अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2210, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८१
कर्मज्ञानभक्तीनां पुरुषोत्तमज्ञानोत्पत्तावस्त्यपेक्षा । अत्र प्रमाणमाह यज्ञादिश्रुते- रिति । यज्ञादिनिरूपिका श्रुतिरेव प्रमाणं यत इत्यर्थः । इदमत्राकूतम् । पुरुषोत्तम एव स्वतन्त्रपुरुषार्थरूपः, तत्प्राप्तिरेव फलम् । तत्र प्रेमभक्तिजं तज्ज्ञानमेव साधनमिति 'ब्रह्मविदाप्नोति पर'मित्यादिना 'एतद्वि- दुरमृतास्ते भवन्ती'त्यादिश्रुतिसहस्रैश्च प्रतिपाद्यते । 'अथेतेरे दुःखमेवापयन्ती'ति श्रुत्या ज्ञानरहितानां दुःखमात्रप्राप्तिरुच्यते । एवं सति स्वतःपुरुषार्थरूपं यज्ञादिकं सर्वार्थतत्त्वप्रतिपादिका श्रुतिर्यन्निरूपयति, तत्सर्वथा पुरुषार्थसाधनत्वेनैवेति मन्तव्यम् । तच्च निष्कामतयैव कृतं तथा । अत एव वाजसनेयिशाखायां 'यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवती'त्युपक्रम्य पठ्यते 'तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मण' इति तु कामयमानोऽथाऽकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति, न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माऽप्येती'त्यादि । अत्र 'अथाकामयमानः' कर्ता निरूप्यत इति शेषः । यः पुमान् कर्मकृतावकामस्ततो निष्कामः सन्नात्म- कामो निरुपधिस्नेहवान् प्रभौ, ततो भगवत्प्राप्त्या आप्तकामो भवतीत्यर्थः । अत्र
भाष्यप्रकाशः। दि । तथा च मार्गत्रयापेक्षाकथनात्तन्मार्गोक्तानां कर्मणामपेक्षास्तीत्यर्थो बोधितः । यज्ञादिपदे आदिशब्देन शमदमादीनां कर्मणां भगवद्धर्मरूपाणां शरणगमनादिकर्मणां च सङ्ग्रहः । यज्ञादि- कर्मणां विद्यास्वरूपोपकारकत्वे कथं यज्ञादिश्रुतेः प्रमाणत्वमित्याकाङ्क्षायां तदुपपादयन्ति इदमत्रेत्यादि । एवं सतीति । अनेन प्रकारेण ज्ञानशून्यकर्मणां दुःखप्रापकत्वे सति । मन्तव्यमिति निरूपणान्यथानुपपत्त्या मन्तव्यम् । तथेति । पुरुषोत्तमज्ञानसाधकम् । 'अथा-
रश्मिः। मार्गांशेऽसङ्कुचितवृत्तिरित्याशयेनाहुः कर्मज्ञानभक्तीनामिति । 'मार्गास्त्रयो मया प्रोक्ता' इति वाक्यात् । ननु ज्ञानकाण्डं कर्मकाण्डमिति काण्डद्वयात् कर्मज्ञानयोः पुरुषोत्तमज्ञानोत्पत्तावस्त्यपेक्षेति युक्तम्, भक्तिनिवेशः कुत इत्यत आहुः इदमत्रेति । तत्र प्रेमेति । ज्ञानकाण्डकर्मकाण्डयोरभि- धेये ज्ञानकर्मणी भवतः । 'सर्वेषामेव शब्दानां व्यञ्जकत्वमपीष्यत' इति शब्दानापि व्यञ्जकत्वात् तात्पर्यार्थाकाङ्क्षायां भक्तिरस्तु । 'अग्नये जुष्टं निर्वपामी'ति प्रथमाष्टकात् । 'भगवान् ब्रह्म कात्स्न्यैने'- तिवाक्याच्च । एवं च 'भक्त्या मामभी'तिवाक्योपष्टम्भं प्रेम भक्तिजमित्यर्थः । अन्यथेति । सर्वथा पुरुषार्थसाधनत्वकल्पनं समाधेयस्वतःपुरुषार्थरूपयज्ञादिनिरूपणस्यानुपपद्यमानस्योपपत्तये । इदमर्थापत्तिलक्षणम् । अन्यथानुपपत्तिलक्षणं तु अर्थान्तरकल्पनया समाधेयत्वेनोच्यमानः प्रमाणसिद्ध- योरर्थयोः परस्परप्रतिघातः । प्रस्थानरत्नाकरे प्रमाणपरिच्छेदसमाप्तौ सम्यग् द्रष्टव्यो विचारः । अथेत्यादीति । कर्मकृताविति । काम्यानां कर्मणां कृतौ । निष्काम इति । सन्न्यासी । 'काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु'रिति गीता । आत्मकाम इति । आत्मनि कामो यस्य पुंसः । कामोत्र इच्छा 'आत्मन्यविचारण प्रेम्णेच्छेति स्थितं मत'मिति विश्वेश्वरमतेनाहुः निरुप- धिस्नेहवानिति । एवं मर्यादामक्तिं निरूप्य कर्मभिर्ज्ञानं निष्कामसकामयोश्च निरूपयन्ति स्म अत्र
६१ ब्र० सू० २० 2081