अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2213, कुल 2600 में से
संदर्भ में पढ़ें४८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० २ सू० २६. शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात्॥२६॥ ननु 'तस्मादेवंविच्छान्तो दान्त' इत्यादिना शमादेरेव ज्ञानसाधनत्वमुच्यते, न तु यज्ञादेरिति चेत्, तन्नाह शमदमाद्युपेतो भक्तिमार्गेऽपि स्यादेव यद्यपि, तथापि तदङ्गतया 'आत्मन्येवात्मानं पश्ये'दिति ज्ञानमार्गीयज्ञानाङ्गतयैव शमादिविधेर्हेतोर्ज्ञानमार्गे तेषामवश्यानुष्ठेयत्वात् तथा विधिरित्यर्थः । भक्तिमार्गे स्वत एव शमादीनां सम्भवेऽप्यावश्यकत्वं न तेषामिति भावः ॥ २६ ॥ भाष्यप्रकाशः। शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेय- त्वात् ॥ २६ ॥ सूत्रमवतारयन्ति नन्वित्यादि । 'तमेतं वेदानुवचनेने'ति श्रुतिलिङ्गाद्यभावेन विद्यास्तुत्यर्थं, यज्ञाद्यनुवादस्य शक्यवचनत्वात् । विद्यार्थिनः 'शान्तो दान्त' इति श्रुत्या शमादीनां साधनानां विशेषतो विधानात्, भक्तिमार्गेऽपि, 'ॐकारेणान्तरितं कृत्वा यो जपति गोविन्दस्य पञ्चपदं मनुं तस्यैवासौ दर्शयेदात्मरूप'मित्यादिश्रुतीनां तापनीयेषु दर्शनाच्च तत्करणमेव युक्तम्, न तु यज्ञादिकरणमिति पूर्वोक्तहेतोर्बाधितत्वमित्याशङ्क्य तत्परिहारमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति शमदमेत्यादि । तथा विधिरिति । साधनत्वेन विधानम् । तथा चानया श्रुत्या ज्ञानमार्गीयस्य साधनान्तरमधिकं विधीयते इति तेषामवश्यानुष्ठेयत्वम् । तत्र च न यज्ञादिकं निषिध्यत इति तेषामप्यनुष्ठेयत्वम् । यद्यपि तत्र लिङाद्यभावः, तथापि 'विविदिषन्ती'ति फलसंयोगस्यापूर्वत्वा- त्तत्र रात्रिसत्रवत् दिष्टाग्निहोत्रस्ये, 'उपरि हि देवेभ्यो धारयन्ती'ति वाक्ये समिद्धारणवच्च विधिः कल्पयितुं शक्यत इति तेषामपि हेतुत्वमदण्डवारितमिति न पूर्वोक्तहेतोर्बाधितत्वमित्यर्थः । एतेन भक्तिमार्गव्यवस्थाप्यर्थात् सिद्धेत्याहुः भक्त्येत्यादि । 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्ये- रश्मिः। शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २६ ॥ लिङ्गादीति । (यद्यपि वेदानुवचनेनेत्यादितृतीयाश्रुतिर्वर्तते, तथापि स्तुतावप्यविरुद्धेति लिङ्गादीत्युक्तम् । आदिना वाक्यप्रकरणस्थानसमाख्याः । लिङ्गादिकं विविदिषावेदानुवचनादीनां कार्यकारणभावे बोध्यम् ।) आदिना लेट् लोट् तव्यादिः । तत्प्रतिपाद्यविध्याभावे 'विधिना त्वेकवाक्य- त्वात् स्तुत्यर्थेन विधीनां स्यु'रिति सूत्रविषयत्वात् यत्र कुत्रत्यविद्यास्तुत्यर्थमित्यादिः । पञ्चपदमिति कृष्णायेत्येकं पदम्, गोविन्दायोति द्वितीयम्, गोपीजनेति तृतीयम्, वल्लभायेति तुरीयम्, स्वाहेति पञ्चममिति श्रुत्युक्तम् । ॐकारेणान्तरितम्, ॐ कृष्णाय ॐ गोविन्दाय ॐ गोपीजन ॐ वल्लभाय ॐ स्वाहेत्येवं कृत्वा । मनुं अवताररूपम् । तापनीयं च तापनीयं च तापनीयं च तापनीयानि तेषु । रामतापनीयं नृसिंहतापनीयं च । तत्करणं शमदमादिकरणं पूर्वोक्तहेतोरिति ज्ञानोत्पत्तिः सर्वापेक्षावती, यज्ञादिश्रुतेरित्यस्य बाधितत्वं पक्षेऽभावः । तत्परिहारमिति शमदमादेः परम्परया कार- णत्वव्यवस्थापनात् यज्ञादिश्रुतेः पक्षे सद्भावस्थापनात् परिहारम् । अनयेति तस्मादेवंविदित्यनया । साधनान्तरं शमदमादिरूपम् । तत्र चेति 'तस्मादेवंवि'दिति श्रुतौ । फलेति । फलं ज्ञानेच्छा । विधिरिति । उपन्यन्तीत्यत्र लेडाश्रयणात् धारयन्तीत्यत्र च तथा । तेषामपीति वेदानुवचनादीनामपि । दण्डः श्रुतिविरोधः तेन वारितं दण्डवारितं न भवतीत्यर्थः । पूर्वोक्तेति । यज्ञादिश्रुतेरित्यस्य 2084