अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2241, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। 'श्रोतव्यो मन्तव्य' इत्यादिभिश्रवणमनने चार्थप्राप्ते विद्यासहकारित्वेन गृहीते, तथा। तस्मात् ब्राह्मणः पाण्डित्यमित्यादिना पाण्डित्यं बाल्यं मौनमिति त्रयं विद्यायाः सहकार्यन्तरं विधीयत इत्युक्तं भवति । मौनं च पाण्डित्यादर्थान्तरमित्याह 'पक्षेणे'ति । इदं च मननं श्रवणप्रतिष्ठार्था- न्मननादप्यर्थान्तरम् । उपासनालम्बनस्य पुनः शीलनं तद्भावनारूपम् । अतोऽपूर्वत्वादत्र विध्यश्रवणेपि तदाश्रयणम् । मुनिः स्यादिति । तस्मादेवं वाक्यार्थः । ब्राह्मणो विद्यावान् पाण्डित्यं निर्विद्य उपासं ब्रह्मतत्त्वं परिशुद्धं परिपूर्णं च विदित्वा श्रवणमननाभ्यां प्राप्तं वेदनेन प्रतिल- भ्येति यावत् । तच्च भगवद्भक्तिभूतं सत्त्ववृद्धिकृतम् । 'नाहं वेदै'रित्यारभ्य, 'भक्त्या त्वनन्यया शक्यो ज्ञातु'मिति गीतायामुक्तत्वात्, 'यस्य देवे परा भक्ति