अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2269, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १३ अत्र हेत्वन्तरमाह लिङ्गाच्च । वेदानुमापकत्वेन स्मृतिर्लिङ्गमित्युच्यते । सा च भगवद्गीतासु 'त्रैविद्या मां'मित्युपक्रम्य पठ्यते 'एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्त' इति । 'आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुने'ति च । अथवा 'यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेने'ति श्रुतिर्वर्तमानजन्म- कर्मणोः पूर्वजन्मसम्वन्धिकर्मानुमापकत्वं वदतीति कर्मिणः पुनर्जन्मावश्यकमिति ज्ञायते । एवं सति लिङ्गत्वेन निरूपणादित्यर्थः सम्पद्यते । निवृत्तिमार्गीयस्यापि तस्य ज्ञानोपकर्तृत्वमात्रम् , न तु जन्मनिवर्तकत्वम् , मानाभावात् ॥ २ ॥ इति चतुर्थाध्याये प्रथमपादे प्रथममावृत्त्यधिकरणम् ॥ १ ॥ एवं कर्मफलं विचार्य ज्ञानफलं विचारयति । आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥ ( ४।१।२ ) पूर्वार्थनिरूपणव्यवच्छेदाय तुशब्दः । ज्ञानिनो हि भगवन्तमात्मत्वेने- भाष्यप्रकाशः। लिङ्गाच्च ॥ २ ॥ लिङ्गपदस्य स्मृतौ प्रयोगप्राचुर्याभावाच्चेदं युक्तमित्यतः पक्षान्तरेण व्याकुर्वन्ति अथेत्यादि । 'यथाकारी'त्यारभ्य 'पापो भवती'त्यन्तेन पूर्वकृतकर्मणः फलमुक्त्वा 'पुण्यः पुण्येने'त्यादि यद् वदति, तदेतज्जन्मीनकर्मणः पूर्वकर्मानुमापकत्वायैव वदति । अन्यथा पुनरुक्तं स्यादतस्तथेत्यर्थः । सूत्रार्थमाहुः एवं सतीत्यादि । ननु तर्हि निवृत्तस्य कर्मणोपि तथा- त्वापातो 'निवृत्तं कर्म सेवेते'त्याद्यनुज्ञावैय्यर्थ्यं च स्यादित्यत आहुः निवृत्तीत्यादि । तथा चाङ्ग- त्वदशायां तस्य प्रधानोपकारातिरिक्तफलाभावात् प्रधानेन ज्ञानेनैव जन्मनिवृत्तेर्न तद्वैय्यर्थ्य- मित्यर्थः । अस्मिन् पक्ष इदं सूत्रद्वयं नाधिकरणरूपमिति बोध्यम् । अन्ये त्वत्र पूर्ववर्णकोक्त- रीत्या जघन्याधिकारिणः श्रवणादिप्रत्ययावृत्तिमात्रं साधयन्ति । अस्य साधनाश्रयविचारस्यात्र प्रवर्त्तने बीजं तु न किञ्चिदपि वदन्तीति तच्चिन्त्यम् ॥२॥ इति प्रथममावृत्त्यधिकरणम् ॥१॥ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥ सूत्रमवतार्य व्याकुर्वन्ति पूर्वेत्यादि । नन्वात्मशब्दः सन्मात्रादिप्रत्यग्रसान्तद्वादशलक्षणविशिष्टवस्तुबोधकः । इतिशब्दः प्रकारवाची । तस्य च विस्मृतकण्ठमणिज्ञानवज्ज्ञानं मोक्षसाधनमित्येवार्थोऽत्राङ्गीकार्यः । यत उपगच्छतीत्यस्य ज्ञानार्थतैव प्रसिद्धेति साधनाश्रय एवात्र विचारः प्रतीयते इति कथमस्य फलाश्रयत्वमित्यतस्त- दुपपादयन्ति ज्ञानिनो हीत्यादि । ज्ञानिनो ज्ञानमार्गीयाः, ते हि 'आत्मेत्येवोपासीत' 'स रश्मिः । लिङ्गाच्च ॥२॥ नेदमिति । 'लिङ्गं स्मृति'रितिव्याख्यानं न । तथेति । कर्मिणः पुनर्जन्मावश्यक- मिति ज्ञायत इत्यर्थः । एवं सतीत्यादीति । एवं सति पुनरुक्त्यभावाय एतज्जन्मीनकर्मणः पूर्वकर्मानुमाप- कत्वे सिद्धे सति । आवृत्तौ श्रुतेर्लिङ्गत्वेन हेतुत्वेन प्रमाणत्वेन निरूपणात् । अत्रावृत्तौ श्रुतिलिङ्गादिति हेतुः । भाष्ये तु सूत्रार्थ उक्तः । एतज्जन्मीनकर्मणः पूर्वकर्मानुमापकत्वं वैद्यके तु कर्मविपाके स्पष्टम् । तथात्वेति । आवृत्तिसाधकत्वापातः । निवृत्तं कर्म मोक्षसाधकं हिरण्यगर्भस्य । इत्यादीति । आदिना 'किं प्रजया करिष्यामः' इति श्रुतिः । तस्येति । कर्मणः । तद्वैय्यर्थ्यमिति । प्रधानाङ्गं कर्म निवृत्तं तस्य वैय्यर्थ्यम् । नाधीति । संशयाद्यभावात्तथा । श्रवणावृत्तौ । प्रत्ययो ज्ञानम् । साधनेति । साधनं श्रवणाद्याश्रयतीति एरच् साधनाश्रयः । तस्य ॥२॥ इति प्रथममावृत्त्यधिकरणम् ॥१॥ 2131