अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2200, कुल 2600 में से
संदर्भ में पढ़ेंमात्मे'त्यादिकया पूर्वश्रुत्या भगवन्माहात्म्यं श्रुत्वा यथाकथञ्चित् तद्वेदनीत्सुक्ये सति सत्सङ्गाभावेन भक्तिमार्गापरिचयात् कर्ममार्गमात्रमाश्रमधर्मत्वेनालौकि- कार्यसाधकत्वेनापि पूर्वं ज्ञातमस्तीति तदेव भगवद्वेदनेपि साधनमिति मन्यमाना- स्तदेव कुर्वन्ति। ननु वैदिकसाधनानां वैयर्थ्यं कथमिति चेत्। न। भ्रमकृतत्वेऽपि जन्मान्तरीयाक्षरज्ञानोपयोगिसंस्काराधायकत्वेनावैयर्थ्यात् ॥ २० ॥ भाष्यप्रकाशः। तासम्पादन एव पर्यवसानम्, तदा ज्ञानमूलकारणस्य वरणस्य स्वविषयतानिश्चयाभावेन वेदा- नुवचनादिषु निःशङ्का प्रवृत्तिर्या दृश्यते, सा कथमित्यर्थः । तत्परिहाराय प्रवृत्तिमुपपादयन्ति इत्थमित्यादि । 'स वा अयमात्मा सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च । स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष