भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८१

कर्मज्ञानभक्तीनां पुरुषोत्तमज्ञानोत्पत्तावस्त्यपेक्षा । अत्र प्रमाणमाह यज्ञादिश्रुते- रिति । यज्ञादिनिरूपिका श्रुतिरेव प्रमाणं यत इत्यर्थः । इदमत्राकूतम् । पुरुषोत्तम एव स्वतन्त्रपुरुषार्थरूपः, तत्प्राप्तिरेव फलम् । तत्र प्रेमभक्तिजं तज्ज्ञानमेव साधनमिति 'ब्रह्मविदाप्नोति पर'मित्यादिना 'एतद्वि- दुरमृतास्ते भवन्ती'त्यादिश्रुतिसहस्रैश्च प्रतिपाद्यते । 'अथेतेरे दुःखमेवापयन्ती'ति श्रुत्या ज्ञानरहितानां दुःखमात्रप्राप्तिरुच्यते । एवं सति स्वतःपुरुषार्थरूपं यज्ञादिकं सर्वार्थतत्त्वप्रतिपादिका श्रुतिर्यन्निरूपयति, तत्सर्वथा पुरुषार्थसाधनत्वेनैवेति मन्तव्यम् । तच्च निष्कामतयैव कृतं तथा । अत एव वाजसनेयिशाखायां 'यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवती'त्युपक्रम्य पठ्यते 'तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मण' इति तु कामयमानोऽथाऽकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति, न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माऽप्येती'त्यादि । अत्र 'अथाकामयमानः' कर्ता निरूप्यत इति शेषः । यः पुमान् कर्मकृतावकामस्ततो निष्कामः सन्नात्म- कामो निरुपधिस्नेहवान् प्रभौ, ततो भगवत्प्राप्त्या आप्तकामो भवतीत्यर्थः । अत्र

भाष्यप्रकाशः। दि । तथा च मार्गत्रयापेक्षाकथनात्तन्मार्गोक्तानां कर्मणामपेक्षास्तीत्यर्थो बोधितः । यज्ञादिपदे आदिशब्देन शमदमादीनां कर्मणां भगवद्धर्मरूपाणां शरणगमनादिकर्मणां च सङ्ग्रहः । यज्ञादि- कर्मणां विद्यास्वरूपोपकारकत्वे कथं यज्ञादिश्रुतेः प्रमाणत्वमित्याकाङ्क्षायां तदुपपादयन्ति इदमत्रेत्यादि । एवं सतीति । अनेन प्रकारेण ज्ञानशून्यकर्मणां दुःखप्रापकत्वे सति । मन्तव्यमिति निरूपणान्यथानुपपत्त्या मन्तव्यम् । तथेति । पुरुषोत्तमज्ञानसाधकम् । 'अथा-

रश्मिः। मार्गांशेऽसङ्कुचितवृत्तिरित्याशयेनाहुः कर्मज्ञानभक्तीनामिति । 'मार्गास्त्रयो मया प्रोक्ता' इति वाक्यात् । ननु ज्ञानकाण्डं कर्मकाण्डमिति काण्डद्वयात् कर्मज्ञानयोः पुरुषोत्तमज्ञानोत्पत्तावस्त्यपेक्षेति युक्तम्, भक्तिनिवेशः कुत इत्यत आहुः इदमत्रेति । तत्र प्रेमेति । ज्ञानकाण्डकर्मकाण्डयोरभि- धेये ज्ञानकर्मणी भवतः । 'सर्वेषामेव शब्दानां व्यञ्जकत्वमपीष्यत' इति शब्दानापि व्यञ्जकत्वात् तात्पर्यार्थाकाङ्क्षायां भक्तिरस्तु । 'अग्नये जुष्टं निर्वपामी'ति प्रथमाष्टकात् । 'भगवान् ब्रह्म कात्स्न्यैने'- तिवाक्याच्च । एवं च 'भक्त्या मामभी'तिवाक्योपष्टम्भं प्रेम भक्तिजमित्यर्थः । अन्यथेति । सर्वथा पुरुषार्थसाधनत्वकल्पनं समाधेयस्वतःपुरुषार्थरूपयज्ञादिनिरूपणस्यानुपपद्यमानस्योपपत्तये । इदमर्थापत्तिलक्षणम् । अन्यथानुपपत्तिलक्षणं तु अर्थान्तरकल्पनया समाधेयत्वेनोच्यमानः प्रमाणसिद्ध- योरर्थयोः परस्परप्रतिघातः । प्रस्थानरत्नाकरे प्रमाणपरिच्छेदसमाप्तौ सम्यग् द्रष्टव्यो विचारः । अथेत्यादीति । कर्मकृताविति । काम्यानां कर्मणां कृतौ । निष्काम इति । सन्न्यासी । 'काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु'रिति गीता । आत्मकाम इति । आत्मनि कामो यस्य पुंसः । कामोत्र इच्छा 'आत्मन्यविचारण प्रेम्णेच्छेति स्थितं मत'मिति विश्वेश्वरमतेनाहुः निरुप- धिस्नेहवानिति । एवं मर्यादामक्तिं निरूप्य कर्मभिर्ज्ञानं निष्कामसकामयोश्च निरूपयन्ति स्म अत्र

६१ ब्र० सू० २० 2081

४८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० २ सू० २५. 'यथाकारी'त्यादिना कर्मकर्तुरेवोपक्रमात् 'अथाकामयमान' इत्यनेनापि तथाभूतः स एवोच्यते । एवं सति सत्कर्मणि प्रवृत्त्यर्थं विविधफलानि स्वयमेवोक्त्वा जनान् श्रामितवानिति खोक्तकरणात् चिरेण दयया निष्कामं करोति, सकामतयापि क्रियमाणेन वैदिककर्मणाऽनेकजन्मभिः संस्कारविशेषप्रचयेनापि तथा । 'कषाये पक्वे ततो ज्ञानं प्रवर्तते' इत्यादिसमृतिभ्यश्च ज्ञानोत्पत्तौ कर्मापेक्षास्तीति । चकारेण पुष्टावङ्गीकृतस्य सर्वानपेक्षेति सा समुच्चीयते । अत एव, 'नायमात्मे'- त्यादिश्रुतिर्न विरुध्यते । भाष्यप्रकाशः। कामयमान' इति श्रुतिभागं व्याकुर्वन्ति अथेत्यादि । तथाभूतः स इति । 'एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलं तथे' ति गीतावाक्यादकामः कर्मकृतौ, निष्कामः फले । एवं द्विविधकर्तृनिरूपणेन यत् सिध्यति तदाहुः एवं सति सदित्यादि । उक्तमर्थं स्मृत्योपष्टम्भन्ति कषाय इत्यादि । एवं मर्यादामार्गे कर्मापेक्षैव यद्यपि भगवत्साक्षात्कारे व्युत्पादिता, तथापि हेतुबोधके यज्ञादिश्रुतिपदे आदिशब्देन तैत्तिरीयोक्तानामानन्दमयाद्युपासनानामन्यत्रोक्तानां शमादीनां ज्ञानोपकारिणाम्, तथा भक्त्युपयोगिनां गोपालतापनीयोक्तानां शरणगमनध्यान- रसनभजनादीनां च सङ्ग्रहात्तदपेक्षापि बोध्या । साप्यग्रिमसूत्रेषु व्युत्पादयिष्यते । चकारार्थमाहुः चकारेणेत्यादि । सेति । अत्रानुकम्पापि । सूत्रस्य चकारस्यार्थं श्रौतार्थापत्त्योपष्टम्भन्ति अत एवेत्यादि । अत एवेति । मार्गभेदादेव । तथा च साधनदशायामेव कर्मापेक्षा, न तु सिद्ध- शायामिति भावः । अत्रेदं बोध्यम् । पुरुषोत्तमज्ञानं हि मार्गभेदेन सामान्यतश्चतुर्विधं वा । तत्र कर्ममार्गे रश्मिः। यथेति । अकाम इति 'अकामयमान' इत्यनेनाकामः 'यथाकारी'त्यादिना कर्मकर्ता । भाष्य- स्थेनापिना पूर्वोक्तनिःकामः केति चेत् फले । अपिः पदार्थसम्भावनायाम् । स्वयमिति वेदः श्रामित- वानिति । अविदितकरणात् लौकिकात् वैदिके श्रामितवान् । चिरेणेत्यादि । 'भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्तियोग'मिति वाक्यात्तथा । निष्कामः सन्न्यासीत्युक्तं 'आश्रमाणां तुरीयोस्मी'ति । अतो मुक्तः । तथेति निष्कामं करोति । कषाय इति कामक्रोधादौ पक्वे शास्त्रीत्या परिणते । एवमिति सर्वशब्देन मार्गत्रये प्रमेये सति यज्ञादिपदेन भक्तिज्ञानसङ्ग्रहवत् । गोपालेति । आदिना श्रीभागवतमुपष्टम्भकम् । अन्यदप्युपयुक्तम् । शरणेति 'मुमुक्षुर्वै शरणमनुव्रजे'दिति शरणगमनम् । मुमुक्षुत्वस्य साधनचतुष्टयप्रवेशात् । शरणगमनस्य मुमुक्षुत्वज्ञापकत्वात् । ध्यानं श्रीभागवतेपि साधनस्कन्धीयत्वात् उपात्तम् । रसनभजनयोः स्वरूपं गोपालतापनीय एवोक्तम् । हेतुबोधकं सूत्रे यज्ञादिश्रुतिपदम् । पञ्चम्यन्तत्वात् । तत्र यज्ञादीत्यत्रादि- पदेन षष्ठ्यन्तोक्तानां सङ्ग्रहात् । चकारेति । एवं मर्यादाभक्ति कर्मभिर्ज्ञानं निष्कामसकामयोश्च निरूप्य पुष्टिमार्गिर्निरूप्येत्याशयेन चकारार्थम् । श्रौतार्थापत्त्येति लक्षणमुक्तम् । पुष्टिकल्पनं समाधेयंनायमात्मेतिश्रुतार्थस्यानुपपद्यमानस्योपपत्तय इति लक्षणसमन्वयोत्र । दृष्टार्थापत्तिस्तु, जीवन् देवदत्तो गृहे नास्तीत्यत्र जीवनसंसृष्टगृहाभावस्यानुपपद्यमानस्योपपत्तये बहिर्भावकल्पना । मार्गेति । 'भक्तिमार्गस्य रूक्षत्वात् पुष्टिस्तीति निश्चय' इति पुष्टिमार्गभेदात् । पुरुषोत्तमज्ञानमिति । ननु 2082

