भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

यहाँ पृष्ठ का मूलपाठ दिया जा रहा है:

जग्धमौषधमपि गौरवाय भवति, तेन न तन्निवृत्तिर्वा । व्याप्यात्मकस्वभावमपि विषमशीविषं तदपगमपटुतरनिगमसङ्गमो नापगमयति वा । तथा भगवदर्पितं तदर्थं च कृतं कर्म न कर्मनाशाय भवतीति न वक्तुं शक्यम् । 'कर्ममोक्षाय


भाष्यप्रकाशः। तुशब्द इत्यादि । प्रापयतीत्यन्तम् । सत्यमुक्तमिति । 'यतो वाच' इत्यादिना, किञ्चेत्या- दिना च यदुक्तम्, तत्सत्यमुक्तम् । आत्मत्वेनेति । शरीरभूतस्यात्मनो नियामकत्वेन । तस्येति । आत्मनः । तथा च कर्मस्वभाववदात्मस्वभावस्यापि तथात्वात् स्वयमेव भगवान् स्वली- लानुसारेण ज्ञानप्रणाड्या भक्तिप्रणाड्या वा यथाधिकारं स्वात्मानं प्रापयतीति न ज्ञानभक्त्यात्म- प्राप्तीनां दौर्लभ्यमित्यर्थः । अत्र शङ्कते नन्वित्यादि । तथा चात्मकर्मणोरुभयोरपि स्वभावस्य तथात्वादन्यावृत्तिसावधिकत्वानवधिकत्वयोः संशय एव पर्यवस्यतीत्यर्थः । एतत् समाधातुं कर्मस्वभावातिक्रमप्रकारं व्युत्पादयन्ति । न हीत्यादि । तथा च यथा औषधयोर्द्रव्यत्वेन भक्ष्य- त्वेन च तौल्येपि तयोर्नैकस्वभावत्वम्, अपि तु स्वभावभेदः, यथा च निगमस्य विषादिस्वभाव- नाशकत्वेपि तत्कार्यप्रतिबन्धकत्वम्, तथात्र 'आत्मनि सर्वेन्द्रियाणी'त्यादिबोधितस्य भगवदर्- र्पितस्य तदर्थं कृतस्य च कर्मणः कर्मत्वे तुल्येपि स्वभावभेदो वा, भगवदर्पणादस्तत्स्वभावनिवर्त- कत्वं वेत्यदोषः । उक्तं च मार्कण्डेये रौच्यमन्वन्तरे 'अविद्याप्युपकाराय विषवज्जायते नृणाम् । अनुष्ठिताभ्युपायेन बन्धायन्या यतो हि सा' इति । अविद्येति विद्यामित्रं कर्म, भावरूपमज्ञानं चेत्युभयमपि सङ्गृह्यते । एतदेव श्रुतितात्पर्यमित्यत्र गमकमाहुः कर्मनाशायेत्यादि । एतदेका- दशस्कन्धे योगेश्वरवाक्यं 'परोक्षवादो वेदोयं बालानामनुशासनम् । कर्मनाशाय कर्माणि विधत्ते ह्यगदं यथे'ति । क्वचित्तु कर्ममोक्षायेतिपाठः, तदाप्यर्थतौल्यम् । आत्मस्वभावस्तु न नाशादि- शङ्का । 'अनुच्छित्तिधर्मे'ति श्रुतेः, 'सर्वस्य वशी'त्यादिश्रुतेश्च । ततोधिकबलस्यान्यस्याभावात् । रश्मिः। ह्यावृत्तिपरिणामकः । आत्मस्वभावः आवृत्तिप्रतिबन्धकोनावृत्तिपरिणामकः । तथात्वाद्नावृत्तिपरि- णामकत्वात् । प्रमेयबलमाहुः स्वयमेवेति । कर्मादीनामप्रतिबन्धकत्वायायमेव मार्गः । तथा चेति । उक्तपदं भावव्युत्पन्नं केन प्रकारेणेत्यत्र आहुः । दुरतीति । इतिप्रकारेण तन्नामप्रवेश उत्तरे सति चेत्यर्थः । तथात्वादिति । दुरतिक्रमत्वात् । संशय एवेति । अनावृत्तिसावधिकत्वे कर्मस्वभावो बीजम् । अनावृत्त्यनवधिकत्वे आत्मस्वभावो बीजमित्येवकारः । नैकेति । रसपरिणामहेतुत्वम् । स्वभावभेद इति । अन्नस्यापटुतरजग्धस्य रसपरिणामहेतुत्वम् । औषधस्य रसन्निवृत्तिपरिणामहेतुत्व- मिति स्वभावभेदः । निगमस्येति । वणिजसौषधिदानद्वारा । यद्वा । निगमस्याम्यस्तवेदस्य । तदुक्तं 'अनभ्यासाच्च वेदानां मृत्युर्विप्रान् जिघांसती'ति निबन्धे । तत्कार्येति । मरणप्रतिबन्धकत्वम् । अत्रेति । दार्ष्टान्तिके । 