अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2264, कुल 2600 में से
संदर्भ में पढ़ें४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० १ अ० १ सू० १. अस्य फलप्रकरणत्वेपि साधनरूपस्यापि श्रवणस्यान्तरङ्गत्वं ज्ञापयितुं तन्निर्द्धारमप्याह । आवृत्तिरसकृदुपदेशात् ॥ १ ॥ (४-१-१) 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यादि- वाक्यैर्विहितं श्रवणादिकं किं सकृदेव कर्तव्यम्, उतासकृदिति भवति संशयः । किं तावत् प्राप्तम्, सकृदेवेति । तावतैव शास्त्रार्थस्य सम्पत्तेः । नच तण्डुल- निष्पत्तिफलकावघातस्येव दर्शनफलकानां श्रवणादीनां तत्सिद्धिपर्यन्तमावृत्ति- र्न्यायप्राप्तेति वाच्यम् । अवघातस्य वितुषीकरणात्मकदृष्टद्वारत्वेन तथात्व- मस्त्व नाम, प्रकृते त्वदृष्टद्वारत्वात् सकृत्कृतेनैवादृष्टद्वारा फलसम्पादनसम्भवा- दावृत्तिरप्रयोजिकेति प्राप्ते, उच्यते । आवृत्तिरेव श्रवणादीनां श्रुत्यभिमता । कुतः ? असकृदुपदेशात् । छान्दोग्ये श्वेतकेतूपाख्यान 'ऐतदात्म्यमिदꣳसर्वम्, भाष्यप्रकाशः । तुरीयार्थमाहुः तुरीय इत्यादि । सामान्यत उक्त्वा तत्र विशेषमाहुः प्रभोरित्यादि । अत्र प्रभोः फलत्वं 'आत्मा प्रकरणा'दित्यादिसूत्रद्वये, तत्सिद्धौषधत्वं च 'तद्भावे सांख्य'दित्यादि- सूत्रद्वये, शेषं 'जगद्व्यापारवर्ज'दिक्सूत्रेषु । ततोखिलमिति । ततः तादृशनिरूपणाद्धेतोः । अखिलं लीलाविशिष्टं स्वरूपं फलमित्यर्थः ॥ १८ ॥ एवं पादार्थनिरूपणमुखेनाध्याय्यार्थं निरूप्य सूत्राणि व्याचिकीर्षवन्तोत्र फलप्रकरणे साधन- निरूपणस्य किं प्रयोजनमित्याकाङ्क्षायां तत्प्रयोजनं वक्तुं सूत्रमवतारयन्ति अस्येत्यादि । अन्तर- ङ्गत्वमिति । फलपूर्वकथारूपतया फलमध्यपातित्वेन तदुपकारकत्वम् ॥ आवृत्तिरसकृदुपदेशात् ॥ १ ॥ अस्याधिकरणत्वाय विषयादिकमाहुः आत्मेत्यादि । इति प्राप्त इति । द्वारविचारेणावृत्त्यानर्थक्ये प्राप्ते । हेतुं व्याकुर्वन्ति छान्दोग्य इत्यादि । रश्मिः । विकारि योनिशरीरादि तस्मिन् । भाष्ये । लिङ्गस्येति । नाज्येति । तदोकोप्रज्वलनसूत्रादिषु । अस्येति । विदुषः । तथेति । अन्यमार्गीस्तेषाम् । शेषमिति । भोगे लौकिकव्यापारयुतत्त्वाभावादि । अध्या- यार्थमिति । अनावृत्तिःफलमध्यायार्थः उपक्रमापेक्षयोपसंहारस्य 'अनावृत्तिः शब्दादनावृत्तिः शब्दा'दिति- सूत्रीयसाक्षात्कारविरोधिस्वात् । अनावृत्तत्वेन फलं गृह्यते । तच्च सपरिकरं बोध्यम् । तेन साधनादि- निरूपणे नाव्याप्तिः ॥ १८ ॥ फलप्रकरण इति । देशकालौ प्रकरणम्, निबन्धे स्पष्टम् । तथा च देशकालयो- रित्यर्थः । तत्प्रयोजनमिति । साधननिरूपणस्य प्रयोजनं फलसाधनयोरेकीकारः तस्यापि प्रयोजनं 'स्वयमेवात्मनात्मान'मिति वाक्यानुकूलत्वम् । फलपूर्वेति । स्वरूपस्य साधनत्वेनाङ्गीकारात् तथा । अत्र भूमत्वेनैक्येपि सर्वात्मभावस्य दानसाध्यत्वाद्विलम्बोपस्थितिकत्वादप्रसिद्धत्वाच्च, ज्ञानमात्रं परं प्रकृष्टज्ञानशक्तिरूपं साधनं तदनातिरिक्तत्वेन श्रवणं गृहीतम्, तच्च न श्रोत्रेण शब्दसाक्षात्कार- रूपम् । जगत्साधारणत्वात् । किन्तु भगवद्वाचकपदवाक्यानां भगवति शक्तितात्पर्यनिश्चयरूपम् । भक्तिहंसटीकायां स्पष्टीकृतम् । फलमध्येति । यद्यपि सर्वात्मभावः फलमध्यपाती भूमत्वात्तथापि ज्ञानकाण्डे श्रवणरूपं ज्ञानं फलमध्यपाति । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इति श्रुतौ दर्शनरूप- ज्ञानसाधनज्ञानत्वेन ज्ञानत्वेनैक्यात्, ज्ञानं फलं साधनं च । तदुपकारकत्वं फलाविर्भावकत्वम् । आवृत्तिरसकृदुपदेशात् ॥ १ ॥ द्वारेति । दृष्टादृष्टद्वारविचारेण । स्यादिति । पुरुषार्थ- 2126