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८३ ननु ज्ञानद्वारा कर्मादीनामेव फलसाधकत्वमस्त्विति शङ्कानिरासाय दृष्टान्तमाह अश्ववदिति । यथा श्रेष्ठफलसाधकदेशान्यव्यवधानात्मकादेशातिक्रमेऽ- श्वस्य साधनत्वम्, न तु तत्तत्फलसिद्धावपि, तथाधिभौतिकाध्यात्मिकाधिदैविक- प्रतिबन्धकनिवृत्तावेव तेषां साधनत्वम्, न तु भगवत्प्राप्तावपीत्यर्थः । इदं च मुमुक्षु- भक्तविषयकमिति ज्ञेयम् । आत्यन्तिकभक्तिमतां भक्तीतरानपेक्षणात् ॥ २५ ॥ भाष्यप्रकाशः । यदाविर्भवति, तत् सत्त्वगुणमाधारीकृत्य तत्रान्तर्यामिन्यायेन प्रविश्य सत्त्वं स्वान्तर्भूतं कृत्वा तेन तेन रूपेणाविर्भवतीति नामिदृक्षादियज्ञेषु तत्तद्रूपेणाविर्भावादवगम्यते । ज्ञानमार्गे त्वक्षर- रूपेणैवाविर्भवतीति, 'ये त्वक्षरमनिर्देश्य' मिति गीतावाक्यसन्दर्भादवगम्यते । ज्ञानभक्तिसाहित्ये तु यद् बलिष्ठं तदनुसारेणाविर्भवति । एवं केवलपि विहितभक्तिमार्गेपि तत्तदुपासनावाक्यै- स्तत्क्रतुन्यायादवसीयते । अविहितभक्तिमार्गे तु वरणानुसारेणाविर्भवतीति वरणश्रुत्यादिभिरव- सीयते । तत्र विहितमार्गत्रयसम्बन्धित्वान्मर्यादामार्गीयसाक्षात्कारे साधनापेक्षा । पुष्टिमार्गे तु वरणमात्रैकसाध्यत्वान्न तदपेक्षेत्युभयमप्युपपन्नमिति । ननु सर्वापेक्षापदे कर्मज्ञानभक्तीनां पुरुषोत्तमज्ञानेऽपेक्षां व्याख्याय यज्ञादिश्रुतेरित्यस्यार्थ- व्युत्पादने द्विविधं कर्मकर्तारं व्याख्याय निष्कामकतुः कर्मापेक्षामात्रं व्युत्पादितम् । ततश्च ज्ञाने कर्मापेक्षा सिद्धा, न तु ज्ञानभक्त्यपेक्षेति तत्कथनस्य किं प्रयोजनमित्याकाङ्क्षायामाहुः इदं वेत्यादि । इदमिति । कर्मापेक्षणम् । भक्तीतरानपेक्षणादिति । अतीतपादे, 'सैव हि सत्या- दय' इत्यत्र निर्णीतत्वेन तथात्वात् । तथा चैकादशस्कन्धे 'योगास्त्रयो मया प्रोक्ता' इत्यत्र कर्मज्ञानभक्तीरुक्त्वा, । 'निर्विण्णानां ज्ञानयोगः कर्मयोगस्तु कामिनाम् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिद' इति कथनेन तस्य तस्य तत एव सिद्धिरिति मुमुक्षुभक्तस्य सोपाधिकस्नेह- वत्त्वात्तस्य कर्मापेक्षणं युक्तम् । अत्र वाक्यसन्दर्भे योगशब्देन पुरुषार्थप्राप्त्युपाय उच्यते । ज्ञान- शब्देन, 'सर्वभूतेषु येनैकम्' 'कैवल्यं सात्त्विकं ज्ञान'मित्यादिवाक्योक्तं ब्रह्मैव सर्वम्, 'वासुदेवः सर्व'मित्यत्र पर्यवसितं सात्त्विकं ज्ञानमुच्यते । कर्मशब्देन च पूर्वकाण्डोक्तमग्निहोत्रादिलक्षणं विहितं कर्मोच्यते । भक्तिशब्देन च तापनीयगीताश्रीभागवताद्युक्तो भगवद्विषयकः स्नेह उच्यते । अत एव त्रयः स्वस्वप्रकरणोक्तसाधनसहिता मार्गशब्देन व्यवह्नियन्त इति सोपाधिकभक्तस्य तदपेक्षणं युक्तमेवेत्यर्थः । तस्मादस्ति ज्ञानस्वरूपे सर्वापेक्षेति सिद्धम् ॥ २५ ॥ रश्मिः । चित्तशुद्धिद्वारा पुरुषोत्तमज्ञाने यज्ञस्य कारणत्वं वक्तव्यम्, तथा च सर्वोत्तममार्गस्य कुतः शङ्काया मुक्तिरिति चेत् न । भक्त्यजनकत्वात् । तत्कथनस्येति ज्ञानभक्तिकथनस्य । भाष्ये । आत्य- न्तिकेति 'सैवात्यन्तिका या स्वतो रसभावं प्राप्ता सैव नान्यत्फलमङ्गीकारयति । अत्यन्तप्रेमोत्पत्तावेवं भवती'ति तृतीयस्यैकोनत्रिंशाध्याये 'सालोक्ये'ति श्लोकव्याख्याने । तथा चेति मुमुक्षुभक्तेतरभक्तसत्त्वे च । तस्य तस्येति । ज्ञानाधिकारिणः कर्माधिकारिणः भक्त्यधिकारिणश्च । तत एवेति ज्ञानात् कर्मणो भक्तेश्च साधनात् तथेति सर्वापेक्षेल्यर्थः । ज्ञानेति क्षराक्षरपुरुषोत्तमज्ञाने ॥ २५ ॥ 2083

४८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० २ सू० २६. शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात्॥२६॥ ननु 'तस्मादेवंविच्छान्तो दान्त' इत्यादिना शमादेरेव ज्ञानसाधनत्वमुच्यते, न तु यज्ञादेरिति चेत्, तन्नाह शमदमाद्युपेतो भक्तिमार्गेऽपि स्यादेव यद्यपि, तथापि तदङ्गतया 'आत्मन्येवात्मानं पश्ये'दिति ज्ञानमार्गीयज्ञानाङ्गतयैव शमादिविधेर्हेतोर्ज्ञानमार्गे तेषामवश्यानुष्ठेयत्वात् तथा विधिरित्यर्थः । भक्तिमार्गे स्वत एव शमादीनां सम्भवेऽप्यावश्यकत्वं न तेषामिति भावः ॥ २६ ॥ भाष्यप्रकाशः। शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेय- त्वात् ॥ २६ ॥ सूत्रमवतारयन्ति नन्वित्यादि । 'तमेतं वेदानुवचनेने'ति श्रुतिलिङ्गाद्यभावेन विद्यास्तुत्यर्थं, यज्ञाद्यनुवादस्य शक्यवचनत्वात् । विद्यार्थिनः 'शान्तो दान्त' इति श्रुत्या शमादीनां साधनानां विशेषतो विधानात्, भक्तिमार्गेऽपि, 'ॐकारेणान्तरितं कृत्वा यो जपति गोविन्दस्य पञ्चपदं मनुं तस्यैवासौ दर्शयेदात्मरूप'मित्यादिश्रुतीनां तापनीयेषु दर्शनाच्च तत्करणमेव युक्तम्, न तु यज्ञादिकरणमिति पूर्वोक्तहेतोर्बाधितत्वमित्याशङ्क्य तत्परिहारमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति शमदमेत्यादि । तथा विधिरिति । साधनत्वेन विधानम् । तथा चानया श्रुत्या ज्ञानमार्गीयस्य साधनान्तरमधिकं विधीयते इति तेषामवश्यानुष्ठेयत्वम् । तत्र च न यज्ञादिकं निषिध्यत इति तेषामप्यनुष्ठेयत्वम् । यद्यपि तत्र लिङाद्यभावः, तथापि 'विविदिषन्ती'ति फलसंयोगस्यापूर्वत्वा- त्तत्र रात्रिसत्रवत् दिष्टाग्निहोत्रस्ये, 'उपरि हि देवेभ्यो धारयन्ती'ति वाक्ये समिद्धारणवच्च विधिः कल्पयितुं शक्यत इति तेषामपि हेतुत्वमदण्डवारितमिति न पूर्वोक्तहेतोर्बाधितत्वमित्यर्थः । एतेन भक्तिमार्गव्यवस्थाप्यर्थात् सिद्धेत्याहुः भक्त्येत्यादि । 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्ये- रश्मिः। शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २६ ॥ लिङ्गादीति । (यद्यपि वेदानुवचनेनेत्यादितृतीयाश्रुतिर्वर्तते, तथापि स्तुतावप्यविरुद्धेति लिङ्गादीत्युक्तम् । आदिना वाक्यप्रकरणस्थानसमाख्याः । लिङ्गादिकं विविदिषावेदानुवचनादीनां कार्यकारणभावे बोध्यम् ।) आदिना लेट् लोट् तव्यादिः । तत्प्रतिपाद्यविध्याभावे 'विधिना त्वेकवाक्य- त्वात् स्तुत्यर्थेन विधीनां स्यु'रिति सूत्रविषयत्वात् यत्र कुत्रत्यविद्यास्तुत्यर्थमित्यादिः । पञ्चपदमिति कृष्णायेत्येकं पदम्, गोविन्दायोति द्वितीयम्, गोपीजनेति तृतीयम्, वल्लभायेति तुरीयम्, स्वाहेति पञ्चममिति श्रुत्युक्तम् । ॐकारेणान्तरितम्, ॐ कृष्णाय ॐ गोविन्दाय ॐ गोपीजन ॐ वल्लभाय ॐ स्वाहेत्येवं कृत्वा । मनुं अवताररूपम् । तापनीयं च तापनीयं च तापनीयं च तापनीयानि तेषु । रामतापनीयं नृसिंहतापनीयं च । तत्करणं शमदमादिकरणं पूर्वोक्तहेतोरिति ज्ञानोत्पत्तिः सर्वापेक्षावती, यज्ञादिश्रुतेरित्यस्य बाधितत्वं पक्षेऽभावः । तत्परिहारमिति शमदमादेः परम्परया कार- णत्वव्यवस्थापनात् यज्ञादिश्रुतेः पक्षे सद्भावस्थापनात् परिहारम् । अनयेति तस्मादेवंविदित्यनया । साधनान्तरं शमदमादिरूपम् । तत्र चेति 'तस्मादेवंवि'दिति श्रुतौ । फलेति । फलं ज्ञानेच्छा । विधिरिति । उपन्यन्तीत्यत्र लेडाश्रयणात् धारयन्तीत्यत्र च तथा । तेषामपीति वेदानुवचनादीनामपि । दण्डः श्रुतिविरोधः तेन वारितं दण्डवारितं न भवतीत्यर्थः । पूर्वोक्तेति । यज्ञादिश्रुतेरित्यस्य 2084

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८५ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २७ ॥ ननु सत्त्वशोधकत्वेन यज्ञशमदमादेर्विधानमिति मतं नोपपद्यते । 'आहार- शुद्धौ सत्त्वशुद्धि'रिति श्रुतेस्तद्विरुद्धा सर्वान्नभक्षणानुमतिरपि यतः श्रूयते छन्दोगानाम् । 'न ह वा एवंविदि किञ्चनानन्नं भवति' । तथा वाजसनेयिनां, 'न ह वा अस्यानन्नं जग्धं भवती'त्यादि । तस्मात् सत्त्वशुद्ध्यर्थं यज्ञादेर्न विधानमिति प्राप्ते विषयव्यवस्थामह । आहारदौर्लभ्येन प्राणात्यय उपस्थिते प्राणधारणस्य ज्ञानान्तरङ्गतमसाधनत्वेनाहारस्य देहपोषकत्वेन ततो बहिरङ्गत्वात् तदनुमतिः क्रियत इत्यर्थः । अत्र प्रमाणमाह तद्दर्शनादिति । 'चाक्रायणः किलर्षिरापद्गत इभ्येन सामिखादितान् कुल्माषांश्चखादे'त्यादिश्रुतिदर्शनादित्यर्थः॥ भाष्यप्रकाशः। नैवामुष्मिन् मनःकल्पन्'मिति भक्तिलक्षणात्तादृश्यां सत्यां तन्मार्गे स्वत एव शमदमादीनां सम्भ- वान्न तेषामवश्यकतया विशेषतो विधानम् । अत एव तत्र 'एतदेव च नैष्कर्म्य'मिति सन्न्या- सरूपत्वं श्रावितम् । तथा च ज्ञानेन्तरङ्गाणां शमादीनां बहिरङ्गाणां यज्ञादीनां चास्त्यपेक्षा । भक्तौ तु तेषामर्थात् सिद्धिरिति भेद इत्यर्थः ॥ २६ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २७ ॥ अत्रैव किञ्चिदाशङ्क्य परिहरती- त्याशयेन सूत्रमवतारयन्ति नन्वित्यादि । तथा च यथा प्राणसंवादश्रुतिभ्यामाहारशोधकश्रु- त्युक्तमपोद्यते, तथा ताभ्यां शमयज्ञाद्यपवादोपि वक्तुं शक्यते। तस्मात् सत्त्वशुद्ध्यर्थं यज्ञशमदमादेर्न- विधानम्, किन्त्वेतानि वाक्यानि विद्यास्तावकान्येवेति प्राप्ते, तानि न स्तावकानि, अपि तु विशेषविधानार्थान्येवेति हृदिकृत्य, अन्नभक्षणवाक्यव्यवस्थामाहेत्यर्थः । सूत्रं व्याकुर्वन्ति आहारे- त्यादि। क्रियते इति । प्राणधारणार्थं क्रियते । तथा च सर्वान्नानुमतेर्ज्ञानान्तरङ्गसाधनार्थं रश्मिः। हेतोः । तत्रेति भक्तिमार्गे । सन्न्यासेति । 'काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु'रिति गीतावाक्यात् । अन्तरिति लिङ्गदेहधर्मत्वात्तथा। बहिरिति यज्ञादीनां क्रियात्वेन देहधर्मत्वात्तथा । तेषामिति । शमदमादीनाम् ॥ २६ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २७ ॥ परीति व्यासः परिहरति नन्वि- त्यादीति । छन्दोगानामिति । एवंविदीति ज्ञानिनि प्राणविदि । अनन्नमिति । अप्रशस्तम् । प्राणोपासकस्य यज्जन्तुमात्रस्य जग्धं भक्ष्यं तत्सर्वमनन्नं भवति, इह अदनीयमेव भवतीत्यर्थ इति ब्रह्मा- मृतवर्षणीकारः । विशेषेति । बहिरङ्गसाधनानुमतिरूपविशेषविधानार्थानि । तथान्तरङ्गशमद- मादिविधानार्थानि । आहारेत्यादीति । ज्ञानान्तरिति । अन्तरङ्गतमसाधनत्वं मर्यादाभक्तेः भ्रमरगीतसुबोधिन्यामुक्तम् । तत इति प्राणधारणात् । चाक्रायण इति मटचीहतेषु कुरुष्वि- त्येतस्मिन् ब्राह्मणे चाक्रायणो नामतः किल ऋषिः कुरुदेशे दुर्भिक्षे जाते क्षुत्पीडितो देशान्तरमागतः कदाचिद्धस्तिपालकदेशं निविष्टः, तेन हस्तिपालकेन इभ्यपदवाच्येन सामि वर्धं भक्षितान् कुत्सितान् 2085

यद्यपि ज्ञानसाधनत्वेन सत्त्वशुद्धेरपेक्षितत्वात् जाते ज्ञाने तत्साधनापेक्षणात् 'एवंविदी'ति वचनात् तादृशे सार्वदिक्ष्यपि तदनुमतिर्नानुचिता । 'अपि स्मर्यते' इत्यनेनाविदुषोऽप्यनुमतेर्वक्ष्यमाणत्वाच्च । तथाप्याचार्येणावस्थाविशेषविषयकत्व- मुक्तं यत्, तेन ज्ञानिनोऽप्यनापदि विहितत्यागोऽविहितकरणं च चित्तमालिन्य- जननेन ज्ञानतिरोधायकमिति श्रुत्यभिमतमिति ज्ञाप्यते । अत एव श्रीभागवते द्वितीयस्कन्धे "विशुद्धं केवलं ज्ञानं प्रत्यक्सम्यगवस्थितम् । सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् । ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तदेवावसत्तर्कैस्तिरोभूयेत विप्लुत"मिति ब्रह्मणोक्तम् । 'ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाय महामाया प्रयच्छति' इति मार्कण्डेयेनाप्यु- क्तम् । एषा ज्ञानमार्गीयज्ञानवतो व्यवस्थेति ज्ञेयम् । भक्तिमार्गीयस्यैवमापद्- सम्भवात् । 'अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यह'मिति भगवद्वाक्यात् । 'मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते' इत्यत्रैवकारेण पुरुषोत्तमज्ञानवत एव मायातरणोक्तेरक्षरमात्रज्ञानवतां तथात्वमुचितम् ॥ २७ ॥

भाष्यप्रकाशः । व्यवस्थितत्वेनासार्बदिकत्वान्न तया सार्वदिकानां सत्त्वशोधकसाधनानां ज्ञानमार्गे बाधः शक्यवचन इत्यर्थः । अत्र किञ्चिदाशङ्क्य परिहरन्ति यद्यपीत्यादि तथापीत्यादि च । ननु भवत्वेवं ज्ञानमार्गे, तथापि भक्तिमार्गे शमदमादीनां सत्त्वशोधकानां स्वभावतः प्राप्तत्वेन तदर्थकनिर्बन्धा- भावात्तस्यापदुपस्थितौ पूर्वोक्तानुमतेरपि तत्र वक्तुमशक्यत्वाच्च सा गतिरित्यत आहुः भक्ति- मार्गीयस्यैवमिति । ननु यद्येवम्, तदा ज्ञानमार्गीयस्य कथमापत्तिरित्यत आहुः मामेवेत्यादि । तथा च मायावरणाभावादापत्तिमत्त्वमित्यर्थः ॥ २७ ॥

रश्मिः । माषान् भक्षितवान् । तेनोदपानं गृहाणेत्युक्ते सति, उच्छिष्टं न पीतं स्यादिति प्रतिषिध्य स्थिते चाक्रायणे, किमेते माषा उच्छिष्टा नेति हस्तिपेकेनोक्ते सति, नेत्यत्र हेतुमाह चाक्रायणः । कुल्माष- भक्षणं चेदहं न कुर्याम्, तर्हि मे जीवनं न स्यात्, उदपानं तु तटाकादिषु स्वेच्छाततो भविष्यतीति । एवमन्योच्छिष्टान् माषान् खादित्वा शिष्टान् जायायै ददौ, तया च भर्तुः स्वभावज्ञया निहितानु- त्तरादनेपि भक्षितवानिति श्रुतम् । ज्ञानान्तरङ्गेति । न च बहिरङ्गत्वमुक्तमिति कुतोऽन्तरङ्गत्वमिति वाच्यम् । अन्तरङ्गतमाद्वहिरङ्गमन्तरङ्गमित्यदोषात् । अत्रान्तरङ्गतमादीनां क्षराक्षरपुरुषोत्तमज्ञानैर्विवेको ज्ञेयः । भाष्ये चित्तमालिन्येति । 'यथा यथात्मा परिमृज्यत' इति वाक्यमनुसन्धेयम् । ऋष इति हे नारद । प्रयच्छतीति । चित्तमालिन्यजननेन ज्ञानतिरोधायको मोह इति । तमोरूपमायाकार्य- त्वात् । प्रकृतेति । तदर्थकेति । भक्त्यर्थकशमादिनिर्बन्धाभावात् । तस्य आपदुपस्थिताविति च्छेदः । तत्रेति । भक्तिमार्गे । तस्येति । भक्तिमार्गीयस्य । आपत्तिमत्त्वमिति । भाष्यीयस्य तथात्वमिति पदस्य विवरणमिदम् ॥ २७ ॥

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८७ अबाधाच्च ॥ २८ ॥ आपद्यपि तथाऽन्नभक्षणेन चित्ताशुद्ध्यसम्भवेन तज्जनितप्रतिबन्धाभावाच्च न दोष इत्यर्थः ॥ २८ ॥ अपि स्मर्यते ॥ २९ ॥ आपद्यविदुषोपि दुष्टान्नभक्षणे पापाभावो यत्र स्मर्यते, तत्र विदुषि श्रुत्यनुमते का शङ्केत्यर्थः । स्मृतिस्तु 'जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा' इति । अथवा । विदुषो दुष्टकर्मासम्बन्धः, 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा'ति स्मर्यतेऽपीत्यर्थः ॥ २९ ॥ शब्दश्चातोऽकामकारे ॥ ३० ॥ यतो ज्ञानाग्निरेव सर्वकर्मदहनसमर्थ इति फलदशायां कामकारेऽपि न दोषः, अत एव साधनदशायां तदभावेन 'तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षु'- रित्यादिरूपः शब्दः कामकारनिवर्तकः श्रूयत इत्यर्थः ॥ ३० ॥ इति तृतीयाध्याये चतुर्थपादे द्वितीयं सर्वापेक्षेत्यधिकरणम् ॥ २ ॥ विहितत्वाच्चाश्रमकर्मापि ॥ ३१ ॥ ( ३-४-३. ) एवं ज्ञानस्य कर्मनाशकत्वे सिद्धे जातज्ञानस्याश्रमकर्म कर्तव्यं न वेति चिन्त्यते । तत्र फलस्य जातत्वात् कृतस्यापि नाङ्गत्वेनाप्रयोजकत्वान्न कर्तव्यमिति पूर्वः पक्षः । तत्र सिद्धान्तमाह । यथा ज्ञानिनामप्यनापदि शिष्टानामेवान्नं भक्षणीयम्, विहितत्वात्, तथा भाष्यप्रकाशः। अबाधाच्च ॥ २८ ॥ अपि स्मर्यते ॥ २९ ॥ शब्दश्चातोऽकामकारे ॥ ३० ॥ एतत्सूत्रत्रयभाष्यमतिरोहितार्थम् । अन्ये तु, 'सर्वान्नानुमति'रित्यादिसूत्रचतुष्टयात्मकमधिकरणान्तरमङ्गीकृत्य, किमत्र विद्या- वतः सर्वान्नाभक्षणं विधीयते, उत विद्यास्तुत्यर्थं कीर्त्यत इति संशये, न द्वयमपि, किन्तु प्राणर- क्षार्थमनुज्ञामात्रम् । अतोऽर्थवाद एवेति सिद्धान्तयन्ति । तदप्यविरुद्धम् ॥ ३० ॥ इति द्वितीयं सर्वापेक्षेत्यधिकरणम् ॥ २ ॥ विहितत्वाच्चाश्रमकर्मापि ॥ ३१ ॥ अधिकरणप्रयोजनं पूर्वपक्षादिकं चाहुः एवं ज्ञानस्येत्यादि । सूत्रव्याख्यानं तु स्फुटम् ॥ ३१ ॥ रश्मिः । अबाधाच्च ॥ २८ ॥ अपि स्मर्यते ॥ २९ ॥ शब्दश्चातोऽकामकारे ॥ ३० ॥ तद्भावेनेति ज्ञानाभावेन । अतिर इति । एवमतिरोहितार्थमित्यर्थः ॥ ३० ॥ इति द्वितीयं सर्वापेक्षेत्यधिकरणम् ॥ २ ॥ विहितत्वाच्चाश्रमकर्मापि ॥३१॥ एवं ज्ञानस्येत्यादीति । 'ज्ञानाग्निः सर्वकर्माणी'त्यु- क्तदिशा । 'अविद्यायामन्तरे वर्तमाना' इति मुण्डके कर्माविधेयत्वे व्याकुर्वन्ति स्म । कृतस्येति कर्मणः । विहितत्वेति 'ब्रह्मचर्यं समाप्य गृही भवेत्, गृहाद्वनी भूत्वा प्रव्रजे'दित्यनया एकादशे २०४७

४८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ४ अ० ३ सू० ३३. आश्रमकर्मापि कर्तव्यमेव, नित्यं विहितत्वादित्यर्थः । यथाऽनापद्यशिष्टाचारभक्षणं दोषाय, निषिद्धत्वात्, एतच्चोपपादितं 'सर्वान्नानुमति'रित्यत्र, तथा नित्यत्यागोऽपि प्रत्यवायजनक इति तत् कर्तव्यमेवेति भावः ॥ ३१ ॥ यच्चोक्तं कृतस्यापि नाश्यत्वेनाप्रयोजकत्वान्न कर्तव्यमिति तत्राह । सहकारित्वेन च ॥ ३२ ॥ शमदमादीनामन्तरङ्गसाधनानां सहकारीण्याश्रमकर्माणीत्येतद्रहितैः श- मादिभिरपि ज्ञानं न स्थिरीकर्तुं शक्यमिति तानि कर्तव्यान्येवेत्यर्थः । संसारवासनाजनकत्वस्वभावो यः कर्मणां स ज्ञानेन नाश्यत इति न सहकारि- त्वेऽनुपपत्तिः काचिदिति भावः ॥ ३२ ॥ एवं ज्ञानमार्गीयज्ञानस्थैर्यसाधनमुक्त्वा भक्तिमार्गीयसाधनानां भगवच्छ्र- [L1

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८९ एव कर्तव्या इत्यर्थः । कुतः । श्रुतिलिङ्गात् स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तु 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि त'दिति । 'तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतु'रित्यपि । अत्रैवकारेण भगवदतिरिक्तं प्रतिषिध्य तद्विषयकज्ञानानुकूलं प्रयत्नं श्रवणात्मकं विज्ञायेति विधाय स्मरणमपि तन्मात्रविषयकमेव 'प्रज्ञां कुर्वीते'ति वचनेन विधाय तदेकनिष्ठताहेतुभूतानामेव शब्दानामावर्तनमर्थानु- सन्धानमपि कर्तव्यम्, नान्येषामिति 'नानुध्यायाद् बहू'नित्यनेनोक्तवति । अत्र 'अन्वि'त्युपसर्गेण ध्यानस्य पश्चाद्भावित्वमुच्यते । तेन योग्यतया श्रवण- कीर्तने एव तत्पूर्वभाविनी प्राप्येते । स्मृतिस्तु 'शृण्वन्ति गायन्ति गृणन्त्यभी- क्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवा- भाष्यप्रकाशः । गृद्धन्त इत्याशङ्कायां हेतुव्याख्यानेन तामपि निरस्यन्ति श्रुतिलिङ्गं तु 'तमेव धीर' इत्यादि । तथा च पूर्व सूत्रेषु शमादीनां यज्ञादीनां च शारीरब्राह्मणस्थानामेव परामृष्टत्वादत्रापि तत्रत्यमेव साधनं परामृश्यते । तत्र च पूर्वं 'तमेव धीर' इति वाक्यमेवोक्तम् । ततो वेदानुवचनवाक्यम् । ततः शान्तदान्तवाक्यम् । अतः सूत्रस्थेन तच्छब्देन श्रुतिस्थं यत्पूर्वम्, तदेव परामृश्यते । श्रुतावेषां पूर्व- मुक्तवेपि यदेषां पश्चाद्विचारणम्, तदेकादशस्कन्धे भगवता 'ज्ञानं कर्म च भक्तिश्चे'ति पश्चादुक्त- त्वात् । 'तमेवैक'मिति मुण्डकश्रुतिश्चासन्दिग्धतया सम्यङ् माहात्म्यस्फोरणाय पठ्यते । केन लिङ्गे- नात्र भगवद्धर्मप्राप्तिरित्याकाङ्क्षायां इतरानुद्ध्याननिषेधकवाक्यगतानुपसर्गस्य पश्चाद्भावित्वप्रकाश- कत्वलिङ्गेन तत्पूर्वभाविनी श्रवणकीर्तने प्राप्येते । तेन तदनन्तरं तत्सारभूतशब्दार्थानुसन्धानमेव कार्यम्, न त्वन्येषां तदर्थमन्यानुवादकानामिति बोध्यत इति न कोपि शङ्कालेशः । स्मृतिलिङ्गं वक्तुमाहुः स्मृतिस्त्वित्यादि । अत्रापि प्रथमवाक्ये फलश्रुतिलिङ्गेन तेषां करणं लभ्यते । एवं रश्मिः । तामिति आशङ्काम् । पश्चाद्वीति अस्मिन्सूत्रे । पश्चादिति ज्ञानकर्मणी पूर्वसूत्रविचारिते इति ताभ्यां पश्चात् भक्तेरुक्तत्वात् । भाष्ये 'तमेवैक'मित्यत्राभिप्रायानुक्त्या । शारीरेत्यादि पूर्वमुक्तं साधयन्ति स्म तमेवैकमिति । माहात्म्येति । 'महात्मानस्तु मां पार्थे'ति वक्ष्यमाणवाक्ये महात्म्यावच्छिन्नोक्तेरुपष्टम्य श्रुतावपि त एव सम्बोध्या इति भावः । यद्वा । आत्मानमिति पदादतन- शीलस्य माहात्म्यं क्षराक्षरज्ञानेपि तत् ज्ञानमेवेति माहात्म्यं देवत्वम् । माहात्म्यं तमेवेत्यत्रै- वोक्तमित्यतोऽग्रेतनभाष्यमित्याशयेन अत्रान्वित्युपसर्गेत्यादिभाष्यर्माहुः केनेति लिङ्गं शब्दसं सामर्थ्यं तेन । भगवद्धर्मेति माहात्म्यप्राप्तिः । पश्चादिति । तच्छब्दार्थध्यानस्य स्मरणस्य भावनस्य कृष्णचिन्तनस्येति यावत् । 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तये'दिति वाक्यात् । तत्पूर्वेति निर्वाहकत्वेन भावेनापूर्वभाविनी । श्रवणादित्रिकस्य परस्परनिर्वाहकत्वमेकादशस्कन्धसुबोधिन्यां वर्तते । तेनेत्यादि भक्तेः कर्मज्ञानाभ्यां पश्चादस्मिन् सूत्र उक्तत्वेन । तदनन्तरमिति श्रवणकीर्तनानन्तरम् । शब्देति । अनुसन्धानं भावना । न त्वन्येषामिति । 'वने वृन्दावने क्रीडन् गोपगोपीसुरैः सहे'ति उपनिषदुक्तोऽर्थः । तदर्थम् तदुपष्टम्भार्थम् । अन्येषां काव्यादीनां तत्राप्यन्येषां राजामनुवादकानाम् । 'सर्वाः शरत्काव्यक- थारसाश्रया' इति वाक्यात् । फलश्रुतीति पदाम्बुजदर्शनविषयिणीफलश्रुतिसामर्थ्येन । तेषामिति । ६२ ब्र० सू० २० 2089

४९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ३ सू० ३५. होपरमं पदाम्बुज'मिति । 'महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासत' इति । एतेन भगवद्धर्मा- णामात्मधर्मत्वेनान्तरङ्गत्वादाश्रमकर्मणो देहधर्मत्वेन बहिरङ्गत्वात्तदविरोधेनैव तत् कर्तव्यमिति स्थितम् । अत एव भगवद्धर्मान्यधर्मं प्रतिषिध्य तेषां सर्वेभ्य आधिक्यं ज्ञापयितुं 'स वा अयमात्मा सर्वस्य वशी'त्यादिना भगवन्माहात्म्य- मुक्तम् ॥ ३३ ॥ अनभिभवं च दर्शयति ॥ ३४ ॥ प्राधान्येन भगवद्धर्मा एव कर्तव्या इत्यत्रोपोद्बलकान्तरमनेन उच्यते । 'सर्वं पाप्मानं तरति, नैनं पाप्मा तरति, सर्वं पाप्मानं तपति, नैनं पाप्मा तपती'त्यादिना भगवद्धर्मानुरोधेनाश्रमकर्माकरणदोषैरनभिभवं च श्रुति- र्दर्शयति, अतो भगवद्धर्मा एव सर्वेभ्य उत्तमानि साधनानीत्यर्थः ॥ ३४ ॥ अन्तरा चापि तु तद्दृष्टेः ॥ ३५ ॥ भगवद्धर्मेभ्य आश्रमधर्मा हीना इत्यप्यल्पमुच्यते । अपि तु तस्मिन् पुरुषोत्तमे धर्मिण्येव दृष्टिसत्तात्पर्यं यस्य पुंसस्तस्याश्रमधर्मा अन्तरा च फलसिद्धौ व्यवधानरूपाश्चेति श्रुतिर्दर्शयतीति पूर्वेण सम्बन्धः । अन्तराशब्दोऽत्राव्यव्यात्मको व्यवधानवाचकः । तथा च श्रुतिः 'एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः भाष्यप्रकाशः। गीतावाक्येपि ज्ञेयम् । सिद्धमाहुः एतेनेत्यादि । एतदुपष्टम्भाय प्रकृतश्रुतिस्थमेव लिङ्गं दर्शयन्ति अत एवेत्यादि। तथा चान्ते भगवन्माहात्म्योक्तिरपि भगवद्धर्माणामाधिक्ये तेषामवश्यकर्तव्यत्वे च लिङ्गमित्यर्थः । एतेन अस्मिन् सूत्रे त एवेत्यवधारणेन त्रयाणां युगपदुपस्थितौ भगवद्धर्मा- तिरिक्तान् आचार्यो निवर्तयतीति बोधितम् । एतदुपष्टम्भायैवाग्रिमा पञ्चसूत्रीति ॥ ३३ ॥ अनभिभवं च दर्शयति ॥ ३४ ॥ अत्र भाष्यमतिरोहितार्थम् । 'सर्वं पाप्मानं तरती'ति श्रुतिस्तु शारीरब्राह्मणस्था ॥ ३४ ॥ अन्तरा चापि तु तद्दृष्टेः ॥ ३५ ॥ व्यवधानवाचक इति । 'अन्तरेऽन्तरा, अन्तरेण च रश्मिः। श्रवणकीर्तनादीनाम् । एवं गीतेति । नवमाध्यायस्थं वाक्यम्, अत्रापि पदाम्बुजदर्शनं फलश्रुतिः । श्रीभागवतस्य गीताव्याख्यानत्वात् । यद्वा । नवमाध्यायस्थं व्यवहितम्, 'यान्ति मद्याजिनोपि मा'मिति वाक्योकं श्रीभागवतोक्तरूपम् । एतेनेत्यादीति । तदविरोधेनेति । अन्तरङ्गाविरोधेन । तत्क- र्तव्यम् बहिरङ्गकर्तव्यम् । प्रकृतेति । 'तमेव धीर' इति श्रुतिस्थम् । अत एवेत्यादीति । अन्तर- ङ्गानुरोधेन बहिरङ्गस्य कर्तव्यत्वादेव । 'नानुध्याया'दित्यादिना भगवद्धर्मेभ्योऽन्यं बहूनां धर्मं निषिद्ध्य । माहात्म्यमुक्तमिति । देवत्वमुक्तम् । आचार्य इति व्यासः । आश्रमे आश्रमान्तर- धर्मनिवर्तनवत् निवर्तयति ॥ ३३ ॥ अनभिभवं च दर्शयति ॥ ३४ ॥ सर्वमिति । अस्यां श्रुतौ । नैनमिति । पुरुषोत्तम- विदमपीति तात्पर्यार्थः ॥ ३४ ॥ 2090

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९१ प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक' इति ऋणापाकरणहेतुत्वेन लौकिकोत्कर्षहेतुत्वेनापि प्रजाया अभीष्टत्वेपि तदुत्पा- दनव्यासङ्गेन भगवदानन्दानुभवेऽन्तरायो भविष्यतीति तदृष्ट्या तन्निरपेक्षतां दर्शयति ॥ ३५ ॥ अपि स्मर्यते ॥ ३६ ॥ अपिशब्देनाश्रमधर्माणां तथात्वं किमु वाच्यम्, यतो ज्ञानतत् साधन- वैराग्यादीनामप्यन्तरायरूपत्वं स्मर्यते । 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति भगवद्वाक्यम् ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ स्मर्यत इति पूर्वेण सम्बन्धः । ज्ञानादेः सकाशाद्भक्तिमार्गे फलतोऽप्युत्कर्ष- माह । ज्ञानादिसाधनवतस्त्वनुग्रहो मुक्तिपर्यन्त एव, भक्तिमार्गे तु, 'अहं भक्तपरा- धीनो ह्यस्वतन्त्र इव द्विज'त्यादिवाक्यैर्विशेषरूपो मुक्तादिभ्योपि भक्तानां व्याव- र्तको भगवदनुग्रहः स्मर्यत इत्यर्थः ॥ ३७ ॥ गूढाभिसन्धिमुद्घाटयन् फलितमर्थमाह । अतस्त्वितरज्यायो लिङ्गाच्च ॥ ३८ ॥ अत इति पूर्वोक्तश्रुतिस्मृतिपरामर्शः । तथा चेतरस्या मुक्तेरपि भक्तिमार्गी- यतदीयत्वमेव ज्याय इत्यर्थः । अत्र हेत्वन्तरमाह लिङ्गाच्चेति । मुक्तानां तु माया- विनिर्मुक्तमात्मस्वरूपमेव, न तु देहेन्द्रियादिकमप्यस्ति, येन भजनानन्दानुभवः स्यात् । भक्तानां तु देहेन्द्रियादिकमपि मायातत्कार्यरहितत्वेनानन्दरूपत्वेन च भगवदुपयोग्‍यतोपि तत्तथेत्यर्थः । न हि मुक्तात्मनां कश्चन भगवदुपयोगोऽस्तीति भाष्यप्रकाशः। मध्ये स्यु'रिति कोशात् । मध्यस्थितस्य च व्यवधायकत्वाद् व्यवधानवाचक इत्यर्थः । आश्रमकर्मणां कथं व्यवधायकत्वमित्याकाङ्क्षायां श्रुत्या तदुपपादयन्ति तथा चेत्यादि । इयमपि श्रुतिस्तत्रत्येव ॥ ३५॥ अपि स्मर्यते ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ एतद्भाष्यमप्यतिरोहितार्थम् । अनु- ग्रहस्तु धर्मान्तरं कृपाद्याद्यपरपर्यायम्, न तु फलदित्सा । 'यस्यानुग्रहमिच्छामी'ति वाक्यात् । अयमेव च पुष्टिशब्देनोच्यते । 'पोषणं तदनुग्रह' इति वाक्यात् । एतत् सर्वं मत्पितृचरणविर- चिते पुष्टिप्रवाहमर्यादाख्यग्रन्थविवरणे प्रपञ्चितमिति नात्रोच्यते ॥ ३७ ॥ अतस्त्वितरज्यायो लिङ्गाच्च ॥ ३८ ॥ मुक्तेरिति पञ्चमी अत्रेति । भक्तिमार्गीय- भगवदीयत्वस्य मुक्तितोपि ज्यायस्त्वे । स्वरूपमेवेति । तिष्ठतीति शेषः । अतोपीति भगवदु- पयोगिलिङ्गस्थूलशरीरद्वयात्मिकाया भजनानन्दानुभावकसामग्र्या आधिक्यादिति । एतेन 'सर्वै- न्द्रियैस्तथा चान्तःकरणैरात्मनापि हि । भक्तभावात्तु भक्तानां गृह एव विशिष्यत' इति निबन्धोक्तं रश्मिः। अन्तरा चापि तु तद्दृष्टेः ॥ ३५ ॥ तत्रत्यैवेति । शरीरब्राह्मणस्यैव ॥ ३५ ॥ अपि स्मर्यते ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ अतस्त्वितरज्यायो लिङ्गाच्च 2091

४९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ३ सू० ३८. भाषः। तदुक्तं श्रीभागवते, 'न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरा- र्चिता' इत्यादि, मुक्तोपसृप्यत्वं बोध्यते । अत एव सप्तमस्कन्धे 'देहेन्द्रिया- सुहीनानां वैकुण्ठपुरवासिना'मित्युक्तम् । पुरवासित्वे देहादेरावश्यकत्वान्निषेधो जडात्मकानामेवेत्यवगम्यते । इतरज्ज्याय इति पाठे तु पूर्वोक्ताश्रमकर्मपरामर्शोऽत इत्यनेन उक्तयोरेव वा । एतेन, 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'तिश्रुत्युक्तफलवत्त्वं तस्य सूच्यते ॥ ३८ ॥ इति तृतीयाध्याये चतुर्थपादे तृतीयं विहितत्वाच्चाश्रमकर्मेत्यधिकरणम् ॥ भाष्यप्रकाशः। स्सारितम् । ननु भगवदुपयोगित्वस्य कथं मुक्त्यपेक्षया भक्ताधिक्यलिङ्गत्वमित्यपेक्षायां तत्र प्रमाण- माहुः तदुक्तमित्यादि । एतद्वाक्ये मायासंसर्गरहिते स्थाने भगवदनुव्रतानां कथनाद्भगवतो मुक्त- सेव्यत्वस्य पूर्वं भगवता सूत्रकारेण मुक्तोपसृप्यसूत्रे उक्तत्वाच्च तदेव प्रमाणमित्यर्थः । एतदुपोद्ब- लनाय निषेधमुखेनालौकिकदेहबोधकं वाक्यान्तरमाहुः अत एवेत्यादि । एवमेकपाठं व्याख्याय पाठान्तरं व्याकुर्वन्ति इतरदित्यादि । उक्तयोरिति । श्रुतिस्मृत्योः । अस्मिन् पक्षे इतरदितिपदेन भक्तिमार्गीयभगवदीयत्वं बोध्यम् । सिद्धमाहुः एतेनेत्यादि । तस्येति तादृशभगवदीयत्वस्य । एवं ज्ञानिधर्माणां शमादीनामा श्रमधर्माणां च विहितत्वेन तौल्यादावश्यकर्तव्यत्वे प्राप्तेऽप्यनभिभवादि- पञ्चसूत्र्या भगवद्धर्माणामुकर्षप्रदर्शनेन, अन्येषामेतेषां च युगपदुपस्थितौ भक्तिमार्गीयेण पूर्वमेत एव कर्तव्या, गौणकाले त्वन्य इति निर्णीतम् । यद्यप्यतीतपादे, 'आदरादलोप' इत्यधिकरणे राजसभक्तानां कर्मासक्तिनिवृत्तयेऽयमर्थ उक्तः, तथाप्यत्र कर्मोपसंहारप्रकारदार्थ्यार्थं पुनविशेषतो युक्तिपूर्वकं बोधित इति न पुनरुक्तिदोष इति ज्ञेयम् । अन्ये तु 'सर्वथाऽपि'ति सूत्रद्वयमाश्रमकर्माधिकरणशेषत्वेनाङ्गीकृत्य त एवेत्यवधारणेनाश्रम- रश्मिः। ॥ ३८ ॥ स्वरूपमेवेति । तेनात्मस्वरूपमित्यत्रात्मनः स्वरूपमित्यपि पाठः । आधिक्यादि- तीति आधिक्यादपि । 'इति प्रकारे हेतौ प्रकारादिसमाप्तिष्वि'ति विश्वात् । भक्ताधिक्येति । ननु मुक्तिः फलम्, भक्तो फलभक्तिविशिष्ट इति मुक्त्यपेक्षया भक्ताधिक्यासिद्ध्या दूरं तल्लिङ्ग- त्वप्रभ इति चेत्, न । 'अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तम' इत्यात्यन्तिकभक्तिलक्षणमुक्त्वा कार्यमाह 'सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जना' इत्यैकत्वापेक्षया भगवत्सेवनस्याधिक्योक्तेः । पूर्वमिति द्वितीयाध्याये । निषेधेति 'देहेन्द्रि- यासुहीनाना' मित्येवं पूर्वोक्तस्य, भक्तानां तु देहेन्द्रियादिकमपीयस्य निषेधमुखेन निषेधोपायेन भगवदीयत्वस्य । तेन भगवदीयं फलवदिति निष्पन्नम् । फलं किमित्युक्ते । साधनफलैकीकारेण । प्रकटसंदर्शसेवायां प्रकटानन्दांशत्वे भवति । सेवाविषयभगवद्रूपानन्देन वा । तदुक्तं 'तस्मात् सर्वं परित्यज्य निरुद्धैः सर्वदा गुणाः । सदानन्दपरैर्ज्ञेया सच्चिदानन्दता स्वत'इति निरोधलक्षणग्रन्थे । निरुद्धस्य जीवस्य सच्चिदानन्दता स्वत इति बोध्यम् । निरोधस्त्वात्यन्तिकभक्त्यात्मको भवत्वेव । एतचेतः प्रेत्य फलम् । 'अस्माल्लोकात् प्रेत्ये'ति ब्रह्मवित्पाठश्रुतेः । भक्तिमार्गीयेणेति । पुंसा । आश्रमकर्मेति । इदमधिकरणं सूत्रचतुष्टयात्मकम् । तेनाश्रमकर्माधिकरणे शेषत्वेना- श्रमकर्माधिकरणशेषत्वेन । सप्तमी शौण्डैरित्यत्र सप्तमीति योगविभागात् समासः । त एवेति । सर्वथापि त एवेत्यत्र त एवेत्यवधारणेन । आश्रमति । आश्रमधर्मातिरिक्तानि धर्मान्तराण्यपिहो- 2092

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । [४१३] भाष्यप्रकाशः । धर्मातिरिक्तधर्मान्तरनिवृत्तिमङ्गीकुर्वन्ति । यथा हि, 'मासमग्निहोत्रं जुहोती'ति कर्मान्तरमुपदिश्यते, तथा नात्र, किन्तु तान्येव वेदानुवचनादिपदैरनूद्य पृथक्संयोगो विधीयते तस्मादिति । तत्रैवं व्याख्याने सर्वथेति पदानर्थक्यम् । आश्रमधर्मपक्षे भेदशङ्काया एवानुदयादिति । अनभिभवसूत्रवैयर्थ्यं च । तथा, 'अन्तरा चापी'ति सूत्रचतुष्टयात्मकमधिकरणान्तरमङ्गीकृत्य तत्र विधुरादीनां द्रव्या- दिसम्पद्रहितानां चान्यतमाश्रमप्रतिपत्तिहीनानां च विद्यायामधिकारोऽस्ति, न वेति संशये, रयि- क्वाचक्नूवीप्रभृतीनामपि ब्रह्मवित्वश्रुत्युपलब्धेः । संवर्तप्रभृतीनां च नग्नचर्यादियोगादनपेक्षित्वाश्र- मकर्मणामपि महायोगित्वस्मरणात् । विधुरादीनामविरुद्धैः पुरुषमात्रसम्बन्धिभिर्धर्मविशेषैर्विद्यानुग्र- रश्मिः । त्रादीनि न भवन्ति । किन्तु सर्वथाप्याश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च त एवाग्निहोत्रादयोऽनु- ष्ठेयाः । त एवेत्यवधारयन् आचार्यः किं निवर्तयति । कर्मभेदशङ्कामिति ब्रूमः । यथा कुण्डपायिनाम- यने'मासमग्निहोत्रं जुहोती'त्यत्र नित्याग्निहोत्रात् कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदोस्तीत्यर्थः । कुतः । श्रुतिलिङ्गात्, स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तावत् 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती'ति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते । जुहोतीत्यादिवत् नापूर्वमेषां रूपमुत्पाद- यतीति । स्मृतिलिङ्गमपि 'अनाश्रितः कर्मफलं कार्यं कर्म करोति य' इति । एवं आश्रमधर्मातिरिक्त- धर्मान्तरनिवृत्तिमङ्गीकुर्वन्तीत्यर्थः । कर्मान्तरमिति । पूर्वतन्त्रे चिन्तितं द्वितीयेऽध्याये । अत्र हि जुहोत्याख्यातस्य विधायकस्य प्रकृतिभूतस्य जुहोतेरर्थः अग्निहोत्रमिति युक्तः तस्य प्रसिद्धाग्नि- होत्राद्भेदः । जुहोतेः साध्यहोमव्यक्तिवचनत्वेन सिद्धाग्निहोत्रपरामर्शानुपपत्तेः । अत एव तदेकार्थका- ग्निहोत्रशब्दस्य न नित्याग्निहोत्रानुवादकत्वं व्यक्तिवचनादेव । एवं कर्मान्तरमुपदिश्यते । तथा नात्रेति अत्र प्रकृते तथा न यज्ञादेर्विधायकाख्यातः प्रकृत्यर्थः । विविदिषाया एव तदर्थत्वात् किन्तु तानीति । अग्निहोत्रादीनि । विविदिषन्तीति पृथग्विद्यासंयोगः । तस्मादाख्यातप्रकृत्यर्थमात्रार्थ- कैर्यज्ञादिशब्दैः प्रसिद्धस्य यज्ञादेरनुवादेन 'तमेत'मित्यत्र विद्यासंयोगमात्रमपूर्वं विधीयते इति न कर्मभेदः । तस्मादिति उभयलिङ्गात् । एवमिति सर्वथाप्याश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे चेति । सर्वथापदव्याख्याने । अनुदयादिति अग्निहोत्रादेर्गृहस्थाश्रमधर्मत्वात् विद्यासहका- रित्वमात्रपक्षे सर्वपदासङ्गतेः । अनभिभवेति । रागादिभिः क्लेशैरेष ह्यात्मानं न पश्यति यं ब्रह्मचर्येणानुविद्याश्रुतिर्ब्रह्मचर्यादेराश्रमकर्मणो मनःशुद्धिद्वारा ज्ञानसाधनत्वे आत्मानभिभवं लिङ्गं दर्शयतीति सूत्रार्थः । अत्राश्रमधर्मविचारः पूर्वसिद्ध इति तथा । विधुरेति अन्तराले वर्तमानो विधुरः । एतस्यैव प्रपञ्चः द्रव्यादीति । रयिकेति । छान्दोग्ये 'जानश्रुतिर्ह पौत्रायण' इत्यारम्भके प्रपाठकेऽस्ति । वाचक्नुवीति । वचक्नोरपत्यं स्त्री वा वाचक्नवी । वाचक्नवीत्यपि पठ्यते । ब्रह्मवित्वेनेति । 'रयिक्वेमानि षट्शतानि गवामयं निष्को अयं अश्वतरीरथोऽनु म एतां भगवो- देवताँच्छाधि यां देवतामुपास्स' इति ब्रह्मवित्वश्रुतेरुपलब्धेः । वाचक्नवी स्त्रीत्वेनाश्रमी । अपि स्मर्यत इति सूत्रार्थमनुवदन्ति संवर्तति । प्रभृतिशब्देनर्षभादयः । महेति इतिहासे तथा । विशेषानुग्रहश्चेति सूत्रार्थमनुवदन्ति स्म विधुरादीनामिति । अविरुद्धैरिति अविधुरादि- भ्योऽविरुद्धैः । धर्मैरिति जपोपवासदेवताराधनादिभिः । तथा च स्मृतिः 'जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वाकुर्यान् मैत्रो ब्राह्मण उच्यते' इति । संशयद्वितीयकोटेः पूर्वपक्षत्वं 2093

४९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ४ सू० ३९. तद्भूतस्य तु नाऽतद्भावो जैमिनिरपि नियमात्तद्रूपाभावेभ्यः ॥ ३९ ॥ (३-४-४) अथेदं विचार्यते । तदीयानामपि कदाचित् सायुज्यमस्ति, न वेति । तत्र भक्तिमार्गस्यापि साधनरूपत्वात् तस्य च मुक्तावेव पर्यवसानात् तदीयत्वस्य साधनावस्थायामुत्कृष्टावस्थारूपत्वात् तेषामपि मुक्तिरावश्यकी । तथा च फलतो न कश्चित् विशेष इति प्राप्ते, उच्यते तद्भूतस्येत्यादि । तुशब्देन मर्यादामार्गीयव्यवच्छेदः । अत्र विश्वासदार्ढ्यायाह । अन्यस्य का वार्ता, कर्ममात्रनिरूपकस्य जैमिनेरपि यदि कदाचिद्भगवत्कृपयायं भावो भवेत्, तदा तद्भूतस्य पुष्टिमार्गीयभगवद्भावं प्राप्तस्य तस्यापि नातद्भाव उक्तभावनिरोधानं न कदाचिदपीत्यर्थः । अत्र हेतूनाह नियमादीन् । तैत्तिरीयके

