भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2265, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2265

तत्सत्यम्, स आत्मा तत्त्वमसि श्वेतकेतो' इतिवाक्येन जडजीवयोर्ब्रह्मात्मकत्वं नवकृत्व उपदिष्टवान्। तथा च सकृदुपदेशेनेव चेदर्थसिद्धिः स्यात्, तदैकमेवार्थ- मेकस्मै एकदावेवासकृन्नोपविशेत् । प्रयोजनाभावात् । एतेनावघातवदन्तःकरण- दोषनिवर्तनं दृष्टं द्वारमन्येषामुपदेशानाम्, चरमस्य तस्य ज्ञानसाधकत्वमिति मन्तव्यम् ॥ १ ॥ अत्रैव हेत्वन्तरमाह । लिङ्गाच्च ॥ २ ॥ श्रुत्यनुमापकत्वेने स्मृतिर्लिङ्गमित्युच्यते । सा च, "यथा यथात्मा परि- मृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति तत्त्वसूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम्' इत्यादिरूपा, तदावृत्तिमेव फलसाधकत्वेनाह । अत्र दृष्टान्तेनापि दृष्टद्वारकत्वं श्रवणादीनां सूच्यते । 'आत्मा वाअरे द्रष्टव्य' इतिपदेन भाष्यप्रकाशः। अर्थसिद्धिः स्यादिति । अदृष्टद्वारा स्यात् । अवघातवदिति । सप्तम्यर्थे वतिः । तेन तत्र यथा वैतुष्यमेवमत्रान्तःकरणदोषनिवर्तनम्, अतो नादृष्टमत्र द्वारम्, किन्तु दृष्टमेवात आवृत्तिरा- वश्यकी । तत्र यथान्येषामवघातानां वैतुष्यजनकत्वम्, चरमावघातस्य तण्डुलनिष्पादकत्वम्, एवम- न्येषामुपदेशानामन्तःकरणदोषनिवर्तनम्, चरमस्योपदेशस्य तु मनसा साक्षात्कारे जनयितव्ये तत्सहकारितया ज्ञानसाधकत्वम् । शब्दादपरोक्षमितिवादस्य प्रागेव निरस्तत्वात् । न च चरमोपदेशस्य करणत्वमेवास्त्विति शङ्क्यम् । तथा सति प्रत्यक्षसामग्रीनैर्बल्येपि तत् स्यात् । तथा सत्यसकृदुपदेशो मननादिविधयश्च मुधैव स्युः । सामग्रीप्राबल्यार्थमेव तदुपयोगात् । प्रबलायां च तस्यां शब्दस्य सहकारित्वमेव । लोके तथा दर्शनादिति । तस्मादावृत्तिरावश्यक्येवेत्यर्थः ॥ १ ॥ लिङ्गाच्च ॥ २ ॥ सूत्रमवतारयन्ति अत्रैवेत्यादि । अत्रैवेति । आवृत्तावेव । किं लिङ्गमित्यपेक्षायां व्याकुर्वन्ति श्रुतीत्यादि । स्मृताव आत्मपदमन्तःकरणपरम् । दृष्टान्तेनेति । रश्मिः । सिद्धिः स्यात् । भाष्ये । अर्थमुपदेशरूपम् । एकस्मै श्वेतकेतवे । एकदा एककाले । प्रकृते । तत्रेति । अवघाते । अत्रेति । श्रवणे । प्रागेवेति । ..........। तत्स्यादिति । शाब्दापरोक्षं स्यात् । मननादीति । आदिना निदिध्यासनं 'मनसैवानुद्रष्टव्य'मिति च । तदुपति । तेषाम- सकृदुपदेशादीनामुपयोगात् । तस्यामिति । प्रत्यक्षसामग्र्याम् । शब्दस्य उपदेशस्य । लोक इति । 'दशमस्त्वमसी'त्यादौ । लिङ्गाच्च ॥ २ ॥ श्रुतीत्यादीति । आहेति । व्यञ्जनायाहेत्यर्थः । यथा यथेत्यत्र वीप्सा । अत्र व्यञ्जना, तयार्थः आवृत्तिरूपः प्रतीयते । दृष्टान्तेनेति । अत्र चक्षुषोञ्जनपरिमृष्टता दृष्टं द्वारम् । दृष्टद्वारकत्वमिति । आत्मपरिमृष्टता दृष्टं द्वारम् । एतावत्पर्यन्तमयमशुद्धान्तःकरणः, अधुना श्रवणा- भिधानैः शुद्धान्तःकरण इति प्रतीतेः । एवं च दृष्टं द्वारमनुमितं द्वारम् । यद्वा । योगिभिर्दृष्टं 'अनागत- १ अत्राक्षररहितपङ्क्तिदर्शनान्नेक्यमवशिष्टं दृश्यते तेन तृतीयाध्यायचतुर्थपादस्य द्वादशे सूत्रे शाब्दपरोक्षज्ञानस्य प्रत्यक्षान्नत्वाभावादित्यादिभावोत्रापि ग्रन्थकृदभिमतो भवेदित्यभियूयम् । १ भ० सू० २० 2127