अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2231, कुल 2600 में से
संदर्भ में पढ़ेंHere is the precise, line-by-line Devanagari transcription of the page:
५०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ४ अ० ६ सू० ४५. मायुक्तिवत्त्वेन निरूपणे हेतुत्वेन तात्पर्यान्तरमप्याह । तस्मै यजमानारब्धकर्म- साङ्गत्वाय ऋत्विक् परिक्रीयते वरणेन स्वकार्यमात्रोपयोगित्वाय स्वीयः क्रियते, तथा प्रकृतेऽपि । न च 'कचित् कल्याप्यो दक्षिणा' इति प्रैषवचनात्तदर्थैव तत्प्र- वृत्तिः, अत्र तु स्वतः पुरुषार्थत्वेन भगवदर्था प्रवृत्तिः, अतो वैषम्यमिति वाच्यम् । वीरागस्यापि वरणसमये तत्प्रभस्यावश्यकत्वात्, तथैव दक्षिणादानमपि, अन्य- था निरङ्गत्वापत्तेः । प्रकृतेऽपि भक्तानां स्नेहादेव प्रवृत्तिर्भगवान् स्वानुभवार्थमेव ताननुभावयतीति न वैषम्यम् ॥ ४४ ॥ श्रुतेश्च ॥ ४५ ॥ अथर्वणोपनिषत्सु पठ्यते 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनामुष्मिन् मनःकल्पनमेतदेव च नैष्कर्म्य'मिति । भक्तिमार्गप्रचारैकहृदयो बादरायणः । मानं भागवतं तत्र तेनैवं ज्ञेयमुत्तमैः ॥ ४५ ॥ इति तृतीयाध्याये चतुर्थपादे षष्ठं बहिस्तूभयथेत्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः । सूत्रशेषं व्याकुर्वन्ति प्रकृत इत्यादि । तथा प्रकृत इति । चिकीर्षितलीलासाङ्गत्वाय तत्तद्भक्त- वरणमित्यर्थः । स्मृतिषु याजनस्य वृत्तिमध्ये गणनादार्त्विज्ये स्वार्थमेव प्रवृत्तेर्यजनस्य च भगवद- र्थत्वेन तदभावात् तद्वैषम्यमाशङ्कय परिहरन्ति न चेत्यादि । नीरागस्येति याजनेन वृत्तिमनिच्छतः। आवश्यकत्वादिति वैधत्वेनावश्यकत्वात् । तथैवेति वैधत्वेन । अनुभावयतीति लीला अनुभावयति । तथा च यथा तत्र वैधत्वमेव तादृशप्रैषादिप्रवृत्तिप्रयोजकम्, एवमत्र निरुपधिस्नेहः, यथा तत्र तद्भावेन कर्मसाङ्गता, तथात्र स्वलीलानुभावनमतो न वैषम्यमित्यर्थः । तथा च भगवदि- च्छायां सत्यामुद्यमस्य गृहत्यागः कर्तव्यः, अन्यथा तु न कर्तव्यः, यजमानाधीनर्त्विग्वत्तादृशस्य केवलं प्रम्पषीनत्वादिक्षा चानियता, अतो नोक्त इत्यौडुलोमेराशय इति बोध्यम् ॥ ४४ ॥ रश्मिः । महत्त्वे महत्त्वपरिमाणं नास्तीति महत्पदं बाहुलकमित्याशयः । महतो महत्त्वं पूजकत्वं सन्माननमिति षष्ठीतत्पुरुषे तु न बाहुलकम् । वृत्तिमध्य इति अध्ययनमध्यापनदानप्रतिग्रहयजनयाजन- ब्राह्मणवृत्तय इति वृत्तिमध्य इत्युक्तम् । स्वार्थमेवेति । न च यजमानकर्मार्था प्रवृत्तिरिति वाच्यम् । याजनाय स्ववृत्तये प्रवृत्त्यङ्गीकारेण यजमानकर्मार्थत्वाभावात् । तदभावादिति स्वार्थत्वाभावात् । तद्वैषम्यं दृष्टान्तवैषम्यम् । न चेत्यादीति । क्वचित् 'कल्याप्यो दक्षिणा' इति याजने प्रैषवचनात् । सार्थदक्षिणार्यैव तत्प्रवृत्तिः ऋत्विक्प्रवृत्तिः । अत्र तु दार्शन्तिके तु । वैषम्यं दृष्टान्तवैषम्यम् । भाष्ये तत्प्रभस्येति । कल्यापदक्षिणाविषयकप्रैषस्य । निरङ्गत्त्वेति यागस्येति बोध्यम् । प्रकृते । अनुभावयतीति ते लीला अनुभवन्ति तान् लीला अनुभावयतीति हेतुमण्णिच् । स्वलीलेति सप्रतियोगिनिःप्रतियोगिलीलयोर्मध्ये सप्रतियोगिखलीलानुप्रावनं तेन सप्रतियोगिलीलासाङ्गतेत्यर्थः । न वैषम्यं न दृष्टान्तवैषम्यम् ॥ ४४ ॥ 2102