'आत्मनी'ति श्रुतिश्छान्दोग्यसमाप्तौ । तुल्य इति । अन्यकर्मणा तुल्ये । स्वभावभेद इति । भगवदर्पितस्येत्यादिकर्मणः कर्मनाशपरिणामहेतुत्वमन्यस्य कर्मण आवृत्तिपरि- णामहेतुत्वं स्वभाव इति स्वभावभेदः । तत्स्वभावेति । कर्मस्वभावनिवर्तकत्वम् । इत्यदोष इति । एवं कर्मस्वभावातिरिक्तप्रकारेण दुरतिक्रमकर्मस्वभावरूपो दोषो न । संगृह्यत इति । अन्यापि योजना । उपकाराय नाशे प्रतियोगित्वेनोपकाराय । विषवदिति । प्रथमान्ताद्वतिः । अनुष्ठि- तेनाभ्युपायेन कर्मनाशकज्ञानकर्मभ्याम् । अन्यानुष्ठिताभ्युपाययुक्तान्यावधिका बन्धाय मता यतः साऽविद्येत्यर्थः । अनुच्छित्तीति । न उच्छित्तिर्येषां ते अनुच्छित्तयः ते धर्मो यस्येत्यनुच्छित्तिधर्मा ३ ब्र० सू० २०

कर्माणि विधत्ते ह्यागदं यथे'ति वाक्यात् । अगृह्यत्वगृह्यत्वविरोधापहारस्तु जीवसामर्थ्येश्वरेच्छाभ्यां पुरैव कृत इति नाधिकमत्र निरूप्यम् । इतिशब्दो हेत्वर्थे । तथा च भगवानात्मा भवति सर्वेषां जीवानाम् । अतो हेतोरुक्तरीत्या तदनु- ग्रहेण तमुपगच्छन्ति । ज्ञानमार्गेऽङ्गीकृतास्त्वात्मत्वेनैव ज्ञानादुप समीप एव गच्छन्ति, उक्तरीत्याक्षरात्मके तत्रैव प्रविष्टा भवन्तीत्यर्थः । भक्तिमार्गेऽङ्गीकृतास्तु साक्षात् प्रकटे पुरुषोत्तमे सति तद्भजनार्थमुप समीपं गच्छन्तीत्यर्थः । भाष्यप्रकाशः । ननु विरुद्धधर्माधारत्वादधर्मा एव स्वभावबाधका भवन्त्वित्याशङ्क्य तेषामप्यबाधकत्वमाहुः अगृह्ये- त्यादि । एतेन ज्ञानादिदौर्बल्यमपि परिहृतम् । एवं बाधकं परिहृत्य सूत्रं व्याकुर्वन्ति । इति- शब्द इत्यादि । आत्मशब्दार्थस्तु सर्वान्तर्यामित्वादिरूपः पूर्वोक्त एव । एतावान् परं विशेषो यज्ज्ञानिनां प्रत्यग्रसत्वप्राधान्येन तत्स्फूर्तिर्भक्तानां तु सर्वात्मत्वपरमप्रियत्वानन्दप्राधान्येनेति । अत उक्तरीत्या यस्य मार्गस्य या रीतिः क्रमाक्रमादिना व्युत्पादिता, तया रीत्या तं प्राप्नुवन्ती- त्यर्थः । उपगमनं विभजन्ते । ज्ञानमार्ग इत्यादि । भजनार्थमुप समीपे गच्छन्तीति । रश्मिः । इति व्युत्पत्तिः । एतेनेति । विरुद्धधर्माधारत्वेन । परिहृतमिति । ईक्षतेर्नाशब्दमित्यत्र यावद्धर्म- वत्त्वेन ज्ञानस्नेहदौर्बल्यम् । बाधकमिति । आत्मोपगमने आत्मग्रहणे च बाधकमगृह्यत्वादिकम् । भाष्ये । पुरैवेति । उभयव्यपदेशाधिकरणे । प्रकृते । सर्वान्तरिति । सर्वान्तर्यामित्वादिर्यस्या व्यक्तेः सा सर्वान्तर्यामित्वादिः, जातिव्यक्तिभ्यां रूप्यत इति तथा । पूर्वोक्त इति । अत्रैव पूर्व- मन्तर्यामिब्राह्मणोपन्यासे 'नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मपोतानां यथा भक्तिमतामिहे'त्यनेनोक्तं तारतम्यं सर्वेषां जीवानामिति भाष्य आहुः एतावानिति । प्रत्यग्रसत्वं यद्यपि प्रतिदेहमात्मा तत्वं तथापि ज्ञानिनां ज्ञानकृते विशेषे प्रतीचो रसत्वं कारणदृष्ट्या शान्तरसत्वं तत्रा- धान्येनेत्युक्तम् । न तु प्रत्यगात्मत्वेन, 'मुक्तिर्हित्वान्यारूपं स्वरूपेण व्यवस्थिति'रितिवाक्यात् । प्रत्यग्रस एवात्मपोतः । संसारसागरे प्रत्यग्रसत्वे तरणमिति 'शान्तो दान्त उपरतस्तितिक्षु'रित्युक्त्वा- 'त्मन्येवात्मानं पश्ये'दिति श्रुतेः । 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः परः,' 'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते' इति वाक्याभ्यां सर्वात्मत्वं ज्ञानिविषयः । भक्तत्वेऽभेदस्य प्रतिबन्ध- कत्वेन परमप्रियत्वेन स्फूर्तौ कर्मकर्तृव्यपदेशादत एव फलत्वेन सच्चिदानन्देष्वानन्दप्राधान्येनेति । एतावत्पर्यन्तं ज्ञानमार्गे ज्ञानादित्यन्तं भक्तिमार्गे सत्यन्तं भाष्यमपि विवृतम् । उभयोः पङ्क्ति- कयोरग्रेतनभाष्यार्थमपि वदन्तः प्रकृतस्यातो हेतोरिति भाष्यस्यार्थमाहुः अत उक्तरीत्येति । व्याख्येये इमे, यस्येति व्याख्यानम् । क्रमाक्रमेति । क्रमः पापाभावानन्तरं मर्यादाभक्तिक्रमः पापसत्त्वेऽपि पुष्टिभक्तिरिति । व्युत्पादितेति । तत्रोच्यत इत्यादिभाष्येण । यं धर्मं पुरस्कृत्येत्यत्रानुग्रहं पुरस्कृत्य भक्तिमार्ग उभयविधे ज्ञानमार्गे तु प्रतिजीवं विचारितफलसाधनेच्छां पुरस्कृत्येत्यर्थात् । विभजन्त इति । भक्तिज्ञानभेदेनेत्यर्थः । ज्ञानमार्ग इत्यादीति । अत्रोभयोः पङ्क्तिकयोरुक्तौ पूर्वपङ्क्तिकार्यकथनावसरे । उप समीप एवेति भाष्यार्थो नोक्तः स उच्यते । ज्ञानेन स्वरूपस्थिता वास्तविकाणवः महत्त्वार्थमुपसमीप एव गच्छन्ति, यतोक्षरात्मके खमहद्रूपे विभूत्यात्मके प्रतिमादावेव प्रविष्टा भवन्ति, 'अणोरणीयान् महतो महीया'निति श्रुतेः । उक्तरीत्यात्रैव ज्ञानमार्गे स्थित्याद्युक्तरीत्या ।

एवं श्लेषोक्तिरियमिति ज्ञायते । सम्प्रदायानुवृत्तिरपि भगवदिङ्गितेत्येतादृशाः स्वयं येन मार्गेण फलं प्राप्ताः, तं मार्गमन्यानपि ग्राहयन्त्युपदेशैः, अत्रोभय- त्राप्यात्मत्वमेव हेतुः, अन्यथा आत्मारामस्य सर्वनिरपेक्षस्यैवंकरणासम्भवेन मोक्षमार्गाप्रसिद्धिरेव स्यात् । तस्मात् सर्वथानावृत्तिरेव श्रुत्यभिमतेति ज्ञेयम् ॥ ३॥ भाष्यप्रकाशः। मुक्तोपसृप्यत्वस्य पूर्वमुक्तत्वात् 'ब्रह्मविदाप्नोति पर'मित्युक्तायाः परप्राप्तेः, 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'त्यत्र ब्रह्मसाहित्येन श्रावणाङ्गमविद्यायामात्ममिथुनत्वस्य श्राव- णाच्च तथेत्यर्थः । अत्रेदं सम्पद्यते । भक्ता हि 'पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेन अमृतत्वमेती'ति श्वेताश्वतरश्रुत्या, 'आत्मेत्येवोपासीते'त्युक्तवाग्रे

