अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2244, कुल 2600 में से
संदर्भ में पढ़ेंभावाद्यौत्सर्गिकी तदवस्था । तत्फलं तु कस्यचिदत्यनुग्रहेण पुष्टौ प्रवेशने भव- तीति स्वाभिप्रायं प्रकटीकुर्वता बादरायणेन अनियम इत्युक्तम् । एवं सति भाष्यप्रकाशः । चिर'मिति श्वेतकेतूपाख्यानश्रुतावाचार्यवतः पुरुषस्य ब्रह्मज्ञानोत्तरं मोक्षानाप्तिपर्यन्तमेव ब्रह्मसम्प- त्तिविलम्बः, न तु तदुत्तरमिति श्राव्यते । ब्रह्मसम्पत्तिश्च 'सता सोम्य तदा सम्पन्नो भवती'ति 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुष' इत्यादौ सम्परिष्वङ्गरूपैव सिद्धे- त्येकीभावदशाविरुद्धा । अतस्तदविरोधार्थमेतयोः श्रुत्योर्विशेषात्सौत्सर्गिकभाव आदर्तव्यः । वर- णेन पुष्टौ प्रवेशने मुक्त्यनन्तरं ब्रह्मसम्पत्तिरूपं फलम्, तदभावे तु मुक्त्यवस्थैवेति । तथा च वरणस्य भगवदिच्छामात्राधीनत्वात् तस्याश्च पूर्वं ज्ञातुमशक्यत्वाद्वगवता सूत्रकृता