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९५ पणायोच्यते, 'सदा पश्यन्ति सूरय' इति । सूरयो विद्वांसः पुरुषोत्तमज्ञानवन्त इति यावत् । तच्च भक्तैरेवेति सूरिपदेन भक्ता उच्यन्ते । तथा च भक्तानां सार्वदिकदर्शनं नियम्यते, 'सदे'ति पदेन । एवं सति पुष्टिमार्गीयभगवद्भावं प्राप्तस्य मुक्तावुच्यमानायां तन्नियमो भज्येतेत्यर्थः । यच्चोक्तं साधनावस्थायामुक्त- मावस्थास्वरूपत्वम्, परं तदीयत्वस्य फलं मुक्तिरेवेति तत्राह । अतद्रूपेति । उक्तभ- गवदीयत्वं न साधनरूपमपि तु मुक्तेरपि फलरूपम् । 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा' इति वाक्यात् । 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत' इति श्रुत्या अमृतस्य मुक्तस्य ब्रह्मस्वरूपभोग उच्यते । स च, 'यमेवैष वृणुत' इति श्रुतेर्भग- वदीयत्वसाध्य एवेति स्पष्टं फलत्वमस्यातोऽतद्रूपत्वम् । किञ्च । फलं हि साधनादु- त्तमं भवति । भगवदीयत्वाद्युत्तमस्यार्थस्याभावादपि न मुक्तिर्वक्तुमुचिता । तदुक्तं श्रीभागवते पञ्चमस्कन्धे पूर्वं भक्तिस्वरूपं निरूप्य, 'तयैव परया निर्वृत्या ह्यपवर्ग- मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परि- समाप्तसर्वार्था' इति ॥ ३९ ॥ इति तृतीयाध्याये चतुर्थपादे चतुर्थं तद्भूतस्येत्यधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः। ब्रह्मस्वरूपभोग एवात्रोच्यते । स च, 'यमेवे'ति श्रुत्यन्तरैकवाक्यतया तथावधार्यते इति मुक्तिफ- लरूपत्वान्न तस्य मुक्तिसाधनरूपत्वमित्यर्थः । तेन अतद्रूप इति भावप्रधानो निर्देश इति बोधि- तम् । न च 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्रेयं वाजसनेयिश्रुतिः । 'अकामयमानस्ये'त्यारभ्या 'त्र ब्रह्म सम- श्नुत' इत्यन्तं सुषुप्तिपरत्वेन भाष्य एव व्याख्यातेति कथमत्रैवमुच्यत इति शङ्क्यम् । याज्ञवल्क्येन श्लिष्टतया तत्र सुषुप्तिमोक्षावस्थे बोधिते इति बोधनार्थं तत्र तथा व्याख्यानम्, न तु सिद्धान्तबोध- नायेति तत्रैव मया व्युत्पादितत्वादिति । शेषं स्फुटम् । यद्यप्यतीतपादे लिङ्गभूयस्त्वाधिकरणे 'अनुबन्धादि'सूत्रेऽयमर्थो निर्णीतः, तथापि सर्वात्मभाववत एव निर्णीतः न तु पुष्टिमर्यादामार्गी- यभगवद्भक्तस्यापीति न पुनरुक्तिरिति ज्ञेयम् । अन्ये तु, अत्र ऊर्ध्वरेत आश्रमात् कथमपि पुनराश्रमान्तरं भवति न वेति संशयेऽनेन सूत्रेण तद्भावः साध्यत इत्याहुः । तदस्माकमपि सम्मतम् । यत्तु जैमिनिपदैकमत्यबोधनायेत्याहुः तत् तद्दर्शने तद्विचारादर्शनाच्छिष्यत्वेन तत्सम्म- तिप्रदर्शनप्रयोजनाभावाच्चेति न रोचिष्णु ॥ ३९ ॥ इति चतुर्थं तद्भूतस्येत्यधिकरणम् ॥४॥ रश्मिः। विवृण्वन्ति स्म । स च यमेवेति । तथेति भाष्योक्तप्रकारेण । तस्येति । तदीयत्वस्य । तेनेति । अतद्रूपत्वमिति भाष्येण । अत्रैवमिति अस्मिन्नधिकरणे । एवं पुष्टिफलदत्वेन । श्लिष्टतयेति । मोक्षसुषुप्तिसुखयोः श्लिष्टं ब्रह्मपदं तया । बोधिते इति । स्फुटमिति । उत्तमस्येति । भगवदीयत्वफले वैराग्यजनकस्य । आत्यन्तिकमिति एतल्लक्षणमुक्तम् । एवं स्फुटमित्यर्थः । ऐकमत्ये विशेषावधानमाशङ्क्याहुः शिष्यत्वेनेति । नेति । विशेषावधानाभावान्न रोचिष्णु ॥ ३९ ॥ इति चतुर्थं तद्भूतस्येत्यधिकरणम् ॥ ४ ॥ 2095

४९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ५ सू० ४०. ॰ न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ (३-४-५) अथेदं विचार्यते । ध्रुवायेव ब्रह्मादिलोकाधिकारं दत्त्वा तत्सम्बन्धिफलं ददाति, न वेति । तत्र नेत्याह न चेति । तत्र हेतुः । पतनानुमानादिति । 'आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुने'ति स्मृतेरित्यर्थः । फलस्य सावधित्वा- दिति भावः । किञ्च । तादृशे भगवतीये पतनायोगादपि न तथा । अथवा । तादृशस्य सदा भक्तिरसानुभवात्तदतिरिक्तस्यानपेक्षणादन्येषां फलानां सम्बन्धा- भावादित्यर्थः ॥ ४० ॥ भाष्यप्रकाशः । न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ अधिकरणमवतारयन्ति अथेत्यादि । अथेदं विचार्यत इति पुष्टिमर्यादामार्गीयफलविचारोत्तरं मर्यादापुष्टस्य फलं विचार्यत इत्यर्थः । तत्सम्बन्धीति अधिकारसम्बन्धि । सिद्धान्तमाहुः तत्र नेत्यादि । ईदृशे सन्देहे 'ध्रुवायेव ददाती'ति पूर्वपक्षे नेत्याहेत्यर्थः । हेतुं व्याकुर्वन्ति आब्रह्मेत्यादि । सूत्र- योजना तु, आधिकारिकं फलम् चकारादधिकारमपि न, पुष्टिमार्गीयेभ्यो न ददात्येव । कुतः । पतनानुमानात् । अनुमीयते श्रुतिरनेनेत्यनुमानं स्मृतिः, पतनबोधकमनुमानं पतनानुमानं तस्मात् । शेषा तु स्फुटा । तर्हि, ध्रुवाय कथं दत्तवानिति तु न शङ्क्यम् । द्वितीयस्कन्धे, 'ते वै विदन्त्य- तितरन्ति च योगमाया'मिति भगवद्योगमायाज्ञानरूपसाधनान्तरस्य ध्रुवे उक्तत्वेन, 'नैच्छन्मुक्ति- पतेर्मुक्तिं पश्चात्तापमुपेयिवा'निति वाक्येन च तस्य मुमुक्षुतया मर्यादामार्गीयत्वावगमात् । ये पुनः पुष्टावङ्गीकृताः, तेषां तु मुक्तावप्याकाङ्क्षाराहित्यात्तामेव न ददातीति दूरापेतमाधिकारिकमित्यर्थः । किञ्च । तस्यापि तत्र मुक्तिरेव मायातरणरूपा फलत्वेनोच्यते, न तु भक्तिफलम्, अतो न दोषः । भक्तस्वरूपविचारेणार्थान्तरं तदयोगपदस्याहुः । अथवेत्यादि ॥ ४० ॥ रश्मिः । न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ तत्सम्बन्धीति । ततोऽपुनरावृत्त्यादि यावदधिकारम् । नेत्यस्यार्थः पुष्टिमार्गीयेभ्य इत्यादिः सम्प्रदानक्रियाव- धारणेः सह । श्रुतिरनेनेति । ऋषीणां श्रुत्युक्ताचारस्मरणात् स्मृतेरिति व्युत्पत्या स्मृतिमूल- श्रुतिरनेनानुमानेन ज्ञाप्यतेऽनुमीयते वा । 'आब्रह्मो'ति स्मृतिः एतत्समानार्थकश्श्रुतिमूला, स्मृतित्वात् । 'आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महे'ति स्मृतिव- दिति । मध्यमपदलोपी समास इत्याहुः पतनेति । देवपूजको ब्राह्मणो देवब्राह्मण इतिवत् । शेषेति । तदयोगादित्यस्य योजना भाष्ये स्फुटेत्यर्थः । दत्तवानिति । अपुनरावृत्त्यादि यावदधिकारं दत्तवान् । उक्तत्वेनेति । ज्ञानवत्त्वात् । मुमुक्षुतायां हेतुः नैच्छन्निति । ध्रुवः मुक्तिपतेर्मुक्तिं नैच्छदित्यर्थः । तस्मात् सपत्न्या वा वाक्स्मरणात् । पश्चादितिपाठे स्मरणात् पश्चात् । तस्येति । ध्रुवस्य । तामिति । मुक्तिम् । तस्यापीति । ध्रुवस्यापि । न दोष इति । ध्रुवायापुनरावृत्त्यादिदानदोषो न । भाष्ये । पतनायोगादिति । भगवद्भावाच्च्युतिः पतनम् । अग्रिमसूत्रे वक्ष्यन्ति । फलाना- मिति । अधिकारसम्बन्धिफलानामपुनरावृत्त्यादीनाम् ॥ ४० ॥ 2096

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४१७ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४१ ॥ एके भक्ता आधिकारिके फले पतनमात्रं न हेयत्वप्रयोजकमिति वदन्ति, अपि तु उपपूर्वं पतनमेव तदिति वदन्ति, भक्तिभावाच्युतेः । अधिकारसमाप्तौ भगवदनुग्रहाशापि कदाचित् सम्भवतीत्युपपतनं तत् । मुक्तौ त्वपुनरावृत्तेर्भक्ति- रसाशापि नेति महापतनमेव सेति भावः । तेन निषिद्धकर्मफलतुल्यत्वं ज्ञापितं भवति । अत एव श्रीभागवते 'नारायणपरा लोके न कुतश्चन बिभ्यति । स्वर्गाप- वर्गनरकेष्वपि तुल्यार्थदर्शिन' इति गीयते । भक्तिमार्गे तु साक्षात्सङ्गाभावेपि तदीयं भावमात्रमप्यशनवत् साक्षाद्भगवत्स्वरूपभोगवदेव मन्यन्ते । तदुक्तं श्रीभागवते, 'अथ ह वा व तवे'त्यादिना । साक्षाद्भगवद्भोगो जीवस्यासम्भावित इति शङ्कानिरासायाह, तदुक्तमिति । 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति, 'अन्नं ब्रह्म समश्नुत' इत्यादिश्रुतिषु साक्षाद् ब्रह्मस्वरूप- रसाशनमुक्तमित्यर्थः ॥ ४१ ॥ इति तृतीयाध्याये चतुर्थपादे पञ्चमं न चाधिकारिकमित

