अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2258, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण है:
२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० १ अ० १ सू० १. अतो ब्रह्मविदा कार्यमेवमेव, न चान्यथा ॥ २ ॥ तामसीं बुद्धिमश्रित्य ये मूढाः सर्वविप्लवम् । वदन्ति शास्त्रनाशाय सद्भिः शोच्याश्च येऽनु तान् ॥ ३ ॥ भाष्यप्रकाशः । प्रकाश्यते । तथा च यथा समन्वयाविरोधाभ्यामुपनिषद्वाक्यानामामास्त्वनिराकरणेन तेषां ब्रह्म- ण्येव प्रमाणत्वम्, तेषु च ब्रह्मण एव प्रमेयत्वं व्यक्तीकृतम्, यथा च श्रुतीनां बोधकताप्राकारनि- रूपणेनोपासनात्मकसाधनप्रकारनिर्णयाद् ब्रह्मवित्त्वं व्यक्तीकृतम्, तथात्रोपासनादिसाधनवतो ब्रह्मविदोऽवस्थानिरूपणात् क्रमेण साक्षाच्च प्राप्यस्य ब्रह्मणः फलत्वमुपपत्तिपूर्वकं निरूप्यत इत्यर्थं निरूपणप्रकारः, कार्यकारणभावोऽवसरश्च सङ्गतिरित्यर्थः ॥ १ ॥ पूर्वाध्याये यावज्जीवं ज्ञानानुकूलसाधनानुष्ठानरूपं जीवतो ब्रह्मविदः कार्यं निरूपितमिति पुनरत्र तत्कथनस्य किं प्रयोजनमित्याकाङ्क्षायामाहुः अत इत्यादि । यतोऽयं सिद्धसाधनः, न तु प्राप्तफलः, अत ईदृशेन प्रथमपादोक्तरीत्यैव कार्यम्, न तु तूष्णीं स्थेयम् । ‘तत्वेव भयं विदुषोऽमन्वानसे’ति प्रतिबन्धबोधकश्रुतेः । अतः सिद्धज्ञानस्याप्येतत्कर्तव्यताबोधनमेव प्रयोजनमित्यर्थः ॥ २ ॥ नन्वत्रान्ये ‘किं प्रजया करिष्याम’ इति श्रुत्या ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यत’ इति गीतास्मृत्या च ब्रह्मविदः कार्यमात्रनिषेध- मङ्गीकुर्वन्ति, तत्कथमत्र ब्रह्मविदः कार्यकरणशिक्षेत्याशङ्कायां तन्मतं दूषयितुमाहुः तामसी- मित्यादि । ‘अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी’ इति गीतोक्तलक्ष्णका सर्वार्थवैपरीत्यबोधिका भ्रान्ता बुद्धिस्तामसी । तामाश्रित्य ये मूढा वैयासशास्त्रनाशाय सर्वविप्लवं सगुणब्रह्मविद्याविषयस्य ब्रह्मस्वरूपस्य वेदोक्तसाधन- गुरूपदेशप्रभृतीनां मायिकत्वादिरूपं वदन्ति, ये च ताननु तदनुसारिणस्ते सद्भिः शोच्याः पूर्वोक्तश्रुतिस्मृत्युक्तस्य कार्यकरणनिषेधस्य बहिरङ्गसाधनविषयतयान्तरङ्गतद्विषयत्वाभावादबोध- रश्मिः । म्रियमाणस्य फलादिकानाम्, तृतीये क्रममुक्तिः फलं तदादिकानाम्, तुरीये पुष्टिमर्यादाभेदेन फलं तदादिकानां निष्कर्षणेत्यर्थः । समन्वयेति । प्रथमाध्यायस्यार्थः समन्वयः, अविरोधो द्वितीया- ध्यायार्थः ताभ्याम् । अत्रेति । तुरीयेऽध्याये । तृतीयाध्यायोक्तोपासनादिसाधनवतः । अवसर इति । शाब्दापरोक्षे भूयसामुपनिषद्भागानां तृतीयाध्यायसङ्गृहीतानां सन्दिग्धानां च साधननिरूपकाणां वैय्यर्थ्यप्रसङ्गात् प्रतिबन्धकीभूतसाधनजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वमग्रिमावस्थाया इति पूर्वपाद- योरस्य चावसर इत्यर्थः । साधनफलयोः कार्यकारणभावः सङ्गतिः स्पष्टा ॥ १ ॥ निरूपितमिति । सफलोपासनानां सफलभक्तीनां च निरूपणात्निरूपितम् । अयमिति । ब्रह्मवित् । तत्वेवेति । तत् वा इव विदुषोऽमन्वानस्य भयमित्युक्त्या युक्तिभिरनुचिन्तनस्य मननत्वेन यदि साधनाध्यायेन ब्रह्मविदेव फली स्यात् फलाध्यायं न वदेदित्यादियुक्तिभिरनुचिन्तनस्य तत्वावेव मन्वानस्य भयं प्रतिबन्धकम् । ‘उद्वेगः प्रतिबन्धो वा भोगो वा स्यातु बाधक’मिति मयूरूपप्रतिबन्धकश्रुतेः । सिद्धज्ञानस्य साधकस्यैतत्कर्त- व्यताबोधनं फलाध्यायोक्तकर्तव्यताबोधनम् ॥ २ ॥ मायिकत्वादीति । आदिना सगुणं कार्यं स्वतन्त्रत्वानि । शोच्यत्वमाहुः पूर्वोक्तेति । अव्यवहितपूर्वाशङ्कान्योक्तश्रुतिस्मृत्युक्तस्येत्यर्थः । कार्य- करणेति । कार्यकार्तृकिनिषेधस्य । अन्तरङ्गसाधनविषयत्वाभावाय ‘यस्त्वात्मरति’ श्लोकोत्तरश्लोकमाहुः 2120