१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० ४ पा ० १ अ ० २ सू ० ४. नन्वात्मत्वेनोक्तिरुपासनार्थेति नोक्तं साधीय इत्यत उत्तरं पठति । न प्रतीकेन हि सः ॥ ४ ॥ अतद्रूपे तद्भावेनोपासनं हि प्रतीकमित्युच्यते । तथा च तादृशेन तेन स मोक्षो न भवतीत्यर्थः । श्रुतिसिद्धत्वान्नास्ति मोक्ष इति न वक्तुं शक्यमिति भावः । भाष्यप्रकाशः। क्रियमाणकर्ममार्ग एवावृत्तिः, फलम्, न तु तात्पर्यज्ञानपूर्वकं भक्तिमार्गीयत्वेन ज्ञानमार्गीयत्वेन वा क्रियमाणे निवृत्तिरूपे कर्मणीत्यनावृत्तिफलकत्वाज्ज्ञानभक्ती उत्तमे इत्यर्थः ॥ ३ ॥ न प्रतीकेन हि सः ॥ ४ ॥ सूत्रमवतारयन्ति नन्वित्यादि । अयमर्थः । आत्मत्वेन ज्ञानस्याभेदे तादात्म्ये वा पर्यवसन्नत्वात्तन्मार्गरीत्या आत्मत्वेन ज्ञानात्तन्मार्गीयो मोक्षोना- वृत्तिरूपः फलमित्युक्तम् ।

अथवा आत्मत्वेनोक्तिरुपासनार्थेति वदन् वादी वक्तव्यः। फलार्थमेव तत्। फलं च श्रुत्युक्तस्तत्प्रवेश एवेति त्वयापि वाच्यम् । एवं सत्यादौ ज्ञानमार्गेनुप- भाष्यप्रकाशः । एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोन्त एकैकेन भवती'त्युक्त्वा अकृत्स्नत्ववारणार्थम्, 'आत्मे- त्येवोपासीते'ति वदन्नग्रे, 'अत्र ह्येते सर्व एकं भवन्ती'त्याह। तेनात्मत्वात् सर्वरूपस्य प्राणादिनै- कदेशरूपेण यदुपासनं तत्प्रतीकरूपम्, तादृशेन तेन मोक्षो न भवतीति सिध्यति, न त्वात्म- त्वेन ज्ञानान्मोक्षो न भवतीति । 'अत्र ह्येते सर्व एकं भवन्ती'त्यनेन कृत्स्नत्वरूपस्य फलस्यात्मो- पासने बोधितत्वात् । कृत्स्नत्वं सर्वभावपूर्वकक्षा, सर्वभावश्च मोक्षपूर्वकक्षेति तत्रैव पुरुषविध- ब्राह्मणे 'तद्वैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदे' इत्यत्र सिद्धम् । अतो मोक्षपूर्वकक्षाया अत्र बोधना- दात्मनः परमात्मत्वेनोपासनायां मोक्ष एव फलमिति सिध्यति । तथा च फलस्यापि वाक्यतात्पर्य- निर्णायकत्वान्मोक्षरूपेण फलेनात्मोपासनबोधकश्रुतितात्पर्यं निर्णीयते । अतः श्रुतिसिद्धत्वान्न मोक्ष इति न वक्तुं शक्यमिति 'भावोनेन सूत्रेण बोध्यते । अत आत्मनः परमात्मत्वेनो- पासनं प्रतीकोपासनमिति तवाभिमतमसङ्गतमित्यर्थः । अस्मिन् पक्षे आत्मत्वेनोपासनस्याप्रतीकोपासनत्वाज्ज्ञानभक्त्योः फलवत्ता यद्यप्यायाति, तथापि न हीति पदद्वयं सूत्रे व्यर्थं स्यादित्यतः प्रकारान्तरेण सूत्रं व्याकुर्वन्तोवतारयन्ति । अथवे- त्यादि । तदिति । उपासनम् । उपासनस्य फलं च 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुत्युक्तस्तस्मिन् ब्रह्मण्युपासकस्य जीवस्य