भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2263, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2263

धारयेदामृतेरेवं ततः सिद्धिमवाप्स्यति । धर्माधर्मभयं तस्य नास्त्येवेति विनिश्चयः ॥ १२ ॥ अग्निहोत्रादिकं कार्यं सन्न्यासः फल एव हि । षोढा चेत् पुरुषो व्यक्तः प्रारब्धान्ते फलं भवेत् ॥ १३ ॥ एतावान् प्रथमे पादे निर्णयः सूत्रकृत्कृतः । द्वितीये म्रियमाणस्य सर्वेन्द्रियलयः पुरा ॥ १४ ॥ लिङ्गस्यापि शरीरस्य नाद्योत्क्रान्तिरिहोच्यते । विनायनकृतो नास्य विशेषोऽस्तीति बोध्यते ॥ १५ ॥ तृतीये क्रममुक्तौ यो मार्गो यस्य श्रुतेर्मतः । तल्लिङ्गाद्यो¹रन्यमार्गीयाणामप्राप्यत्वं च वर्ण्यते ॥ १६ ॥ गन्तव्यं च परं ब्रह्म कार्यो लोकस्तु नेति च । तुरीये पुष्टिमर्यादाभेदेन फलमुच्यते ॥ १७ ॥ प्रभोरेव फलत्वं तन्निर्दोषत्वं च वर्ण्यते । लीलानित्यत्वतः पूर्णगुणत्वं च ततोऽखिलम् ॥ १८ ॥ भाष्यप्रकाशः । धारयेत् । तदपि, आमृतेः, मननमारभ्य, एवं उक्तप्रकारेण, ततः तदुत्तरम्, सिद्धिं भग- वदासनादिसम्पादकोत्कटस्नेहसम्भाररूपामवाप्स्यति । एवं आप्रायणसूत्रान्तस्यार्थ उक्तः । तदधिगमादिसूत्रार्थमाहुः धर्मेत्यादि । अग्निहोत्रादिसूत्रार्थमाहुः अग्निहोत्रेत्यादि । फल इति । फलनान्तरीयकदशायाम् । तदावश्यकत्वाय फलप्राप्तिप्रकारमाहुः षोढेत्यादि । प्रथमपदार्थ- मुक्तोपसंहरन्ति एतावानित्यादि ॥ १३ । १ ॥ द्वितीयस्याहुः द्वितीय इत्यादि । सर्वेन्द्रियलय इति । पुष्टिमार्गीयस्य भगवति, मर्यादामार्गीयस्य भूतेषु । इहेति । जघन्याधिकारिणि उत्क्रान्तिरित्यर्थः । तृतीयस्याहुः । तृतीय इत्यादि । यस्येति । अधिकारिणः । अन्यमार्गाणामिति । अन्ये मार्गा उपाया येषां ते तथा, तेषाम् ॥ १६ । १ ॥ रश्मिः । आदित्यादिष्विति । उक्तप्रकारेणेति । षडङ्गैः । भगवदासनादीति । आदिना ध्यानाच्चेत्यादि- सूत्रोक्तम् । अनेन 'स्मरन्ति चे'ति सूत्रार्थ उक्तः । यत्रैकाग्रतासूत्रार्थः पूर्वशेषः । अनुव्यवसाय- निर्णायकाप्रायणसूत्रार्थोपि पूर्वशेषः । आप्रायणेति । भाष्यस्य । धर्मेत्यादीति । तत्रैव स्पष्टम् । अग्नि- होत्रादीति । ननु इतरस्याप्येवमित्यादिसूत्रद्वयस्य कावार्थाविति चेत् । न । सूत्रद्वयार्थयोः पूर्वशेषत्वेन तदधिगमादिसूत्रार्थमित्यत्रादिपदार्थत्वात् तदधिगमादिसूत्राणामर्थमिति षष्ठीतत्पुरुषात् । फलनान्त- रीयकेति । फलदशायामित्युक्ते भोगेन त्वितरे इति सूत्रे सन्न्यासः फलयाक्षेप्तव्यः तद्वदात्मेति तूप- गच्छन्तीत्यत्रामुष्येपि स्यादतो नान्तरीयकेति दशाविशेषणम् । न अन्तरीयेके मध्ये भवा दशा नान्त- रीयकदशा, फलस्य नान्तरीयकदशा फलनान्तरीयकदशा तस्याम् । तदावश्यकत्वेति । सन्न्यासावश्य- कत्वाय । षोढेत्यादीति । उक्तैः षडङ्गैः । प्रारब्धान्त इति । भोगेन त्वितरे इति सूत्रे स्फुटम् ॥ १३ ॥ द्वितीयस्येति । पादस्यार्थमाहुः । जघन्याधिकारिणीति । जघन्यानामधिकारोऽसाक्षीत्य- १. मार्गाणामिति प्रकाशकाराभिमतः पाठः ।

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2263, कुल 2600 में से · BharatKosha