भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2257, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2257

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ चतुर्थोऽध्यायः । प्रथमः पादः । समन्वयेनाविरोधात् साधनैर्ब्रह्मविद् यदि । तस्याग्रिमव्यवस्था या सा चतुर्थे विविच्यते ॥ १ ॥ जीवतो म्रियमाणस्य गच्छतः सफलस्य च । भाष्यप्रकाशः । अथ चतुर्थाध्यायं विवरिषवो यथा पूर्वाध्यायत्रयारम्भे कारिकाभिरध्यायार्थः पादार्थश्च सङ्गृहीतः, तथात्राध्यायार्थं पादार्थांश्च सङ्गृह्णानाः पूर्वाध्यायसङ्गतिं निरूपणप्रकारं च बोधयितुं पूर्वाध्यायार्थान् स्मारयन्तः प्रस्तुताध्यायार्थं सार्धेनाहुः समन्वयेनेत्यादि । श्रुतीनां पर- स्पराविरोधाद् यो ब्रह्मणि सम्यगबाधितोन्वयः सम्यग्बोध

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2257, कुल 2600 में से · BharatKosha