अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2225, कुल 2600 में से
संदर्भ में पढ़ें४९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ५ सू० ४०. ॰ न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ (३-४-५) अथेदं विचार्यते । ध्रुवायेव ब्रह्मादिलोकाधिकारं दत्त्वा तत्सम्बन्धिफलं ददाति, न वेति । तत्र नेत्याह न चेति । तत्र हेतुः । पतनानुमानादिति । 'आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुने'ति स्मृतेरित्यर्थः । फलस्य सावधित्वा- दिति भावः । किञ्च । तादृशे भगवतीये पतनायोगादपि न तथा । अथवा । तादृशस्य सदा भक्तिरसानुभवात्तदतिरिक्तस्यानपेक्षणादन्येषां फलानां सम्बन्धा- भावादित्यर्थः ॥ ४० ॥ भाष्यप्रकाशः । न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ अधिकरणमवतारयन्ति अथेत्यादि । अथेदं विचार्यत इति पुष्टिमर्यादामार्गीयफलविचारोत्तरं मर्यादापुष्टस्य फलं विचार्यत इत्यर्थः । तत्सम्बन्धीति अधिकारसम्बन्धि । सिद्धान्तमाहुः तत्र नेत्यादि । ईदृशे सन्देहे 'ध्रुवायेव ददाती'ति पूर्वपक्षे नेत्याहेत्यर्थः । हेतुं व्याकुर्वन्ति आब्रह्मेत्यादि । सूत्र- योजना तु, आधिकारिकं फलम् चकारादधिकारमपि न, पुष्टिमार्गीयेभ्यो न ददात्येव । कुतः । पतनानुमानात् । अनुमीयते श्रुतिरनेनेत्यनुमानं स्मृतिः, पतनबोधकमनुमानं पतनानुमानं तस्मात् । शेषा तु स्फुटा । तर्हि, ध्रुवाय कथं दत्तवानिति तु न शङ्क्यम् । द्वितीयस्कन्धे, 'ते वै विदन्त्य- तितरन्ति च योगमाया'मिति भगवद्योगमायाज्ञानरूपसाधनान्तरस्य ध्रुवे उक्तत्वेन, 'नैच्छन्मुक्ति- पतेर्मुक्तिं पश्चात्तापमुपेयिवा'निति वाक्येन च तस्य मुमुक्षुतया मर्यादामार्गीयत्वावगमात् । ये पुनः पुष्टावङ्गीकृताः, तेषां तु मुक्तावप्याकाङ्क्षाराहित्यात्तामेव न ददातीति दूरापेतमाधिकारिकमित्यर्थः । किञ्च । तस्यापि तत्र मुक्तिरेव मायातरणरूपा फलत्वेनोच्यते, न तु भक्तिफलम्, अतो न दोषः । भक्तस्वरूपविचारेणार्थान्तरं तदयोगपदस्याहुः । अथवेत्यादि ॥ ४० ॥ रश्मिः । न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ तत्सम्बन्धीति । ततोऽपुनरावृत्त्यादि यावदधिकारम् । नेत्यस्यार्थः पुष्टिमार्गीयेभ्य इत्यादिः सम्प्रदानक्रियाव- धारणेः सह । श्रुतिरनेनेति । ऋषीणां श्रुत्युक्ताचारस्मरणात् स्मृतेरिति व्युत्पत्या स्मृतिमूल- श्रुतिरनेनानुमानेन ज्ञाप्यतेऽनुमीयते वा । 'आब्रह्मो'ति स्मृतिः एतत्समानार्थकश्श्रुतिमूला, स्मृतित्वात् । 'आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महे'ति स्मृतिव- दिति । मध्यमपदलोपी समास इत्याहुः पतनेति । देवपूजको ब्राह्मणो देवब्राह्मण इतिवत् । शेषेति । तदयोगादित्यस्य योजना भाष्ये स्फुटेत्यर्थः । दत्तवानिति । अपुनरावृत्त्यादि यावदधिकारं दत्तवान् । उक्तत्वेनेति । ज्ञानवत्त्वात् । मुमुक्षुतायां हेतुः नैच्छन्निति । ध्रुवः मुक्तिपतेर्मुक्तिं नैच्छदित्यर्थः । तस्मात् सपत्न्या वा वाक्स्मरणात् । पश्चादितिपाठे स्मरणात् पश्चात् । तस्येति । ध्रुवस्य । तामिति । मुक्तिम् । तस्यापीति । ध्रुवस्यापि । न दोष इति । ध्रुवायापुनरावृत्त्यादिदानदोषो न । भाष्ये । पतनायोगादिति । भगवद्भावाच्च्युतिः पतनम् । अग्रिमसूत्रे वक्ष्यन्ति । फलाना- मिति । अधिकारसम्बन्धिफलानामपुनरावृत्त्यादीनाम् ॥ ४० ॥ 2096