अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2268, कुल 2600 में से
संदर्भ में पढ़ेंAn accurate, line-by-line transcription of the provided Sanskrit text into Markdown in Unicode Devanagari:
१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० १ सू० २. वृत्तिः पुनर्जन्म फलं तदपि असकृत् । इदं पदमावृत्त्योभयत्रापि सम्बध्यते । तथा चात्र प्रमाणापेक्षायां तदाह हेतुत्वेन असकृदुपदेशादिति । श्रुतौ कर्ममार्गे पुनर्जन्मासकृदुपदिश्यते यतः । अन्यथा सकृदुपदेशेनैव तदवगमेप्यसकृदुपदेशो व्यर्थः स्यात्, अतस्तथेत्यर्थः । वाजसनेयिशाखायां पठ्यते, 'एवमेवायꣵ शारीर आत्मेभ्योङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैवे'ति तत्रैव पुन'स्तेन प्रद्योतेनैष आत्मा निष्क्रामती'त्युपक्रम्य, पठ्यते 'तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चे'ति । तत्रैवैतदनुपदमेव 'तद्यथा तृणजलायुके'त्युपक्रम्य, पठ