अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2224, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९५ पणायोच्यते, 'सदा पश्यन्ति सूरय' इति । सूरयो विद्वांसः पुरुषोत्तमज्ञानवन्त इति यावत् । तच्च भक्तैरेवेति सूरिपदेन भक्ता उच्यन्ते । तथा च भक्तानां सार्वदिकदर्शनं नियम्यते, 'सदे'ति पदेन । एवं सति पुष्टिमार्गीयभगवद्भावं प्राप्तस्य मुक्तावुच्यमानायां तन्नियमो भज्येतेत्यर्थः । यच्चोक्तं साधनावस्थायामुक्त- मावस्थास्वरूपत्वम्, परं तदीयत्वस्य फलं मुक्तिरेवेति तत्राह । अतद्रूपेति । उक्तभ- गवदीयत्वं न साधनरूपमपि तु मुक्तेरपि फलरूपम् । 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा' इति वाक्यात् । 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत' इति श्रुत्या अमृतस्य मुक्तस्य ब्रह्मस्वरूपभोग उच्यते । स च, 'यमेवैष वृणुत' इति श्रुतेर्भग- वदीयत्वसाध्य एवेति स्पष्टं फलत्वमस्यातोऽतद्रूपत्वम् । किञ्च । फलं हि साधनादु- त्तमं भवति । भगवदीयत्वाद्युत्तमस्यार्थस्याभावादपि न मुक्तिर्वक्तुमुचिता । तदुक्तं श्रीभागवते पञ्चमस्कन्धे पूर्वं भक्तिस्वरूपं निरूप्य, 'तयैव परया निर्वृत्या ह्यपवर्ग- मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परि- समाप्तसर्वार्था' इति ॥ ३९ ॥ इति तृतीयाध्याये चतुर्थपादे चतुर्थं तद्भूतस्येत्यधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः। ब्रह्मस्वरूपभोग एवात्रोच्यते । स च, 'यमेवे'ति श्रुत्यन्तरैकवाक्यतया तथावधार्यते इति मुक्तिफ- लरूपत्वान्न तस्य मुक्तिसाधनरूपत्वमित्यर्थः । तेन अतद्रूप इति भावप्रधानो निर्देश इति बोधि- तम् । न च 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्रेयं वाजसनेयिश्रुतिः । 'अकामयमानस्ये'त्यारभ्या 'त्र ब्रह्म सम- श्नुत' इत्यन्तं सुषुप्तिपरत्वेन भाष्य एव व्याख्यातेति कथमत्रैवमुच्यत इति शङ्क्यम् । याज्ञवल्क्येन श्लिष्टतया तत्र सुषुप्तिमोक्षावस्थे बोधिते इति बोधनार्थं तत्र तथा व्याख्यानम्, न तु सिद्धान्तबोध- नायेति तत्रैव मया व्युत्पादितत्वादिति । शेषं स्फुटम् । यद्यप्यतीतपादे लिङ्गभूयस्त्वाधिकरणे 'अनुबन्धादि'सूत्रेऽयमर्थो निर्णीतः, तथापि सर्वात्मभाववत एव निर्णीतः न तु पुष्टिमर्यादामार्गी- यभगवद्भक्तस्यापीति न पुनरुक्तिरिति ज्ञेयम् । अन्ये तु, अत्र ऊर्ध्वरेत आश्रमात् कथमपि पुनराश्रमान्तरं भवति न वेति संशयेऽनेन सूत्रेण तद्भावः साध्यत इत्याहुः । तदस्माकमपि सम्मतम् । यत्तु जैमिनिपदैकमत्यबोधनायेत्याहुः तत् तद्दर्शने तद्विचारादर्शनाच्छिष्यत्वेन तत्सम्म- तिप्रदर्शनप्रयोजनाभावाच्चेति न रोचिष्णु ॥ ३९ ॥ इति चतुर्थं तद्भूतस्येत्यधिकरणम् ॥४॥ रश्मिः। विवृण्वन्ति स्म । स च यमेवेति । तथेति भाष्योक्तप्रकारेण । तस्येति । तदीयत्वस्य । तेनेति । अतद्रूपत्वमिति भाष्येण । अत्रैवमिति अस्मिन्नधिकरणे । एवं पुष्टिफलदत्वेन । श्लिष्टतयेति । मोक्षसुषुप्तिसुखयोः श्लिष्टं ब्रह्मपदं तया । बोधिते इति । स्फुटमिति । उत्तमस्येति । भगवदीयत्वफले वैराग्यजनकस्य । आत्यन्तिकमिति एतल्लक्षणमुक्तम् । एवं स्फुटमित्यर्थः । ऐकमत्ये विशेषावधानमाशङ्क्याहुः शिष्यत्वेनेति । नेति । विशेषावधानाभावान्न रोचिष्णु ॥ ३९ ॥ इति चतुर्थं तद्भूतस्येत्यधिकरणम् ॥ ४ ॥ 2095