अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2220, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९१ प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक' इति ऋणापाकरणहेतुत्वेन लौकिकोत्कर्षहेतुत्वेनापि प्रजाया अभीष्टत्वेपि तदुत्पा- दनव्यासङ्गेन भगवदानन्दानुभवेऽन्तरायो भविष्यतीति तदृष्ट्या तन्निरपेक्षतां दर्शयति ॥ ३५ ॥ अपि स्मर्यते ॥ ३६ ॥ अपिशब्देनाश्रमधर्माणां तथात्वं किमु वाच्यम्, यतो ज्ञानतत् साधन- वैराग्यादीनामप्यन्तरायरूपत्वं स्मर्यते । 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति भगवद्वाक्यम् ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ स्मर्यत इति पूर्वेण सम्बन्धः । ज्ञानादेः सकाशाद्भक्तिमार्गे फलतोऽप्युत्कर्ष- माह । ज्ञानादिसाधनवतस्त्वनुग्रहो मुक्तिपर्यन्त एव, भक्तिमार्गे तु, 'अहं भक्तपरा- धीनो ह्यस्वतन्त्र इव द्विज'त्यादिवाक्यैर्विशेषरूपो मुक्तादिभ्योपि भक्तानां व्याव- र्तको भगवदनुग्रहः स्मर्यत इत्यर्थः ॥ ३७ ॥ गूढाभिसन्धिमुद्घाटयन् फलितमर्थमाह । अतस्त्वितरज्यायो लिङ्गाच्च ॥ ३८ ॥ अत इति पूर्वोक्तश्रुतिस्मृतिपरामर्शः । तथा चेतरस्या मुक्तेरपि भक्तिमार्गी- यतदीयत्वमेव ज्याय इत्यर्थः । अत्र हेत्वन्तरमाह लिङ्गाच्चेति । मुक्तानां तु माया- विनिर्मुक्तमात्मस्वरूपमेव, न तु देहेन्द्रियादिकमप्यस्ति, येन भजनानन्दानुभवः स्यात् । भक्तानां तु देहेन्द्रियादिकमपि मायातत्कार्यरहितत्वेनानन्दरूपत्वेन च भगवदुपयोग्यतोपि तत्तथेत्यर्थः । न हि मुक्तात्मनां कश्चन भगवदुपयोगोऽस्तीति भाष्यप्रकाशः। मध्ये स्यु'रिति कोशात् । मध्यस्थितस्य च व्यवधायकत्वाद् व्यवधानवाचक इत्यर्थः । आश्रमकर्मणां कथं व्यवधायकत्वमित्याकाङ्क्षायां श्रुत्या तदुपपादयन्ति तथा चेत्यादि । इयमपि श्रुतिस्तत्रत्येव ॥ ३५॥ अपि स्मर्यते ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ एतद्भाष्यमप्यतिरोहितार्थम् । अनु- ग्रहस्तु धर्मान्तरं कृपाद्याद्यपरपर्यायम्, न तु फलदित्सा । 'यस्यानुग्रहमिच्छामी'ति वाक्यात् । अयमेव च पुष्टिशब्देनोच्यते । 'पोषणं तदनुग्रह' इति वाक्यात् । एतत् सर्वं मत्पितृचरणविर- चिते पुष्टिप्रवाहमर्यादाख्यग्रन्थविवरणे प्रपञ्चितमिति नात्रोच्यते ॥ ३७ ॥ अतस्त्वितरज्यायो लिङ्गाच्च ॥ ३८ ॥ मुक्तेरिति पञ्चमी अत्रेति । भक्तिमार्गीय- भगवदीयत्वस्य मुक्तितोपि ज्यायस्त्वे । स्वरूपमेवेति । तिष्ठतीति शेषः । अतोपीति भगवदु- पयोगिलिङ्गस्थूलशरीरद्वयात्मिकाया भजनानन्दानुभावकसामग्र्या आधिक्यादिति । एतेन 'सर्वै- न्द्रियैस्तथा चान्तःकरणैरात्मनापि हि । भक्तभावात्तु भक्तानां गृह एव विशिष्यत' इति निबन्धोक्तं रश्मिः। अन्तरा चापि तु तद्दृष्टेः ॥ ३५ ॥ तत्रत्यैवेति । शरीरब्राह्मणस्यैव ॥ ३५ ॥ अपि स्मर्यते ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ अतस्त्वितरज्यायो लिङ्गाच्च 2091