अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2209, कुल 2600 में से
संदर्भ में पढ़ें४८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ४ अ० २ सू० २५. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २५ ॥ (३-४-२.) उक्तन्यायेन ज्ञानं प्रति कर्मणः फलोपकारित्वाभावेऽपि स्वरूपोपकारित्वमस्ति न वेति चिन्त्यते । तत्र नेति पूर्वः पक्षः । गुरूपसत्तितदुपदेशैरेव तत्सम्भवात् । 'आचार्यवान् पुरुषो वेदे'ति श्रुतेः । अत्र सिद्धान्तमाह सर्वापेक्षेति । सर्वेषां भाष्यप्रकाशः। सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २५ ॥ अधिकरणमवतारयन्ति उक्तन्यायेने- त्यादि । पूर्वाधिकरणे पुरुषोत्तम एव पुरुषार्थः, तत्प्राप्तिश्च केवलान्ज्ञानादेवेति प्रतिज्ञाय शब्दाद्धेतो- स्तत् साधयित्वा छन्दस तत्साधकत्वं व्युत्पादितम् । अत उक्तेन न्यायेन शब्देन ज्ञानं प्रति कर्मणः फलोपकारित्वाभावेऽपि कर्मणां सार्थक्याय स्वरूपोपकारित्वं यदुक्तम् , तद्युक्तत्वादस्ति