भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2223, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2223

४९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ४ सू० ३९. तद्भूतस्य तु नाऽतद्भावो जैमिनिरपि नियमात्तद्रूपाभावेभ्यः ॥ ३९ ॥ (३-४-४) अथेदं विचार्यते । तदीयानामपि कदाचित् सायुज्यमस्ति, न वेति । तत्र भक्तिमार्गस्यापि साधनरूपत्वात् तस्य च मुक्तावेव पर्यवसानात् तदीयत्वस्य साधनावस्थायामुत्कृष्टावस्थारूपत्वात् तेषामपि मुक्तिरावश्यकी । तथा च फलतो न कश्चित् विशेष इति प्राप्ते, उच्यते तद्भूतस्येत्यादि । तुशब्देन मर्यादामार्गीयव्यवच्छेदः । अत्र विश्वासदार्ढ्यायाह । अन्यस्य का वार्ता, कर्ममात्रनिरूपकस्य जैमिनेरपि यदि कदाचिद्भगवत्कृपयायं भावो भवेत्, तदा तद्भूतस्य पुष्टिमार्गीयभगवद्भावं प्राप्तस्य तस्यापि नातद्भाव उक्तभावनिरोधानं न कदाचिदपीत्यर्थः । अत्र हेतूनाह नियमादीन् । तैत्तिरीयके

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2223, कुल 2600 में से · BharatKosha