अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2239, कुल 2600 में से
संदर्भ में पढ़ें९१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ४ अ० ८ सू० ५०. ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५० ॥ वैदिककर्मकरणे तात्पर्यमुक्त्वार्थं लौकिकस्यानावश्यकत्वेऽपि तत्समयमाह । प्रस्तुतं प्रभुभजनं तत्प्रतिबन्धासम्भवे एवैहिकं कार्यम् । नन्वैहिकं कर्मारतु, मा वा, अतस्तत्समयोक्तिर्व्यर्थेत्याशङ्कयाह । तद्दर्शनादिति । 'आचार्यकुला'- दित्युपक्रम्याग्रे पठ्यते, 'धार्मिकान् विदध'दिति । अतो धार्मिकपुत्राद्युत्पादन- मैहिकं कर्म श्रुतौ दृश्यते, अतस्तत्समयोक्तिरावश्यकी। अन्यथोक्तावुकमस्तीति प्रस्तुतबाधेऽपि तत्करणे फलप्रतिबन्धः स्यादिति भावः ॥ ५० ॥ इति तृतीयाध्याये चतुर्थपादेऽष्टमं गृहिणोपसंहाराधिकरणम् ॥ ८ ॥ भाष्यप्रकाशः ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५० ॥ अत्रापि भाष्यं प्रकटार्थम् । एवञ्च यस्य मर्यादायां वरणं वर्तते, तेन साधनापरियाकदशायां 'आचार्यकुला'दिति श्रुत्युक्तरीत्या गृहे एव स्थित्वा भगवद्भजनं कर्तव्यम्, सद्धर्मरहस्यं च गोपनीयमिति सिद्धम् ॥ शङ्कराचार्यास्तु, सहकार्यन्तराधिकरणं त्रिसूत्रमङ्गीकृत्य, तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर्मौनं च मौनं च निर्विद्याथ ब्राह्मण' इति बृहदारण्यकीयकहोलब्राह्मणे किं मौनं विधीयत उत नेति संशये, मौनं विधीयते । यद्यप्यत्र न विधिः, तथाप्यपूर्वत्वाद्विधिराश्रयणीयः । मौनं च पाण्डित्यातिरिक्तं ज्ञानसतिशय- रूपम् । 'मुनीनामप्यहं व्यास' इति प्रयोगदर्शनात् । अतो मननान्मुनिस्तद्भावो मौनम् । अतो- रश्मिः। विरहे विविधभावोत्पत्त्या नवभक्तिरूपाश्रमधर्माणां तादृशे बाधात् । ज्ञापितं तात्पर्यवृत्त्योक्तम् । एवमतिरोहितार्थमित्यर्थः ॥ ४९ ॥ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५० ॥ प्रकटार्थमिति । प्रकटोऽर्थो यस्य, तथाहि । अप्रस्तुतेत्यत्र प्रस्तुतस्य प्रतिबन्धः प्रस्तुतप्रतिबन्धः, न प्रस्तुतप्रतिबन्धोऽप्रस्तुतप्रतिबन्धस्त- स्मिन्नित्यर्थं मत्वाहुः प्रस्तुतम् इति । कार्यमिति । एतदपीषणा कार्यम् । एकादशे योगीश्वरवाक्ये 'वेदोक्तं नाचरेद्यस्तु ह्यलोर्ध्वमुपैति स' इति दर्शनात् । श्रुतावुक्तमिति । साक्षाद्वाक्येऽश्रुतश्रुता- दुक्तम् । अधुना प्रस्तुतपदे नञन्वयं कृत्वाहुः प्रस्तुतबाधे इति । नञर्थोऽभावः । तत्करणे ऐहिककरणे । फलेति । प्रस्तुतभजनरूपसाधनाभावात्तथा । एवं प्रकटार्थम् । साधनेति । शमदमादिमुमुक्षुत्ववैराग्यक्रोधाभा( वा )नां परिपाकः अस्वाधीनता । रहस्यमिति । यथा निजहृद्गलि- तस्तोत्रोक्तम् । 'अहं तदीय इत्येषा तद्वार्ता रूपिता पर'मिति तदीयाधिकारोक्तेः। तस्माद्ब्राह्मण इति । यस्मात् पूर्व ब्राह्मणा आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थाय भिक्षाचर्यं चरन्ति, तस्मादधुनातनो ब्राह्मणः पण्डाय्ययनज्ञा आपाततो ब्रह्मधीस्तद्वान् पण्डितस्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन ज्ञानबलभावेन मननेन, शुद्धान्तःकरणत्वेन वा स्थातुमिच्छेत् तद्वयं लब्ध्वा, अथ श्रवणमननानन्तरं मुनिर्मननशीलो निदिध्यासनपरः स्यान्मौनं श्रवणमनने च मौनं च निदिध्यासनं लब्ध्वोक्तत्रयस्य ब्रह्मसाक्षात्कारहेतुत्वात् तत्रयानन्तरं ब्रह्मावगच्छतीति ब्राह्मणः साक्षा- त्कृतब्रह्मा भवतीति श्रुत्यर्थः । मौनमिति । निदिध्यासनम् । ज्ञानातीति । निदिध्यासनमित्यर्थः । प्रकाशस्तत्त्वविमर्शिन्यां तथा व्याख्यानात् । तद्भावो मौनमिति । भावे षण् । भावोत्र प्रकृतिजन्यबोधे 2110