सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2237, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2237

यिकभक्तदशोक्ता । एते सर्वे फलमार्गीयाः । वाजसनेय्युक्तास्तु साधनमार्गीया इति नानुषपत्तिः काचित् ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ किञ्च । सन्न्यासिन आवश्यका ये धर्मास्ततोऽधिकास्ते गृहिणः सिद्ध्यन्ती- भाष्यप्रकाशः। भावात् । ननु यद्येवं दौर्लभ्यम्, तदा तत्कथनमाशक्योपदेशरूपत्वादप्रयोजनकं, अतो न वक्तव्य- मेवेति किमित्युक्तमत आहुः केचनेत्यादि । तथा च दौर्लभ्येपि तत्सत्तास्तीत्यतस्तदनूदितम् । अतस्तादृशाधिकारे भगवत्कृपया सम्पन्ने तत्कर्तव्यताबोधनार्थं तत्कथनमित्यर्थः । नन्वात्रेयौ- डुलोमिभ्यामेतादृशदशासम्पत्तौ गृहत्याग उच्यते, वाजसनेयके तु 'किं प्रजया करिष्यामो येषां नो एवायमात्मा नायं लोक' इति श्रावणादात्मलोककामनामात्रे बोध्येते इति ताभ्यामुक्तं श्रुति- विरुद्धम्, किञ्च, ये लीलादर्शनार्थं वनं गच्छन्ति, ते भगवदागमने पुनरायान्ति, न तु वन एव स्थित्वा सन्न्यासिसिधर्मानतिष्ठन्तीत्यतोपि तच्छ्रुतिविरुद्धम्, अतः कथं श्रौते विचारे एवं तन्मतो- पन्यास इत्यत आहुः । आत्रेयेत्यादि । एते सर्वे यदीया दशा ताभ्यामुक्ता, ते सर्वे भक्ताः फलमार्गीयाः, मार्ग उपायः । फलमेव मार्गो यत्रासौ मार्गः फलमार्गस्तत्सम्बन्धिनः । यथा गोपालतापनीयोक्ता गान्धर्वीप्रभृतयः । तथा च फलरूपो भगवान्नेव स्वस्वरूपं ताननुभावयतीति भगवत्कृपाविशिष्टयैवेच्छया तेषां सर्वेन्द्रियव्यापाराः । वाजसनेयिनां कहोडब्राह्मण उक्तास्तु साधनमार्गीयाः । साधनं शमादिविशिष्टं ज्ञानमेव मार्ग उपायः फलप्राप्तौ यत्रासौ साधनमार्गस्त- त्सम्बन्धिन इति तत्तदधिकारिभेदेन तथा तथा कथनान्न पूर्वोक्ता श्रुतिविरोधरूपा काप्यनुप- पत्तिरित्यर्थः ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ सूत्रमवतारयन्ति किञ्चेत्यादि । व्याकुर्वन्ति मौनपदमित्यादि । यद्यपि मुनेर्भावो मौनमिति योगेन विचारात्मकं ज्ञानमप्यादातुं शक्यते, रश्मिः। अतोऽवक्तव्यमिति । अतः अवक्तव्यमिति छेदः । आत्मेति । आत्मा च लोककामना चात्म- लोककामने ते एवात्मलोककामनामात्रे बोध्येत । तन्मतेति । आत्रेयौडुलोमिमतोपन्यासः। फलसा- धनयोः सामानाधिकरण्यमाहुः मार्ग उपाय इति । फलमार्ग इति । प्रमेयबलमिति यावत् । गान्धर्वीति । प्रभृतिपदेन व्रजस्त्रियः । 'तासां मध्ये श्रेष्ठा गान्धर्वी ह्युवाचे'ति श्रुतेः । एते प्रमेयबलेन युक्ता इति प्रमेयबलरूपफलमार्गसम्बन्धिनः, तदाहुः तथा चेति । भगवानेवेति । फलमेव, एवकारेण तदतिरिक्तसाधनव्यवच्छेदः । भगवत्कृपेति । भगवदिच्छा, फले साधनांश इति शेषः । कृपाविष्ठः साधनमित्याचार्योक्तेः । भगवत्कृपाविशिष्टयेच्छयेति न समस्तं पदम् । इच्छायां कृपाविशिष्टत्वाभावात् । विशिष्टयेति । ब्रह्मह्रदं नीतानामपि सर्वेन्द्रियव्यापारा भवन्त्विति विशिष्टेच्छा तया । एवकारेण साधारणेच्छायोगव्यवच्छेदः क्रियते । भक्तमनोरथपूरकत्वेन रूप- भेदात् । वाजसनेयीति भाष्यं विवृण्वन्ति स्म वाजसनेयिनामिति । साधनमित्यादि । 'ब्रह्मविदाप्नोति पर'मित्यत्र ब्रह्मविदित्यत्र ज्ञानम् । तत्सम्बन्धिन इति । प्रमाणबलिनः । पूर्वो- क्तेति । सूत्रारम्भोक्ता । श्रुतिस्तु 'एतद्ध स्म वै' इति ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ रूढमिति । यौगिकमित्युक्ते विचारात्मकज्ञान-

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2237, कुल 2600 में से · BharatKosha