अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2235, कुल 2600 में से
संदर्भ में पढ़ें५०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ८ सू० ४७. भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते । न स पुनरावर्तते न स पुनरावर्तते' । इदं विषयवाक्यम् । 'ब्रह्मलोकमभिसम्पद्यत' इति गृहिणोपसंहारः कृतः । वाजसनेयिशाखायां वै 'तद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्त' इत्युपक्रम्य 'अथ भिक्षाचर्यं चरन्ती'ति पठ्यते । एवं सति विकल्पे सम्भवत्युपसंहारस्य तात्प- र्यग्राहकत्वाद् गृहिण एव यथोक्तकर्तुर्ब्रह्मसम्पत्तिरिति श्रुतेस्तात्पर्यम् । त्यागोक्तिस्तु ऽसौ तादृशो यदर्थं सर्वं त्यज्यत इति स्तुतिपरेति प्राप्ते, गृहिणोपसंहारे हेतुत्वेन ता- त्पर्यमाह कृत्स्नेति । त्यागे वाङ्मनसोरेव भगवति विनियोगः, न सर्वेन्द्रियाणाम