भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2207, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2207

४७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ४ अ० १ सू० २४- ख्यानपर एव, न त्वाख्यानान्तरपरोऽपि । प्रकरणस्य नियामकत्वात् । एवं सति, यद्वा पारिप्लवाख्यकर्मप्रस्तावः, तदा विशेषविनियोग उक्तः । 'पारिप्लवमाचक्षी- ते'ति । तत्र प्रथमेऽहनि 'मनुर्वैवस्वतो राजे'ति । द्वितीयेऽहनि 'इन्द्रो वैवस्वत' इति । तृतीयेऽहनि 'यमो वैवस्वतो राजे'त्याख्यानविशेषा वाक्यशेषे विनि- युज्यन्ते । आख्यानसामान्यपरत्वे त्वहोविशेष उपाख्यानविशेषविधानं न स्यात् । अत एव पारिप्लवमित्येकवचनम्, अतो नाख्यानान्तरगन्धसम्बन्धोऽपि । प्रापकाभावात् ॥ २३ ॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २४ ॥ एवं 'पुरुषार्थोऽतः शब्दा'दित्युपक्रम्य ज्ञानस्य फलसाधने कर्माऽनपेक्षत्वमुप- पाद्य तत्रैवोपपत्त्यन्तरमाह । यतो ज्ञानी ज्ञानेन स्वयमेव यज्ञात्मको जातः, अत एव जरामर्याग्निहोत्रेऽग्निस्तदिन्धनं समिदादि, तदाद्य आज्याद्यस्तेषामन- पेक्षोक्ता । श्रुतौ तैत्तिरीयके पठ्यते । 'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा भाष्यप्रकाशः। एवं सतीति प्रकरणसन्निधिभ्यां सर्वशब्दार्थसङ्कोचे सति । तथा चेदं लिङ्गमपि सङ्कोचे मानमि- त्यर्थः। ननु 'मनुर्वैवस्वत' इत्यादीनि तत्तदहनि पूर्वमाख्यातव्यानीत्यभिप्रायेण विशेषविधानमित्या- शङ्कावारणाय गमकान्तरमाहुः अत एवेत्यादि । तथा च यदि तथाभिप्रायः स्यात्, तदा बहुवच- नमादिपदं वा प्रयुक्तं स्यात्, अतस्तदभावान्न तथेत्यर्थः । एवञ्च पारिप्लवसूत्रे यो विशेषितत्वरूपो हेतुरुक्तः, स एव प्रकृतेतराण्याख्यानानि व्यावर्तयन् सर्वशब्दार्थसङ्कोचं बोधयतीति न काऽपि क्षतेति तात्पर्यम् ॥ २३ ॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २४ ॥ सूत्रप्रयोजनमाहुः एवमित्यादि । व्याकुर्वन्ति रश्मिः। चक्षीते'ति श्रुतिसामर्थ्यम् । प्रकरणेति । सन्निधिः । पारिप्लवसन्निधिः । भाष्ये विशेषेति सङ्कुचित- सर्वशब्दार्थोपा