भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2238, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2238

स्यपि हेतोस्तेनोपसंहारः कृत इत्याशयेनाह मौनवदित्यादि । मौनपदमनीहा- निलायामादित्रिदण्डधर्मोपलक्षकम् । यथा वागिन्द्रियमात्रदेहमात्रवित्तमात्रनि- यामकास्ते धर्मा उक्ता न्यासिनः, तथेतरेषामपीन्द्रियनियामकानां धर्माणां 'आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्ये'ति श्रुत्या गृहिण उपविश्यन्त इति युक्तो गृहिणोपसंहार इत्यर्थः । तत्र नियमनमात्रम्, अत्र तु भगवति विनियोगात् आधिक्यमिति भावः । वस्तुतस्तु केवलनियमनस्याप्रयोजकत्वात् तत्रापि भग- वति विनियोग एव तात्पर्यमिति ज्ञेयम् ॥ ४८ ॥ अनाविष्कुर्वन्नन्वयात् ॥ ४९ ॥ ननु भगवति सर्वेन्द्रियविनियोगात् गृहिणोपसंहार इति न युज्यते, 'शुचौ देशे स्वाध्यायमधीयान' इत्यादिकर्ममार्गीयसाधनश्रुतेरित्याशङ्क्य, तत्तात्पर्यमाह अनाविष्कुर्वन्निति । भगवद्भावस्य रसात्मकत्वेन गुप्तस्य