भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2232, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2232

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०३ भाष्यप्रकाशः । श्रुतेश्च ॥ ४५ ॥ व्याकुर्वन्ति अथर्वणेत्यादि । तथा चात्र विहिताया भक्तेः सन्न्यास- रूपताया उक्तत्वाद् बुद्धिपूर्वकं तत्करणमावश्यकम्, न तु त्यागस्यापि, श्रुतौ तावन्मात्रस्यैव कथना- दिति व्यासमतमित्यर्थः । तेनात्र भक्तिमार्गे साधनपरिपाकदशायां द्विविधः सन्न्यासः अत्यन्त- सिद्धानां विगाढभावस्वाभाव्यादेव प्राप्तः, यथा व्रजभक्तानामतः सोऽवैधः । तत ईषन्न्यूनानां तु विरहानुभवार्थं कर्तव्यः, यथा श्रीमदुद्धवानाम् । स वैधः । 'त्वं तु सर्वं परित्यज्ये'ति, 'मद्भक्तो- वाऽनपेक्षश्च, सलिङ्गान्नाश्रमाँस्त्यक्त्वा चरेदविधिगोचर' इत्यादिवाक्यतः प्राप्तत्वात् । द्वावप्येतौ नाश्रमरूपाविति तूपपादितम्, अतो न कोपि सन्देहः । नन्वत्रान्यैः 'परामर्शा'दि सूत्रेष्व

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2232, कुल 2600 में से · BharatKosha