भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2234, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2234

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०५ कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४७ ॥ ( ३-४-८ ) ननु 'बहिस्तूभयथे'त्यादिना भगवदीयस्य गृहत्याग आवश्यक इति निरूपि- तम् । छान्दोग्ये तु 'आचार्यकुला'दित्यपक्रम्य, छान्दोग्योपनिषदन्ते 'आचार्य- कुलाद्वेदमधीत्य गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधी- यानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य अहिꣳसन् सर्वाणि भाष्यप्रकाशः। कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४७ ॥ पूर्वाधिकरणोक्तं दृढीकर्तुं किञ्चिदाक्षिप्य समाधत्ते, इत्याशयेन सूत्रमवतारयन्ति ननु बहिरित्यादि । तात्पर्यमाहेति । उक्तश्रुतेस्तात्पर्य- माहेत्यर्थः । श्रुत्यर्थस्तु, आचार्यकुलाद् गुरुगृहात्, गुर्वभावे तत्पत्न्यां तत्पुत्रे तद्गोत्रे वा ब्रह्मचर्य- मिति ज्ञापयितुं कुलपदम् । वेदमधीत्य गुरोः कर्मातिशेषेण गुरोः सेवारूपं यत्कर्म तत् कृत्वा, ततोऽतिशेषोऽवशेषो यः कालस्तेन कालेन वेदाध्ययनं साङ्गं सरहस्यार्थज्ञानपुरःसरं कृत्वा, अभिसमावृत्य जिज्ञासाङ्गयज्ञसमापनोत्तरमाचार्यकुलाद्भिगत्य दारानाहृत्य कुटुम्बे स्थित्वा, गार्हस्थ्यविहिते कर्मणि तिष्ठन्, शुचौ देशे स्वाध्यायमधीयानो विविक्ते स्वाध्यायब्राह्मणोदितप्रकारे पवित्रे देशे यथावदासीन आवृत्तिसधीतस्य कुर्वन्, धार्मिकान् विदधत् पुत्रान् शिष्यांश्च शिक्षणेन धर्मशीलान् कुर्वन्, आत्मनि सर्वेन्द्रियाणि सम्प्रति- ष्ठाप्य हार्देऽन्तर्यामिणि परे ब्रह्मणि बाह्याभ्यन्तरेन्द्रियाणि सम्यक् स्थापयित्वा, 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती'ति न्यायेन तमेव शरणत्वेन ज्ञात्वा कर्माणि तत्र सन्न्यसेदिति यावत् । अहिं- रश्मिः । कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४७ ॥ पूर्वेति । बहिस्तूभयथेत्यधिकरणोक्तम् । साङ्गमियादि । 'साङ्गो वेदोऽध्येयो ज्ञेयश्चे'ति श्रुतेरुक्तम् । यद्वा । आचार्यपदादार्याचर्यलक्षणनिविहर- हस्तदङ्गेऽधीतेतिशब्देनोपलक्ष्यते । जिज्ञासाङ्गयार्थगमनरहितं समावर्तनमभिसमावर्तनम् । गार्हस्थ्यविहित इति कुटुम्बविशेषणम् । सम्प्रतिष्ठाप्येत्यत्र समुपसर्गार्थमाहुः हार्द इति । जीव उपासनानिषेधान् मानसीन इत्युक्तम् । हार्दपदेन 'यो मनसि तिष्ठन् मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयति स त आत्मान्तर्याम्यमृत' इतिश्रुत्युक्तेऽन्तर्यामिणि । तत्रापि प्रत्येकपर्यवसितरूपव्यावृत्त्यर्थं ब्रह्मणीति तद्व्यावृत्त्यर्थं पर इति । अत्र हार्द इति विशेष्यम् । इदं हार्दं प्रकटं बोध्यम् 'धार्मिकान् विदध'दित्युक्तत्वात् धर्मेण चित्तशुद्धौ भक्त्याविर्भावात् । सम्यगिति । निरोधलक्षणग्रन्थोक्तरीत्या । अनिरुद्धैस्तु सिद्धान्तमुक्तावत्युक्तरीत्या । तथा च श्रुतिः 'इन्द्रियाणि जुह्वती'ति । गीतापि । यद्यप्येव मुख्यत्वात् तथापि निरोधस्य दानसाध्यत्वादाचार्य सन्दर्शितागमप्रकारेनाडुः । ईश्वर इति । शरणत्वेनेति । 'शुद्धाश्च सुस्खिनश्चैव ब्रह्मविद्या- विशारदाः । भगवद्भजने योग्या नान्य इत्यर्थतः फल'मिति प्रथमसुबोधिनीकारिकायां 'ब्रह्मविद्या- विशारदा' इत्युक्तेरुक्तशमदमादिसूत्रोक्तशमदममुमुक्षावैराग्यप्राप्त्या मुमुक्षुकार्य शरणगमनं श्रुतत्वादत्र १. छान्दोग्य इत्यारभ्य इदं विषयवाक्यमित्यन्तं श्रीहस्ताक्षरलेखितमूलपुस्तके नास्ति, तथापि प्रकाशकारैर्व्याख्यात- त्वादस्मदन्वेषणावसरेऽनु दृश्यमानत्वाच्चात्र निवेशितम् । ६४ ब्र० सू० २ ० 2105