अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2214, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८५ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २७ ॥ ननु सत्त्वशोधकत्वेन यज्ञशमदमादेर्विधानमिति मतं नोपपद्यते । 'आहार- शुद्धौ सत्त्वशुद्धि'रिति श्रुतेस्तद्विरुद्धा सर्वान्नभक्षणानुमतिरपि यतः श्रूयते छन्दोगानाम् । 'न ह वा एवंविदि किञ्चनानन्नं भवति' । तथा वाजसनेयिनां, 'न ह वा अस्यानन्नं जग्धं भवती'त्यादि । तस्मात् सत्त्वशुद्ध्यर्थं यज्ञादेर्न विधानमिति प्राप्ते विषयव्यवस्थामह । आहारदौर्लभ्येन प्राणात्यय उपस्थिते प्राणधारणस्य ज्ञानान्तरङ्गतमसाधनत्वेनाहारस्य देहपोषकत्वेन ततो बहिरङ्गत्वात् तदनुमतिः क्रियत इत्यर्थः । अत्र प्रमाणमाह तद्दर्शनादिति । 'चाक्रायणः किलर्षिरापद्गत इभ्येन सामिखादितान् कुल्माषांश्चखादे'त्यादिश्रुतिदर्शनादित्यर्थः॥ भाष्यप्रकाशः। नैवामुष्मिन् मनःकल्पन्'मिति भक्तिलक्षणात्तादृश्यां सत्यां तन्मार्गे स्वत एव शमदमादीनां सम्भ- वान्न तेषामवश्यकतया विशेषतो विधानम् । अत एव तत्र 'एतदेव च नैष्कर्म्य'मिति सन्न्या- सरूपत्वं श्रावितम् । तथा च ज्ञानेन्तरङ्गाणां शमादीनां बहिरङ्गाणां यज्ञादीनां चास्त्यपेक्षा । भक्तौ तु तेषामर्थात् सिद्धिरिति भेद इत्यर्थः ॥ २६ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २७ ॥ अत्रैव किञ्चिदाशङ्क्य परिहरती- त्याशयेन सूत्रमवतारयन्ति नन्वित्यादि । तथा च यथा प्राणसंवादश्रुतिभ्यामाहारशोधकश्रु- त्युक्तमपोद्यते, तथा ताभ्यां शमयज्ञाद्यपवादोपि वक्तुं शक्यते। तस्मात् सत्त्वशुद्ध्यर्थं यज्ञशमदमादेर्न- विधानम्, किन्त्वेतानि वाक्यानि विद्यास्तावकान्येवेति प्राप्ते, तानि न स्तावकानि, अपि तु विशेषविधानार्थान्येवेति हृदिकृत्य, अन्नभक्षणवाक्यव्यवस्थामाहेत्यर्थः । सूत्रं व्याकुर्वन्ति आहारे- त्यादि। क्रियते इति । प्राणधारणार्थं क्रियते । तथा च सर्वान्नानुमतेर्ज्ञानान्तरङ्गसाधनार्थं रश्मिः। हेतोः । तत्रेति भक्तिमार्गे । सन्न्यासेति । 'काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु'रिति गीतावाक्यात् । अन्तरिति लिङ्गदेहधर्मत्वात्तथा। बहिरिति यज्ञादीनां क्रियात्वेन देहधर्मत्वात्तथा । तेषामिति । शमदमादीनाम् ॥ २६ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २७ ॥ परीति व्यासः परिहरति नन्वि- त्यादीति । छन्दोगानामिति । एवंविदीति ज्ञानिनि प्राणविदि । अनन्नमिति । अप्रशस्तम् । प्राणोपासकस्य यज्जन्तुमात्रस्य जग्धं भक्ष्यं तत्सर्वमनन्नं भवति, इह अदनीयमेव भवतीत्यर्थ इति ब्रह्मा- मृतवर्षणीकारः । विशेषेति । बहिरङ्गसाधनानुमतिरूपविशेषविधानार्थानि । तथान्तरङ्गशमद- मादिविधानार्थानि । आहारेत्यादीति । ज्ञानान्तरिति । अन्तरङ्गतमसाधनत्वं मर्यादाभक्तेः भ्रमरगीतसुबोधिन्यामुक्तम् । तत इति प्राणधारणात् । चाक्रायण इति मटचीहतेषु कुरुष्वि- त्येतस्मिन् ब्राह्मणे चाक्रायणो नामतः किल ऋषिः कुरुदेशे दुर्भिक्षे जाते क्षुत्पीडितो देशान्तरमागतः कदाचिद्धस्तिपालकदेशं निविष्टः, तेन हस्तिपालकेन इभ्यपदवाच्येन सामि वर्धं भक्षितान् कुत्सितान् 2085