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

३९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ६ सू० ४२. त्यागः कर्तव्योन वेति, फलस्य सिद्धत्वाच्चेति पक्षव्यवच्छेदार्थ, 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्याद् बन्धकत्वेन त्याज्य इति पक्षव्यवच्छेदार्थ च तुशब्दः भावमात्रे साक्षात्प्रभुसम्बन्धे वा, उभयथापि गृहाद्बहिर्गमनं गृह- त्याग इति यावत् । स आवश्यकः । तत्र प्रमाणमाह स्मृतेरित्यादि । 'त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः सम्यक् समदृग्विचरस्व गा'- मित्यादिस्मृतिर्भगवद्भाववतस्तत्सङ्गविशिष्टस्यापि बहिर्गमनमाह । तदाचारोपि तथैव श्रूयते, अतस्तथा । अत्रायामाशयः । आश्रमधर्मत्वेन गृहत्यागो 'यदहरेवे'त्यादिश्रुतिभ्यः पूर्वमु- पपादितोपि यदधुना पुनरुच्यते, तेन तदतिरिक्तोऽयमिति ज्ञायते। तथा चोक्तवा- क्यान्मुमुक्षुस्तुतिप्रतिबन्धकत्वाभावेपि व्यासङ्गस्य तत्रावश्यकत्वादुक्तयोरप्य- नवरतं प्रभुरसास्वादे प्रतिबन्धकत्वेन तस्य तस्यागस्य विप्रयोगरसानुभावकत्वेन च स कर्तव्यः । यद्यपि स्नेहान्तरायत्वेन स्वत एव तस्यागो भावी, तथापि'आश्र- मादाश्रमं गच्छे'दितिवाक्याद्नाश्रमान्तरत्वाभावेन त्यागस्याविहितत्वशङ्का- भावायेयमुक्तिरिति ॥ ४२ ॥ भाष्यप्रकाशः । त्यादि । अथ भक्तिमार्गीयमध्यमजघन्ययोः फलविचारोत्तरं मध्यमस्य त्यागरूपं साधनं चिन्त्यत इत्यर्थः । मध्यमत्वं विशदयन्तः संशयादिकमाहुः प्रभुरित्यादि । अत्राधिकारिद्वयसोक्तत्वा- द्विविधपूर्वपक्षव्यवच्छेदार्थस्तुशब्द इत्याशयेनाडुः फलस्येत्यादि मद्रार्तेत्यादि च । अतस्तथेति उक्तप्रमाणप्राप्तत्वात्त्यागः कर्तव्य इत्यर्थः । उद्धवस्य मध्यमाधिकारित्वं तु 'उद्धवादिमध्यमभावबोधकाय नम' इति नामावल्यां स्फुटम् । पुनरुक्तिपरिहाराय तदाशय- माहुः, अत्रेत्यादि । पूर्वमिति ऊर्ध्वरेतःसूत्रे । उक्तवाक्यादिति । 'मद्वार्तायातयामाना'मिति वाक्यात् । तस्येति गृहस्य । इयमुक्तिरिति अनेन सूत्रेणानुज्ञा । तथा चाश्रमान्तररूप- त्वाभावेन स्मृत्यन्तरोक्तत्वाभावेपि एकादशस्कन्धेऽष्टादशाध्याये 'यदा कर्मविपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्तत' इत्यादिषोडशभिः श्लोकैस्त्रिदण्डं सन्यासमुक्त्वा, ततो, 'ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । सलिङ्गानाश्रमांस्त्यक्त्वा रश्मिः । जगाम, तं गत्वोवाच भगवन् केन कर्मण्यशेषतो विसृजानी'ति प्रश्ने 'दण्डमाच्छादनं कौपीनं परि- ग्रहेत् शेषं विसृजेच्छेषं विसृजेदि'त्युत्तरम् । सन्न्यासोपनिषदि च, 'गर्भवासभयाद् भीतः शीतोष्णाभ्यां तथैव च । गुहां प्रवेष्टुमिच्छामि परं पदमनामय'मिति 'सन्न्यासाग्नीन् न पुनरावर्तये'दित्युक्तम् । तज्ज्ञान- मार्गे ज्ञानकाण्डत्वात् । भक्तिमार्गे तु तन्मध्ये भगवतोक्तं नारदं प्रति । नारदस्य भक्तत्वात् । तदुक्तं 'सच्चितं तत्सदा मध्येवावतिष्ठते तस्मादहं च तस्मिन्नेवावस्लीय' इति भगवता नारदं प्रत्युक्तं परम- हंसोपनिषदि । तथा च ज्ञानमार्गीयसन्यासस्य प्रसिद्धत्वेपि भक्तिमार्गीयमोक्षसन्यासनिरूपणं प्रयोजन- मित्यर्थः । यद्यपि गीतोक्तचतुर्थपञ्चमाध्याययोरप्येवं निरूपयितुं शक्यम्, तथापि ज्ञानमार्गीयत्वात् तद्विहायाष्टादशाध्यायोक्तः सङ्गृहीतः, भक्तिमार्गीयत्वात् । अधिकारद्वयस्येति प्रभुरित्यादिभाष्यो- 2098

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ४९९ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४३ ॥ पुष्टिमार्गीयभक्तस्य विहितत्वाविज्ञानमप्रयोजकम् । तत्र हेतुः । तस्य भक्तिमार्गस्वामिनः श्रीगोकुलेशादेव फलस्य श्रुतेः । अतो बहिर्गमनं न साधन- त्वेनात्र कार्यमिति भावः । अत्र, 'यमेवैष वृणुत' इति श्रुतिरनुसन्धेया । एतदनु- पदमेव पठ्यते 'नायमात्मा बलहीनेन लभ्य' इति । अत्र भगवद्वरणानन्तरमपि जीवबलं कतमं, यदपेक्ष्य भगवल्लाभ इति जिज्ञासायां सर्वात्मभाव एव बल- मिति निर्णीयते । तस्यैव मर्यादावलोपमर्दकत्वाद्वगवद्वशीकारहेतुत्वाच्च । ब्रजसी- मन्तिनीनां प्रभुवचनातिक्रममपि कृत्वा स्वरूपपरिग्रहस्तन्मूलेनैव यत इत्यात्रेय आचार्यो मनुते । भाष्यप्रकाशः। चरेद्विधिगोचर' इत्यादिभिरेकादश

९०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ६ सू० ४४. इदमत्राभिप्रेतम् । सर्वात्मभावस्य यद् बलम्, तत्तदात्मकस्य प्रभोरेव, तस्य चायं स्वभावो यदन्यन्न रोचते । अत एव व्रजपरिवृढवदनेन्दुवचनकिरण- प्रचारप्रोच्छलत्केवलभावाम्भोधिवचनवीचयो गीयन्ते 'यर्ह्यम्बुजाक्ष तव पादत- लमस्माक्षम तत्प्रभृति नान्यसमक्षं स्थातुं पारयाम' इत्यादयः । अतस्त्यागः पृष्ठ- लग्न एवायातीति न तदर्थं यतनीयमिति । विष्ण्ववतारत्वेन पुरुषोत्तमभावस्वरूप- ज्ञोऽयमिति तथा ॥ ४३ ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४४ ॥ सर्वत्यागपूर्वकं यद् बहिः प्रभुसमीपगमनं भक्तस्य तद् आर्त्विज्यमृत्विक्- कर्मैवेत्यौडुलोमिराचार्यो मन्यते । भाष्यप्रकाशः। दशमस्कन्धीयवाक्याभ्यां तथात्वादित्यर्थः । तदात्मकस्येति सर्वात्मभावात्मकस्य । अन्यदिति भगवदतिरिक्तम् । सिद्धमाहुरत इत्यादि । तथा चोभयस्य स्वत एव गृहत्यागः सम्भव- तीत्यतो नोक्त इत्यर्थः । नन्वात्रेयस्य कथमेवं भक्तिमार्गीयभावस्वरूपज्ञानं येन गृहत्यागयत्नं निषेधतीत्यत आहुः विष्ण्ववतारेत्यादि । 'अत्रेःपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद्भगवान् स दत्त' इति द्वितीयस्कन्धवाक्यादवतारत्वेन तथेत्यर्थः ॥ ४३ ॥ रश्मिः। सर्वात्मभाव एव बलमिति बलं भक्तिरिति भाष्ये, भक्तिः सर्वात्मभाव इति भावः । तथा च श्रुतौ बलहीनेन सर्वात्मभावहीनेन । मुख्ये कार्यप्रत्ययात् । सर्वात्मभावलिङ्गं च 'तपसो वाप्यलिङ्गा'दिति । तपो विरहतापः, विरह एव सर्वात्मभावस्य सम्यग् ज्ञानात् सर्वात्मभावलिङ्ग- मिन्नात् । प्रभुवचनेति । अत्रायं भावः । गुरुवाक्योल्लङ्घनं महापराध इति प्रभुवचनातिक्रमलेन स्वरूपपरिग्रहत्वेन कार्यकारणभाव उक्तः, स न मुख्यः, किं तु तद्बलेनैवेति भाष्येण प्रभुवचनातिक्र- मयोगव्यवच्छेदपूर्वकसर्वात्मभावबलेनेत्युक्तत्वात् सर्वात्मभावबलेन स्वरूपपरिग्रहेत्वेन कार्यकारणभाव इति । एवं च प्रभुवचनातिक्रमस्य स्वरूपपरिग्रहकारणत्वं सर्वात्मभाववत्कृतस्यैव । तथापि कथमिति चेत् । न । 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणे'त्यत्र तासां स्वातन्त्र्यम्, ब्रह्मणो गौणत्वमिति । ब्रह्मणो गौणत्वेऽप्यतिक्रमः कथमिति चेत्, 'दुर्लभो दुर्घटश्चैव युष्माकं सुमनोरथ' इति भगवद्वाक्यगत- दुःखांशत्वात् । तेन स्वरूपं विद्वन्मण्डननित्यलीलावादावक्षबृहद्वामनपुराणोक्तं गोपीजनवल्लभं तस्य परिग्रह एतादृशतो न गुर्विच्छया कृतो गुरुवाक्यातिक्रमो नापराधः लीलान्तःपातात् । भाष्ये । ब्रजेति ब्रजस्य परिवृढः प्रभुः । प्रभौ परिवृढः इति पाणिनीयसूत्रात् । तस्य वदनं परमैश्वर्ययुक्तं तस्य वचनानि 'स्वागतं वो महाभागा' इत्यादीनि तेषां किरणाः वचनानां वीचित्वात्, तेषां प्रचारः प्रचरणं तच्च पुष्टिमार्गीयाणामनुग्रहजन्यमिति अनुग्रहजप्रचारेण तद्व्यापारभूतेन प्रोच्छलन् श्रुति- रूपाणां सुखाजन्यज्ञानाधिकभावं कुर्वन् केवलभावाम्भोधिः साधनरहितपुष्टिभावाम्भोधिर्यासां ता ब्रजपरिवृढवदनेन्दुवचनकिरणप्रचारप्रोच्छलत्केवलभावाम्भोधयः । तासां वचनानि 'मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलं प्राप्ता' इत्यादीनि । तान्येव वीचयस्तरङ्गाः । पृष्ठलग्न इति पृष्ठे प्रस्वेदादिना लग्नः पदार्थः । तदर्थं त्यागार्थम् । प्रकृते तथेति भगवद्भावज्ञ आत्रेयः । विष्णोः पुराणे मत्समानधर्मवत्त्वोक्तेः ॥ ४३ ॥ 2100