भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2273, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2273

यहाँ पृष्ठ का मूलपाठ दिया जा रहा है:

जग्धमौषधमपि गौरवाय भवति, तेन न तन्निवृत्तिर्वा । व्याप्यात्मकस्वभावमपि विषमशीविषं तदपगमपटुतरनिगमसङ्गमो नापगमयति वा । तथा भगवदर्पितं तदर्थं च कृतं कर्म न कर्मनाशाय भवतीति न वक्तुं शक्यम् । 'कर्ममोक्षाय


भाष्यप्रकाशः। तुशब्द इत्यादि । प्रापयतीत्यन्तम् । सत्यमुक्तमिति । 'यतो वाच' इत्यादिना, किञ्चेत्या- दिना च यदुक्तम्, तत्सत्यमुक्तम् । आत्मत्वेनेति । शरीरभूतस्यात्मनो नियामकत्वेन । तस्येति । आत्मनः । तथा च कर्मस्वभाववदात्मस्वभावस्यापि तथात्वात् स्वयमेव भगवान् स्वली- लानुसारेण ज्ञानप्रणाड्या भक्तिप्रणाड्या वा यथाधिकारं स्वात्मानं प्रापयतीति न ज्ञानभक्त्यात्म- प्राप्तीनां दौर्लभ्यमित्यर्थः । अत्र शङ्कते नन्वित्यादि । तथा चात्मकर्मणोरुभयोरपि स्वभावस्य तथात्वादन्यावृत्तिसावधिकत्वानवधिकत्वयोः संशय एव पर्यवस्यतीत्यर्थः । एतत् समाधातुं कर्मस्वभावातिक्रमप्रकारं व्युत्पादयन्ति । न हीत्यादि । तथा च यथा औषधयोर्द्रव्यत्वेन भक्ष्य- त्वेन च तौल्येपि तयोर्नैकस्वभावत्वम्, अपि तु स्वभावभेदः, यथा च निगमस्य विषादिस्वभाव- नाशकत्वेपि तत्कार्यप्रतिबन्धकत्वम्, तथात्र 'आत्मनि सर्वेन्द्रियाणी'त्यादिबोधितस्य भगवदर्- र्पितस्य तदर्थं कृतस्य च कर्मणः कर्मत्वे तुल्येपि स्वभावभेदो वा, भगवदर्पणादस्तत्स्वभावनिवर्त- कत्वं वेत्यदोषः । उक्तं च मार्कण्डेये रौच्यमन्वन्तरे 'अविद्याप्युपकाराय विषवज्जायते नृणाम् । अनुष्ठिताभ्युपायेन बन्धायन्या यतो हि सा' इति । अविद्येति विद्यामित्रं कर्म, भावरूपमज्ञानं चेत्युभयमपि सङ्गृह्यते । एतदेव श्रुतितात्पर्यमित्यत्र गमकमाहुः कर्मनाशायेत्यादि । एतदेका- दशस्कन्धे योगेश्वरवाक्यं 'परोक्षवादो वेदोयं बालानामनुशासनम् । कर्मनाशाय कर्माणि विधत्ते ह्यगदं यथे'ति । क्वचित्तु कर्ममोक्षायेतिपाठः, तदाप्यर्थतौल्यम् । आत्मस्वभावस्तु न नाशादि- शङ्का । 'अनुच्छित्तिधर्मे'ति श्रुतेः, 'सर्वस्य वशी'त्यादिश्रुतेश्च । ततोधिकबलस्यान्यस्याभावात् । रश्मिः। ह्यावृत्तिपरिणामकः । आत्मस्वभावः आवृत्तिप्रतिबन्धकोनावृत्तिपरिणामकः । तथात्वाद्नावृत्तिपरि- णामकत्वात् । प्रमेयबलमाहुः स्वयमेवेति । कर्मादीनामप्रतिबन्धकत्वायायमेव मार्गः । तथा चेति । उक्तपदं भावव्युत्पन्नं केन प्रकारेणेत्यत्र आहुः । दुरतीति । इतिप्रकारेण तन्नामप्रवेश उत्तरे सति चेत्यर्थः । तथात्वादिति । दुरतिक्रमत्वात् । संशय एवेति । अनावृत्तिसावधिकत्वे कर्मस्वभावो बीजम् । अनावृत्त्यनवधिकत्वे आत्मस्वभावो बीजमित्येवकारः । नैकेति । रसपरिणामहेतुत्वम् । स्वभावभेद इति । अन्नस्यापटुतरजग्धस्य रसपरिणामहेतुत्वम् । औषधस्य रसन्निवृत्तिपरिणामहेतुत्व- मिति स्वभावभेदः । निगमस्येति । वणिजसौषधिदानद्वारा । यद्वा । निगमस्याम्यस्तवेदस्य । तदुक्तं 'अनभ्यासाच्च वेदानां मृत्युर्विप्रान् जिघांसती'ति निबन्धे । तत्कार्येति । मरणप्रतिबन्धकत्वम् । अत्रेति । दार्ष्टान्तिके । 'आत्मनी'ति श्रुतिश्छान्दोग्यसमाप्तौ । तुल्य इति । अन्यकर्मणा तुल्ये । स्वभावभेद इति । भगवदर्पितस्येत्यादिकर्मणः कर्मनाशपरिणामहेतुत्वमन्यस्य कर्मण आवृत्तिपरि- णामहेतुत्वं स्वभाव इति स्वभावभेदः । तत्स्वभावेति । कर्मस्वभावनिवर्तकत्वम् । इत्यदोष इति । एवं कर्मस्वभावातिरिक्तप्रकारेण दुरतिक्रमकर्मस्वभावरूपो दोषो न । संगृह्यत इति । अन्यापि योजना । उपकाराय नाशे प्रतियोगित्वेनोपकाराय । विषवदिति । प्रथमान्ताद्वतिः । अनुष्ठि- तेनाभ्युपायेन कर्मनाशकज्ञानकर्मभ्याम् । अन्यानुष्ठिताभ्युपाययुक्तान्यावधिका बन्धाय मता यतः साऽविद्येत्यर्थः । अनुच्छित्तीति । न उच्छित्तिर्येषां ते अनुच्छित्तयः ते धर्मो यस्येत्यनुच्छित्तिधर्मा ३ ब्र० सू० २०