अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2242, कुल 2600 में से
संदर्भ में पढ़ेंएवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५१ ॥ (३-४-९) ननु 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य' इति श्रुतौ मुक्त्यन- न्तरं ब्रह्मसम्पत्तिः श्रूयते, सा तु पुरुषोत्तमसङ्गे लीलारसानुभवातिरिक्ता वक्तुम- शक्या, मुक्तोपसृप्यव्यपदेशात्, 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदु- भाष्यप्रकाशः । न्विचारलक्षणं श्रवणापरपर्यायं पाण्डित्यं निर्विद्य निःशेषं कृत्वा अनन्तरं बाल्येन तिष्ठासेत् । श्रवणज्ञानोत्पन्नाशेषपानात्मदृष्टितिरस्करणसामर्थ्यं बलं तस्य भावो बाल्यम्, तेन बाल्येन विष- यानाकृष्टस्तिष्ठासेन्मननं कुर्यादिति यावत् । बाल्यं च पाण्डित्यं च निःशेषं कृत्वा अथ मुनि- र्मौनवान् धारावाहिकात्मप्रत्ययप्रवाहवान् तिष्ठासेदित्यनुषज्यते । निदिध्यासने कुर्यादिति यावत् । एवम्मौनशब्दवाच्यं श्रवणमननाख्यं मौनशब्दवाच्यं निदिध्यासनं निर्विद्य अथ ब्राह्मणो निरू- पचरितब्राह्मणवान् ब्रह्मैव स्यात् कृतकृत्यो भवेदित्येवं व्याख्यातम् । तत्र मतभेदेन वाक्यव्याख्यानस्य भिन्नार्थत्वेपि मौनस्य प्रकृष्टज्ञानरूपस्यैवाङ्गीकारार्थ- स्तुल्यप्रायः । सूत्रव्याख्याने तु शाङ्करे भास्करे च मते व्युत्थायिनं प्रति तद्विधिः । रामा- नुजे तु अपरिपक्वं प्रत्यावश्यकतया विद्यापरिपाकार्थं तद्विधिरिति फलति । सिद्धान्ते तु याव- न्त्येतानि साधनानि तानि सर्वाणि मर्यादापक्षं नातिचरन्तीत्यत एतद्विहाय स एवादृत इति बोध्यम् । अग्रे तु न तथा विरुद्धम् । 'गृहिणोपसंहारे' तु बहुकर्मोपदेशं बीजमाहुः । बहुकर्मोपदेशे तु न किञ्चिदपीति तत्साकाङ्क्षत्वादरुच्यम् । 'मौनव'त्सूत्रे तु विद्यायाः सर्वाश्रमसाधारण्यं व्याकु- र्व्वन्ति । 'अनाविष्कुर्व'न्नित्यत्र च बाल्यरूपं निश्चिन्वन्ति । तदविरुद्धमित्युपरम्यते ॥ ५० ॥ इत्यष्टमं गृहिणोपसंहाराधिकरणम् ॥ ८ ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५१ ॥ सूत्रमवतारयन्ति रश्मिः । सर्वत्यागं कुर्यात् । अथ ब्राह्मणो गोपालतापनीये यः सः पुरुषोत्तमवित् स्यात् ततः कृतकृत्यो भवेत् । बहुकर्मेति । कृत्स्नभावः सन्न्यासिनो विशिष्यते । बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि आश्रमान्तरकर्माणि च यथासम्भवं अहिंसेन्द्रियसंयमादीनि यस्य विद्यन्ते, तस्मात् गृहमेधिनोपसंहारो न विरुध्यत इति भाष्येण तथा । साकाङ्क्षत्वादिति बहुकर्मोपदेशबीजसाकाङ्क्षत्वात् । व्याकुर्व्वन्तीति । इतरेषां चतुर्णामाश्रमाणामुपदेशाविशेषात् । मौनवदिति व्याकुर्वन्ति । तेन विद्यायाः सकलाश्रमसाधारण्यं गौणसाधनव्युदासार्थम् । निश्चिन्व- न्तीति । बाल्येन तिष्ठासेदित्यत्र यथोपपादमूत्रपुरीषत्वादिबालचरितं, अन्तर्गता वा भावशुद्धिः, दम्भ- दर्पप्ररूढेन्द्रियत्वादिरहितत्वंबाल्यं स्यादिति संशये, यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं बाल्यमिति पूर्वपक्षे आन्तरो भावविशेषो बालस्याप्रकटेन्द्रियत्वादिरिह बाल्यमाश्रीयत इति सिद्धान्त इत्येवं निश्चिन्वन्ति । तद्विरुद्धमिति । 'शुद्धभावप्रसादित' इति वाक्यात् प्रसादहेतुत्वेन भेदान्तर्गतत्वात् ॥ ५० ॥ अष्टमं गृहिणोपसंहाराधिकरणम् ॥ ८ ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५१ ॥ सूत्रमिति । वणिङ्क- ६५ ब्र० सू० २० 2113