अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2230, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०१ तस्यायमभिसन्धिः । यजमानो हि स्वेष्टसिद्ध्यर्थमृत्विज आदौ वृणुते । प्रकृते च, 'यमेवैष वृणुत' इति श्रुतेः 'तस्मादेकाकी न रमत' इति श्रुतेश्च स्वक्री- डार्थं भगवान् स्वचिकीर्षिततत्तल्लीलानुरूपान् जीवान् वृणुते । 'यूनः स्थविरान् वे'ति विकल्पादेकरूपाणां यथा सोमादिषु वरणम्, तथा सर्वात्मभाववत्त्वेनैकरूपाणा- मेवात्र वरणम् । तत्र यथा स्वीयस्वीयतत्तदङ्गमात्रकरणं तेषाम्, तथेतरसम्बन्धनिवर्त्तनपूर्वकं तद्योग्यसमर्पकत्वमन्न । तदुक्तं भगवता 'यदा पुमाँस्त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो म' इति । अत्र पूर्वपदेनेतरसम्बन्धनिवर्त्तनोक्त्या सर्वात्मभाव उक्तो भवति । तदनन्तरमात्मनिवेदने सति तद्विषयकलीलाकरणे- च्छाविषयः सम्भवति । अन्तरङ्गलीलाप्रवेशनमिच्छायां विशेषः । तस्मात् सुष्ठूक्त- मार्त्विज्यमिति । एतेन, 'न वदति न पश्यती'त्यादिश्रुतेर्यथा सोमादौ दीक्षितस्य तथागेतरधर्मनिवृत्तिः, स एव परमो धर्मो यतः, तथा पुरुषोत्तमस्योक्तभक्तैः सह रमणमेव सार्वदिकम्, एतदेव च महन्महत्त्वमिति सूचितं भवति । प्रकृते भक्ता- भाष्यप्रकाशः। आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४४ ॥ औडुलोम्याशयमाहुः तस्यायमित्यादि। यूनः स्थविरान् वेति। सर्वान् यूनः सर्वान् स्थविरान् वा । तत्रेति सोमादियागे । अत्रेति भक्तिमार्गीयलीलायाम् । तत्र सम्मतिमाहुः । तदुक्तमित्यादि 'यदा पुमा'निति वाक्यमेकादशस्कन्धे उनत्रिंशाध्यायेऽस्ति । तद् व्याकुर्वन्ति अत्रेत्यादि। पूर्वपदेनेति 'त्यक्तसमस्तकर्मे'तिपदेनेतरसम्बन्धनिवर्त्तनोक्त्या भक्तिमार्गीयो विगाढभावैकदेशः सर्वात्मभाव उक्तो भवति । न चायं ज्ञानमार्गीय इति वक्तुं शक्यः । अग्रे निवेदितात्मपदात् । तदनन्तरमात्मनिवेदने सति विचिकीर्षितो, निवेदितात्मजीवविषयकलीलाकरणेच्छाविषयः, स निवेदितात्मा जीवो भवति, विचिकीर्षितपदे व्युपसर्गेण अन्तरङ्गलीलाप्रवेशनरूपो विशेष, इच्छायां बोध्यते । एतदुत्तरार्धे तु 'तदामृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै' इत्यस्ति । तदर्थस्तु, यदैवं भवति, तदा अमृतत्त्वं ब्रह्मभावं बह्रद्ययोगोलकन्यायेन प्रतिपद्यमानः सन् मया सह कल्पते, कामाशनसमर्थो भवति च पुनः आत्मभूयाय 'स्वरूपेणावतारेये'ति न्यायेन मदामत्त्वाय कल्पत इति। क्वचित्तु, 'यदा पुमा'नित्यत्र 'मर्त्यो यदे'ति मूले पाठः, तदाऽप्यर्थे न कोपि विशेषः । तदेतत्सूत्रार्थत्वेन निगमयन्ति तस्मादित्यादि । आर्त्विज्यपदमेवं व्याख्याय तत्सूचित- मर्थमाहुः एतेनेत्यादि । एतदेव च महत्त्वमिति । रमणे सार्वदिकत्वमेव च भक्तिमार्गे उत्कर्षः । रश्मिः। आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४४ ॥ त्यक्तसमस्तेति । अभि- प्रेयेति ज्ञेयम् । भक्तीति । कामशाकीयसर्वात्मभावव्यावर्त्तकं विशेषणम् । विगाढेति । विगाढभावः 'ता नाविद'न्नितिश्लोकोक्तः तदेकदेशस्तद्धरमवृत्तिरूपः । उक्त इति तात्पर्यवृत्त्योक्तः । आत्म- निवेदन इति 'श्रवणं कीर्त्तनं विष्णो'रित्यस्मिन् श्लोके पाठक्रमेण कृतात्मनिवेदने । अन्तरङ्गेति भाष्यं विवृण्वन्ति स्म विचिकीर्षितपद इति । इच्छायामिति विषयसप्तम्या इच्छाविषय इत्यर्थः । स्वरूपेणेति अयं न्यायः । निगमयन्तीति । तस्मात्पर्वतो वह्निमान् इति निगमनं यथा तथा निगमयन्ति । आर्त्विज्यपदमिति । वेदान्ते लीलाधर्म आर्त्विज्यम् । ऋतौ यजतीति ऋत्विगिति सूत्रेण साधुः । भाष्ये । सोमादाविति । यागे तथागेतरधर्मा दानपचनादयः तेषां निवृत्तिः। एतदेव च महत्त्वमिति भाष्यप्रतीकम् । अत्र महन्महत्त्वमिति भाष्यपाठः । तत्र 2101