अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2236, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०७ कृतकृत्यता भवतीति तेनोपसंहारः कृत इत्यर्थः । अत एव 'आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्ये'त्युच्यते । अत्र, आत्मपदं भगवत्परमिति ज्ञेयम् । कर्ममार्गीणगृहि- व्यवच्छेदार्थ तुशब्दः । अत्रेदमाकूतम् । 'भक्तिमार्गो बहुविध' इति कपिलदेववाक्यात् केचन भक्ताः स्वगृहेष्वेव स्नेहेन भगवदाकारे विविधोपचारैः सेवां कुर्वन्तस्तथैव निर्वृत्या मुक्ति- मपि तुच्छां मन्यन्ते । तदुक्तं 'मधुद्विट्सेवानुरक्तमनसामभवोऽपि फल्गु'रिति । तेन भगवद्भजन एव, तत्रापि पुष्टिमार्ग एव, श्रुतेर्भर इति ज्ञायते । पूर्वमुक्तद्भग- वद्भाववतां तदर्थं त्यागं निरूप्य, गृहिणोपसंहारतात्पर्यं पश्चाद् यन्निरूपितवान्, तेन तादृग्भाववतैव त्यागः कार्यः, तद्रहितेन तु गृह एवोक्तरीत्या प्रभुभजनं कार्यम्, तेनैव तल्लाभ इति व्यासहृदयमिति ज्ञायते । उक्तभावाभावे त्यागधर्मानिर्वाहा- दिति । केचन भक्ता भाषणादिलीलादर्शनं विना स्थातुमशक्ताः प्रादुर्भावविव- क्षाशाया गृहाँस्त्यक्त्वा वनं गच्छन्ति । आत्रेयौडुलोमिभ्यां तु भगवदवतारसाम- भाष्यप्रकाशः। च सार्थक्यम् । तेनेति । गृहिणा । एवं तात्पर्यं गमकमाहुः अत एवेत्यादि । कर्ममार्गी- णेति । जैमिनीयेतन्त्रविचारितेत्यर्थः । ननु पूर्वाधिकरणे त्यागं निरूप्य, यदत्र गार्हस्थ्यं प्रशंसति, तत्किमित्याकाङ्क्षायामाहुः अत्रेदमित्यादि । भक्तिमार्गो बहुविध इति कपिलदेववाक्यादिति । 'भक्तियोगो बहु- विधो मार्गैर्भामिनि भाव्यते । स्वभावगुणभेदेन पुंसां भावो विभिद्यत' इति कपिलदेववाक्याद्- भक्तिमार्गो बहुविध इत्यन्वयः । तदुक्तमिति 'यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्राच्यां श्रियं सुरवरैः सदवावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट्सेवानुरक्तमनसामभवोपि फल्गु'रिति पञ्चमस्कन्धे भवाटवीसमाप्तौ शुकेनोक्तम् । तथा च भरतस्य राज्ञद्दशायां तथाभावस्योक्त- त्वाद्वन्यस्यापि गृहिणस्तथाविधत्वे तथात्वमित्यर्थः । तेनेति । गृहिणोपसंहारे आत्मनि सर्वे- न्द्रियसम्प्रतिष्ठापनादिकथनेन । श्रुतितात्पर्यं निरूप्य व्यासतात्पर्यं निरूपयन्ति पूर्वमित्यादि । तल्लाभ इति । भगवत्प्राप्तिः । उक्तभावाभावे त्यागधर्मानिर्वाहादिति । विगाढभावाभावे 'स एवावस्ता'दित्यादिनोक्तस्य सर्वत्र तद्द्वानरूपस्य त्यागधर्मस्य मध्ये विच्छेदेन सर्वदा स्थैर्या- रश्मिः। न पुनरावर्तत' इत्यस्य । जैमिनीयेति । पूर्वतन्त्रविचारितगृहिण्व्यवच्छेदार्थ । यद्याहुः महाभाष्ये 'दम्पत्योः सहाधिकार' इति । पाठान्तरमाहुः भक्तियोगो बहुविध इति । भगवदाकार इति । भगवत्स्मरणं त्रैधा भवति, 'यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया । मदर्चोपासनाभिर्वा नान्यैर्योोग्यं स्मरेन्मन' इत्येकादशे विंशाध्यायवाक्यात् । अत्र 'शङ्खचक्रे मृदा यस्तु कुर्यात् तप्तायसेन वा । स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मण' इत्यत्र शङ्खचक्रनिषेधस्य तप्तायसे पर्यवसानवद् योग्यस्म- रणस्य भगवदर्चोपासनायां पर्यवसानात् । तथात्वमिति । उक्तभाववत्त्वम् । गृहिणोपसंहार इति । गृहिणा विद्योपसंहारे । पूर्वमित्यादीति । बहिस्तूभयथेत्यधिकरणे । तदर्थमिति । भगवद- र्थम् । मर्यादां सहलात् त्यक्त्वा पुष्टिमाहुः । विगाढेति । इदं लिङ्गभूयस्त्वाधिकरणे स्पष्टम् । त्यागधर्मस्येति । त्यागः सर्वात्मभाव इति श्रीहरिरायजितः । तस्य धर्मश्चरमधूचिस्तस्य । 2107