्तुतिरेवेति युक्तम् । तयोरुच्छेदापत्तेः । विधिर्हि प्रवर्त्तकः । तस्य भाष्यप्रकाशः। स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥ अत्रैव किञ्चिदाशङ्क्य परि- हरतीत्याशयेन सूत्रं विवृण्वन्तः पूर्वपक्षभागं व्याकुर्वन्ति नन्वित्यादि । ननु यदि साम्यश्रुत्या कर्मोपादानमापाद्यते, तदा निषेधश्रवणं बाधितमेव स्यादित्यत आह निषेधेनेत्यादि । इतरसा- धारणattributeमिति । अज्ञानिनां यथा कर्मजगुणदोषः, तथा ज्ञानिनो नेति तथेत्यर्थः । कर्मशेषत्व- मिति । सन्न्यासाश्रमीणकर्मशेषत्वम् । परिहारभागं व्याकुर्वन्ति नैवमित्यादि । अपूर्वत्वाद्विधे- यत्वमिति । यथा 'प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ती'त्यत्र रात्रिसत्रीयप्रतिष्ठाफलकत्व- स्यापूर्वत्वाद् विधेयत्वमेव, न तु स्तुतिमात्रत्वं तथेत्यर्थः । तदेतदुपपादयन्ति न हीत्यादि । यस्येति पदं 'यत् फल'मित्यनेन सम्बध्यते । हिर्हेतौ । विधिर्हीत्यत्रापि तथा । एवमिति । रश्मिः। स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥ परिहरतीति । सूत्रकारः । नन्वित्यादीति । यदपास्तमिति । 'असूर्या नामे'ति श्रुत्या कर्मनिन्दाया वितण्डयापास्तम् । स्तुतीति । असदुत्कर्षाधायकगुणवर्णनरूपत्वात् । यथा 'सौधाग्राणि स्पृशन्ति विधुमण्डल'मिति सौध- स्तुतिः। मात्रप्रत्ययान्तस्याव्ययत्वेन पञ्चम्यन्तत्वम् । सौत्रो वा लुक् पञ्चम्याः । स्तुत्योपादानादिति स्तुतिपदानुवृत्त्या हेत्वन्तरमन्वयेत्यर्थोपि चेत्यस्य । तथेति । स्तुत्या । आद्यस्य ज्ञानिनोपि । तन्निषेधेति । कामकारसूत्रोक्तायां 'एष नित्यो महिमा ब्राह्मणस्ये'ति श्रुतौ कर्मकृत्यभावकृतगुणदोषनिषेधानुपपत्तिः । तेषामित्यादि । ज्ञानिनामपि कर्मकृत्यभावकृतगुणदोषसम्बन्धः । मात्रपदमिति । स्तुतिरेव स्तुतिमात्रमित्यवधारणार्थक्रमात्त्रपदम् । स्तुतज्ञानमात्रस्थितौ कर्मकृत्यभावकृतगुणदोषसम्बन्ध इति भावः । आपाद्यत इति । साम्यश्रुतेः स्तुतिमात्रपरायाः ज्ञानस्य कर्मसाम्यं स्यात्, तदा ज्ञानिनां कर्मोपादानं न स्यात्, वर्तते तु विपरीतम्, अतो ज्ञानिनां कर्मोपादानापत्तिः एवमापाद्यते । बाधित- मिति । 'मम माता वन्ध्ये'तिवन्निर्विषयं स्यात् । ज्ञानिनो नेति । तेनेतरैरज्ञानिभिः साधारण्यं परिह्रियत इति भाष्यार्थः । अयमेव तथेत्यस्यार्थः । सन्न्यासाश्रमीणेति । सन्न्यासाश्रमे कर्माणि ससागर- भिक्षुचर्यादि तच्छेषत्वं कर्मज्ञाने । 'ज्ञात्वा कर्म कुर्या'दिति । तथेत्यर्थ इति । 'तस्यैव पदवित् स्यात्' इत्यत्र पदज्ञानस्य 'एष नित्यो महिमा ब्राह्मणस्ये' तिश्रुत्युक्तो यः गुणदोषफलासम्बन्धः तत्फलकत्वस्य। 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुत' इति । 'स्यादि'ति विधिरितद्विषयत्वं विधेयत्वं तथेत्यस्यार्थः । पदज्ञानवानेवेति भाष्य एवकारोण ज्ञानप्रतिबन्धकगुणदोषफलसम्बन्धव्यवच्छेदः क्रियत १. तथेति रश्मिपाठः। 2072

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2201, कुल 2600 में से · BharatKosha