अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2221, कुल 2600 में से
संदर्भ में पढ़ें४९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ३ सू० ३८. भाषः। तदुक्तं श्रीभागवते, 'न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरा- र्चिता' इत्यादि, मुक्तोपसृप्यत्वं बोध्यते । अत एव सप्तमस्कन्धे 'देहेन्द्रिया- सुहीनानां वैकुण्ठपुरवासिना'मित्युक्तम् । पुरवासित्वे देहादेरावश्यकत्वान्निषेधो जडात्मकानामेवेत्यवगम्यते । इतरज्ज्याय इति पाठे तु पूर्वोक्ताश्रमकर्मपरामर्शोऽत इत्यनेन उक्तयोरेव वा । एतेन, 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'तिश्रुत्युक्तफलवत्त्वं तस्य सूच्यते ॥ ३८ ॥ इति तृतीयाध्याये चतुर्थपादे तृतीयं विहितत्वाच्चाश्रमकर्मेत्यधिकरणम् ॥ भाष्यप्रकाशः। स्सारितम् । ननु भगवदुपयोगित्वस्य कथं मुक्त्यपेक्षया भक्ताधिक्यलिङ्गत्वमित्यपेक्षायां तत्र प्रमाण- माहुः तदुक्तमित्यादि । एतद्वाक्ये मायासंसर्गरहिते स्थाने भगवदनुव्रतानां कथनाद्भगवतो मुक्त- सेव्यत्वस्य पूर्वं भगवता सूत्रकारेण मुक्तोपसृप्यसूत्रे उक्तत्वाच्च तदेव प्रमाणमित्यर्थः । एतदुपोद्ब- लनाय निषेधमुखेनालौकिकदेहबोधकं वाक्यान्तरमाहुः अत एवेत्यादि । एवमेकपाठं व्याख्याय पाठान्तरं व्याकुर्वन्ति इतरदित्यादि । उक्तयोरिति । श्रुतिस्मृत्योः । अस्मिन् पक्षे इतरदितिपदेन भक्तिमार्गीयभगवदीयत्वं बोध्यम् । सिद्धमाहुः एतेनेत्यादि । तस्येति तादृशभगवदीयत्वस्य । एवं ज्ञानिधर्माणां शमादीनामा श्रमधर्माणां च विहितत्वेन तौल्यादावश्यकर्तव्यत्वे प्राप्तेऽप्यनभिभवादि- पञ्चसूत्र्या भगवद्धर्माणामुकर्षप्रदर्शनेन, अन्येषामेतेषां च युगपदुपस्थितौ भक्तिमार्गीयेण पूर्वमेत एव कर्तव्या, गौणकाले त्वन्य इति निर्णीतम् । यद्यप्यतीतपादे, 'आदरादलोप' इत्यधिकरणे राजसभक्तानां कर्मासक्तिनिवृत्तयेऽयमर्थ उक्तः, तथाप्यत्र कर्मोपसंहारप्रकारदार्थ्यार्थं पुनविशेषतो युक्तिपूर्वकं बोधित इति न पुनरुक्तिदोष इति ज्ञेयम् । अन्ये तु 'सर्वथाऽपि'ति सूत्रद्वयमाश्रमकर्माधिकरणशेषत्वेनाङ्गीकृत्य त एवेत्यवधारणेनाश्रम- रश्मिः। ॥ ३८ ॥ स्वरूपमेवेति । तेनात्मस्वरूपमित्यत्रात्मनः स्वरूपमित्यपि पाठः । आधिक्यादि- तीति आधिक्यादपि । 'इति प्रकारे हेतौ प्रकारादिसमाप्तिष्वि'ति विश्वात् । भक्ताधिक्येति । ननु मुक्तिः फलम्, भक्तो फलभक्तिविशिष्ट इति मुक्त्यपेक्षया भक्ताधिक्यासिद्ध्या दूरं तल्लिङ्ग- त्वप्रभ इति चेत्, न । 'अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तम' इत्यात्यन्तिकभक्तिलक्षणमुक्त्वा कार्यमाह 'सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जना' इत्यैकत्वापेक्षया भगवत्सेवनस्याधिक्योक्तेः । पूर्वमिति द्वितीयाध्याये । निषेधेति 'देहेन्द्रि- यासुहीनाना' मित्येवं पूर्वोक्तस्य, भक्तानां तु देहेन्द्रियादिकमपीयस्य निषेधमुखेन निषेधोपायेन भगवदीयत्वस्य । तेन भगवदीयं फलवदिति निष्पन्नम् । फलं किमित्युक्ते । साधनफलैकीकारेण । प्रकटसंदर्शसेवायां प्रकटानन्दांशत्वे भवति । सेवाविषयभगवद्रूपानन्देन वा । तदुक्तं 'तस्मात् सर्वं परित्यज्य निरुद्धैः सर्वदा गुणाः । सदानन्दपरैर्ज्ञेया सच्चिदानन्दता स्वत'इति निरोधलक्षणग्रन्थे । निरुद्धस्य जीवस्य सच्चिदानन्दता स्वत इति बोध्यम् । निरोधस्त्वात्यन्तिकभक्त्यात्मको भवत्वेव । एतचेतः प्रेत्य फलम् । 'अस्माल्लोकात् प्रेत्ये'ति ब्रह्मवित्पाठश्रुतेः । भक्तिमार्गीयेणेति । पुंसा । आश्रमकर्मेति । इदमधिकरणं सूत्रचतुष्टयात्मकम् । तेनाश्रमकर्माधिकरणे शेषत्वेना- श्रमकर्माधिकरणशेषत्वेन । सप्तमी शौण्डैरित्यत्र सप्तमीति योगविभागात् समासः । त एवेति । सर्वथापि त एवेत्यत्र त एवेत्यवधारणेन । आश्रमति । आश्रमधर्मातिरिक्तानि धर्मान्तराण्यपिहो- 2092