अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2259, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६ ब्रह्मविद्गमनाभावः शतांशेनापि चेद् भवेत् । शास्त्रमेतद् वृथा जातं सर्वसूत्रविनाशतः ॥ ४ ॥ स्वाप्ययस्य च सम्पत्तेरत्र ब्रह्मगतिश्रुती । भाष्यप्रकाशः। ग्रस्ता इत्यतः शोकविषयीकार्या एव, न तूपादेयवाक्याः । गीतायां 'यस्त्वात्मरति'रित्यादि- वाक्यानन्तरं, 'तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन् कर्म परमाप्नोति पूरुष' इति तथा कर्मकरणावश्यकत्वकथनात् । अतः शिक्षाकथनमेवात्र युक्तम्, न तु साधननिरूपणस्य प्रासङ्गिकत्वकथनम् । साधनसिद्धयनन्तरमपि कर्तव्यतया फलविषयकपरोक्षानुभवरूपतया चावा- न्तरफलरूपत्वादित्यर्थः ॥ ३ ॥ नन्विदम्प्रयोजकम्, 'तस्य तावदेव चिर'मिति श्रुतेर्ब्रह्मज्ञानोत्तरं सद्योमुक्तेरेव श्रावणात्, अतो ब्रह्मविदो न किञ्चित् कार्यम्, यत्पुनरत्रोक्तम्, तत्तु जघन्याधिकारिणां सगुणविद्यावतां फलसिद्धयर्थम्, अत एवाग्रे द्वितीयतृतीययोरुत्क्रान्तिगमनादिविचारोपि युज्यते, तस्मान्नोक्तं साधीय इत्यत आहुः ब्रह्मविदित्यादि । परब्रह्मविदो गमनाभावोऽर्चिरादिना क्रममुक्ति- मार्गेण गमनस्य राहित्यं चेत्, शतांशेनापि प्रकारेण भवेत्, तदा एतत् तृतीयपादरूपं शास्त्रम्, सर्वेषां 'अर्चिरादि'सूत्रमारम्य, 'विशेषं च दर्शयती'त्यन्तानां सूत्राणां विनाशात्तोऽ- ब्रह्मप्राप्तिपरतया वैयर्थ्याद् वृथा जातम्, कार्यात्यये परप्राप्तेः साधनं विनापि सम्भवादिति॥४॥ नन्वत्र कोपपत्तिर्येनैषां सूत्रार्थानां परब्रह्मपरत्वं स्थाप्यत इत्यत आहुः स्वाप्ययस्येत्यादि । अत्र दहरविद्यारूपे ब्रह्मविद्व्रतिप्रकरणे स्वाप्ययस्य सुषुप्तेः सम्पत्तेर्ब्रह्मप्राप्तेश्च सम्बन्धिन्यौ ब्रह्म- गतिश्रुती, 'अथ या एता हृदयस्य नाड्य' इत्यारम्य, 'तेजसा हि तदा सम्पन्नो भवती'त्यन्ता, 'अथ यत्रैतदस्माच्छरीरादुत्क्रामती'त्यारम्य, 'शतं चैका च पुरुषस्य नाड्य' इति श्लोकान्ता च ब्रह्मणि गमनबोधिके श्रुती पूर्वं वर्तेते । अतो भगवदुपन्धस्ते प्रजापतिवाक्येपि ते आदर्तव्ये । रश्मिः । गीतायामिति । शिक्षेति । कार्यकरणशिक्षाकथनम् । साधनेति । तृतीयाध्याये । प्रासङ्गिकत्वं शाब्दापरोक्षोपपादने साधनानां स्मृतत्वात् । कर्तव्यतयेति । 'साधनानामसिद्धवदावृत्तिः कर्तव्ये'ति सुबोधिन्याम् । फलेति । परोक्षानुभवः शाब्दानुभवः । अवान्तरेति । शाब्दापरोक्षं परमफलम् ॥३॥ अन्नोक्तमिति । पूर्वकारिकयोरुक्तम् । द्वितीयेति । अध्याययोः। 'उत्क्रान्तिगत्यागती'त्यादिसूत्रैर्द्वितीये । 'तदन्तरप्रतिपत्तौ रंहती'त्यादिभिस्तृतीये च विचारोपि युज्यते । परेति । गौणमुख्यन्यायेनोक्तम् । ब्रह्मविदोपि बोध्यम् ॥ ४ ॥ एतेषामिति । तृतीयपादस्थानाम् । परब्रह्मेति । अधोक्षजपरब्रह्म- रूपफलपरत्वम् । अत्रेति । व्याख्येयम् । फलाध्याये दहरविद्यारूपे ब्रह्मविद्वृत्ति- प्रकरणे इति व्याख्यानम् । ब्रह्मविदिति । 'यच्चास्येहास्ति यच्च नास्ति सर्वं तद्- स्मिन्समाहित'मिति श्रुतौ नास्ति यत्तत्सापि समाहित्युक्तेः कतिपयगुणैरधोक्षजपरब्रह्मविदि । प्रजापतीति । प्रजापतेर्वाक्यं प्रजापतिवाक्यम् । 'एतद्ध स्म वैतत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्याम' इत्यादिशारीरब्राह्मणे तस्मिन् । अत्र ब्राह्मणा इत्यत्र ब्राह्मणः प्रजापतिः । गोपालतापनीये 'तद्धोवाच ब्राह्मण' इति श्रुतौ पर्यायतादर्शनात् । 2121