अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2211, कुल 2600 में से
संदर्भ में पढ़ें४८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० २ सू० २५. 'यथाकारी'त्यादिना कर्मकर्तुरेवोपक्रमात् 'अथाकामयमान' इत्यनेनापि तथाभूतः स एवोच्यते । एवं सति सत्कर्मणि प्रवृत्त्यर्थं विविधफलानि स्वयमेवोक्त्वा जनान् श्रामितवानिति खोक्तकरणात् चिरेण दयया निष्कामं करोति, सकामतयापि क्रियमाणेन वैदिककर्मणाऽनेकजन्मभिः संस्कारविशेषप्रचयेनापि तथा । 'कषाये पक्वे ततो ज्ञानं प्रवर्तते' इत्यादिसमृतिभ्यश्च ज्ञानोत्पत्तौ कर्मापेक्षास्तीति । चकारेण पुष्टावङ्गीकृतस्य सर्वानपेक्षेति सा समुच्चीयते । अत एव, 'नायमात्मे'- त्यादिश्रुतिर्न विरुध्यते । भाष्यप्रकाशः। कामयमान' इति श्रुतिभागं व्याकुर्वन्ति अथेत्यादि । तथाभूतः स इति । 'एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलं तथे' ति गीतावाक्यादकामः कर्मकृतौ, निष्कामः फले । एवं द्विविधकर्तृनिरूपणेन यत् सिध्यति तदाहुः एवं सति सदित्यादि । उक्तमर्थं स्मृत्योपष्टम्भन्ति कषाय इत्यादि । एवं मर्यादामार्गे कर्मापेक्षैव यद्यपि भगवत्साक्षात्कारे व्युत्पादिता, तथापि हेतुबोधके यज्ञादिश्रुतिपदे आदिशब्देन तैत्तिरीयोक्तानामानन्दमयाद्युपासनानामन्यत्रोक्तानां शमादीनां ज्ञानोपकारिणाम्, तथा भक्त्युपयोगिनां गोपालतापनीयोक्तानां शरणगमनध्यान- रसनभजनादीनां च सङ्ग्रहात्तदपेक्षापि बोध्या । साप्यग्रिमसूत्रेषु व्युत्पादयिष्यते । चकारार्थमाहुः चकारेणेत्यादि । सेति । अत्रानुकम्पापि । सूत्रस्य चकारस्यार्थं श्रौतार्थापत्त्योपष्टम्भन्ति अत एवेत्यादि । अत एवेति । मार्गभेदादेव । तथा च साधनदशायामेव कर्मापेक्षा, न तु सिद्ध- शायामिति भावः । अत्रेदं बोध्यम् । पुरुषोत्तमज्ञानं हि मार्गभेदेन सामान्यतश्चतुर्विधं वा । तत्र कर्ममार्गे रश्मिः। यथेति । अकाम इति 'अकामयमान' इत्यनेनाकामः 'यथाकारी'त्यादिना कर्मकर्ता । भाष्य- स्थेनापिना पूर्वोक्तनिःकामः केति चेत् फले । अपिः पदार्थसम्भावनायाम् । स्वयमिति वेदः श्रामित- वानिति । अविदितकरणात् लौकिकात् वैदिके श्रामितवान् । चिरेणेत्यादि । 'भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्तियोग'मिति वाक्यात्तथा । निष्कामः सन्न्यासीत्युक्तं 'आश्रमाणां तुरीयोस्मी'ति । अतो मुक्तः । तथेति निष्कामं करोति । कषाय इति कामक्रोधादौ पक्वे शास्त्रीत्या परिणते । एवमिति सर्वशब्देन मार्गत्रये प्रमेये सति यज्ञादिपदेन भक्तिज्ञानसङ्ग्रहवत् । गोपालेति । आदिना श्रीभागवतमुपष्टम्भकम् । अन्यदप्युपयुक्तम् । शरणेति 'मुमुक्षुर्वै शरणमनुव्रजे'दिति शरणगमनम् । मुमुक्षुत्वस्य साधनचतुष्टयप्रवेशात् । शरणगमनस्य मुमुक्षुत्वज्ञापकत्वात् । ध्यानं श्रीभागवतेपि साधनस्कन्धीयत्वात् उपात्तम् । रसनभजनयोः स्वरूपं गोपालतापनीय एवोक्तम् । हेतुबोधकं सूत्रे यज्ञादिश्रुतिपदम् । पञ्चम्यन्तत्वात् । तत्र यज्ञादीत्यत्रादि- पदेन षष्ठ्यन्तोक्तानां सङ्ग्रहात् । चकारेति । एवं मर्यादाभक्ति कर्मभिर्ज्ञानं निष्कामसकामयोश्च निरूप्य पुष्टिमार्गिर्निरूप्येत्याशयेन चकारार्थम् । श्रौतार्थापत्त्येति लक्षणमुक्तम् । पुष्टिकल्पनं समाधेयंनायमात्मेतिश्रुतार्थस्यानुपपद्यमानस्योपपत्तय इति लक्षणसमन्वयोत्र । दृष्टार्थापत्तिस्तु, जीवन् देवदत्तो गृहे नास्तीत्यत्र जीवनसंसृष्टगृहाभावस्यानुपपद्यमानस्योपपत्तये बहिर्भावकल्पना । मार्गेति । 'भक्तिमार्गस्य रूक्षत्वात् पुष्टिस्तीति निश्चय' इति पुष्टिमार्गभेदात् । पुरुषोत्तमज्ञानमिति । ननु 2082