अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2208, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७९ पत्नी शरीरमिध्ममुरो वेदिलोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्नि'रित्यादि । एतेन यदन्यस्य यज्ञतासम्पादकम्, तस्य स्वकार्य- साधने कथं यज्ञापेक्षा भवेदिति भावः सूच्यते ॥ २४ ॥ इति तृतीयाध्याये चतुर्थपादे प्रथमं पुरुषार्थोऽतः शब्दादित्यधिकरणम् ॥ १ ॥ भाष्यप्रकाशः । यत इत्यादि । शेषं स्फुटम् ॥ २४ ॥ इति प्रथमं पुरुषार्थोऽतः शब्दादित्यधिकरणम् ॥ १ ॥ रश्मिः । शरीरमिध्ममिति । इध्मं समिधः, ता यथाग्नौ हूयन्ते, तथा शरीरं तपसि, द्वितीयस्कन्धनवमाध्या- योक्ते । उरः प्रसिद्धम् । वेदिः संस्कृता भूः खण्डिलम् । बर्हिरिति । विराड्लोमानि । तत्साम्यात् । वेद इति । 'वेदं कृत्वा वेदिं करोती'ति श्रुत्युक्तो वेदः । वेदो धननामसु निरुक्त उक्तम् । हृदयं यूप इति । यथा उरोऽधो हृदयं तथा वेद्यधो यूप इत्यधस्त्वसाम्यात् । काम आज्यमिति । आज्ये घृतं यथाग्नौ तथा कामस्तपसि तपः कामः । विरहताप एव सर्वात्मभावव्यक्तेः सर्वात्मभाव- कामः स्यात् । मन्युः पशुरिति । पशुवन्मन्युः क्रोधः राजसादिभावे विशसनीय इत्यर्थः । जरामर्या- मिहोत्रस्य सत्रत्वमुक्तं तदर्थं कर्तॄनाह दमः शमयितेत्यादि । बहुकर्तृको यागः सत्रम् । तत्र दम इन्द्रियसंयमरूपोपि कर्ता । कर्तृभूतदमाभावे अन्यत्र मनस्सत्त्वे सर्वात्मभावसत्रं न निर्वहेत् । शमयिता मनसो बोध्यः । दक्षिणावाग्घोतेति । दक्षिणा दैवी वाक् होता होतृकर्मकर्त्री होतृर्ग्वित् । जुहोतीति होता । नेष्टृत्वष्टृहोतृपोतृरिति साधुः । प्राण उद्गातेति । उद्गातृकर्मकर्ता । प्राण आसन्यः । सोपि कर्ता । यतः सन्देशसदृशसामगानकर्ता । सादृश्यं च प्राणरक्षकत्वेनापहतपाप्मत्वेन । सर्वात्मभाव- वत्यः दास्यभक्तिमत्त्यः 'भवाम दास' इति वाक्यात् । साम्नि च भगवतः परिचर्योक्तेति युक्तं सामगातुः प्राणस्य कर्तृत्वम् । उद्गाता सामवित् । उद्गायतीत्युद्गाता । तृन् तृच् वा । चक्षुरध्वर्युरिति । इन्द्रियवतीनां सर्वात्मभावाध्वरे साध्वीत्वात् चक्षुरध्वर्युः । अध्वर्युर्यजुर्वित् । अध्वरमिच्छतीत्यध्वर्युः । सुप इति क्यच्, कव्यध्वरपृतनस्येति लोपः क्याच्छन्दसीत्युः । ब्रह्मेति । ब्रह्महन्मनानां मनोपि बृह- दिति ब्रह्मा कृताकृतावेक्षकः । श्रोत्रं अग्नीदिति अग्नीन् इन्धे इत्यग्नीत् । ञि इन्धि दीप्तौ क्विप् । न लोपः अग्नीदलिकू । य अब्रब्रियते सा दीक्षेति । दीक्षा मौन्ज्येव्योपनयननियमव्रतादेशेषु । भ्वा. आ. से. अवार्या बहवः नवार्थ्यामुक्ताः तदर्थं ब्रियते वैकुण्ठलीला सा दीक्षा नियम इत्यर्थः । साधार- णविषयेति प्रतिज्ञेत्यर्थः । नियमः प्रतिज्ञा । यद्भाति तद्धविरिति प्रसिद्धमग्नौ विरहतापे । यत्पिबति तदस्य सोमपानमिति । स्पष्टम् । यद्रमते तदुपसद इति । उपसीदन्त्यासु उपसदः । रमणेऽनेकेषु सीदन्तीति साम्यम् । 'आत्मक्रीड' इति श्रुतेः । यत्सञ्चरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्य इति । प्रवर्ग्यो वायुः । आदित्यो वा चेष्टारूपः । कालभेदेति यागे प्रवर्ग्यो द्रष्टव्यः । स्वाहाकारे । यन्मुखं तदाहवनीय इति । मुख्यतो मुखे जुहोतीति । आहवनीयोऽग्निः कुण्डश्च । या व्याहृतिराहुतिरिति । तिस्रो व्याहृतयो नोक्ताः आत्मयजमानस्य आधिभौतिकत्वात् । व्याहृ- तिर्मूर्त्तस्ताः सत्ता मुखे । 'अग्निर्वाग्भूत्वा मुखं प्राविश'दिति श्रुतेः । आहुतिराहवनीयमुखे । यदस्य विज्ञानं तज्जुहोतीति । अस्य आत्मयजमानस्य यद्विज्ञानं व्याहृत्याहुतिविषयकम् । विशिष्टं वैदिकं ज्ञानम् । तज्जुहोति । मुख्योर्ददातीत्यर्थः । यत्सायं प्रातरत्ति तत् समिधमिति । 2079