भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2262, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2262

६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० १ सू० १. आलम्बनार्थं तत्रापि ब्रह्मदृष्टिर्विशिष्यते । आदित्यादिब्रह्मदृष्टेरङ्गत्वं न स्वतन्त्रता ॥ १० ॥ मनने च निदिध्यासे विशेषश्चोच्यतेऽधुना । आसनादिषडङ्गैस्तु चित्तं श्रौतार्थ एव हि ॥ ११ ॥ भाष्यप्रकाशः । त्वेनोच्यमाने विषयेऽपि, ब्रह्मदृष्टिर्विशिष्यते विशेषबोधिका भवति। सापि तदीयं कार्यम् ॥९।३॥ तृतीयाधिकरणार्थमाहुः आदित्येत्यादि । स्पष्टम् । मनने चेत्यादि । अधुना आदि- त्यादिमत्या आदित्याद्युपासनेन आदित्यादिभिः फलदानद्वारा माहात्म्यप्रतिपादनेन भक्तिद्वारा मनने, निदिध्यासे, भावे घञ्, निदिध्यासने च विशेषो भगवतो बहिरन्तःप्राकट्यरूप- श्चोच्यते । तेन फलस्यापाततोऽनुभवप्रकारो मनननिदिध्यासनरूपं तृतीयं कार्यम् । तेन फलमाहुः आसनादीति । आसनं भगवतो बहिःप्रकटस्य उपवेशनम् । आदिपदेनान्तरुपवेशनं लीलाप्राकट्यं च, तेषां यानि षडङ्गानि श्रवणाद्यावृत्तिः, आत्माभेददृष्टिः, तथा ग्रहणम्, अप्रतीकोपासनम्, सर्वत्र ब्रह्मदृष्टिः, आदित्यादिष्वङ्गबुद्धिश्च, तैश्चित्तं श्रौतार्थे भगवति रश्मिः । अन्यैरिति व्याख्यानम् । विशेषेति । ब्रह्मोत्युपास्ते सर्वत्रब्रह्मदृष्टिरधिकारिणि विशेषस्योत्कर्षस्य बोधिका भवति । सापीति । ब्रह्मदृष्टिरपि । तदीयं विद्दुज्जीवीयम् । स्पष्टमिति । मधुब्राह्मणे 'य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्त' इति श्रुत्युक्ताया आदित्यादिषु ब्रह्मदृष्टेः । अङ्गत्वमिति । नत्वादित्यो ब्रह्माङ्गमिति न ब्रह्मेति । स्वतन्त्रतेति । ब्रह्मवत् स्वतन्त्रता । कर्तृत्वम्

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2262, कुल 2600 में से · BharatKosha