प्रवेश इति त्वयापि वाच्यम् । अन्यथा उपासनविधानस्य वैय- रश्मिः । भवति प्रविष्टोपि । यद्वा । एकैकेनेति तृतीयान्तम्। एकैकेन प्रतीकेन वेदनं न भवतीत्यर्थः । सर्व- भावेति । कृत्स्नत्वे सर्वभावः सर्वत्वमात्मोपासने भवतीति कृत्स्नत्वं सर्वभावस्य पूर्वकक्षा। भावपदेन सर्वत्वेन भावो भक्तिर्भवतीत्युक्तम् । पूर्वकक्षेति । सर्वात्मकब्रह्मभवनस्य पूर्वकक्षा । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणा'मिति श्रुतेः । तत् तस्मात् प्रत्यबुध्यत आत्मानं यथावत् प्रबोधितवान् । तदभवत् सर्वात्मकं ब्रह्माभवत् । अग्रे 'तद्वै तत्पश्यन्नि'ति श्रुतिः बृहदारण्यके पुरुषविधब्राह्मणे । शाण्डिल्येति । छान्दोग्ये 'असौ वा आदित्यो देवमध्वि'त्यार- म्भके प्रपाठकेस्ति । ब्रह्मभावरूपमिति । एतमभित इति श्रुतावेतमात्मानं इतः प्रपञ्चात् प्रेत्य सृ- त्येत्यभिसम्भवितास्मीति श्रुत्यर्थात्। अभिसम्भविता प्राप्ता। अभितः सम्बन्धानवगाहि ज्ञानं ब्रह्म तदपि प्राप्ता । समिति सम्यक्त्वं सर्वरूपत्वेन, विपरीतं वा । अत उक्तं ब्रह्मभावरूपमिति । ब्रह्मात्मनो- र्ब्रह्मणो मुख्यत्वप्रसिद्धेः । श्रुतिसिद्धत्वादिति भाष्यं विवृण्वन्तिस्म । अत इति । आरोपितत्वात् मिथ्यात्वेन मोक्षासाधकत्वात् । परमात्मत्वेनेति । आरोहितेन । असङ्गतं मोक्षाजनकत्वात् । न चा'सत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत' इति मोक्षोपपत्तिरिति शङ्क्यम् । 'स्वयमेवात्मनात्मानं वेत्थे'ति स्मृतिविरोधात् । अतोसत्ये वर्त्मनीत्येकः पक्षो न सर्वथा । अप्रतीकोपासनयेति । चित्तशुद्धिद्वारेति ज्ञेयम् । षष्ठ्यन्तपाठे तु ज्ञानविशेषणम् । फलं चेति भाष्यं विवृण्वन्ति स्म । उपासनस्येति । 'ब्रह्मैव स'न्निति श्रुतिः शारीरब्राह्मणेस्ति । त्वयापीति । आवरणभङ्गातिरिक्तमन- ङ्गीकुर्वंस्तोऽभिद्रेन । यद्वा । त्वयाप्यसदाग्रहेण वाच्यम् । उपासनेति । अर्थवादत्वेपि उक्त- युक्तियुक्तवेदाः प्रमाणमिति । उपपत्तिमिति पाठो व्याकृतः । अनुपपत्तिमितिपाठे तु इति शेष इति भाष्ये

२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० २ सू० ५. पत्तिमाह । न प्रतीकेनात्मभूते ज्ञानिन उपगमः पूर्वोक्तः प्रवेशः सम्भव- तीति शेषः । भक्तिमार्गेपि तामाह न हि स इति । न हि प्रतीकोपासने स लोकवेदप्रसिद्धः पुरुषोत्तमोस्त्युपास्यत्वेन, येन तत्प्राकट्यं स्यात्, तदुपगमनं वेत्यर्थः । एवं ज्ञानभक्त्योः फलसत्ता साधिता ॥ ४ ॥ ननु 'सर्वं खल्विदं ब्रह्म,' 'आत्मैवेदꣳ सर्व'मित्यादिश्रुतयः सर्वत्र ब्रह्मदृष्टिं मुक्तिसाधनत्वेनोपदिशन्ति, सा च प्रतीकात्मिकेवेति कथं प्रतीकोपासनस्य न मोक्षसाधकत्वमिति प्राप्त उत्तरमाह । भाष्यप्रकाशः । र्ध्यापत्तेः । एवमात्मोपासनस्य फलवत्त्वे सति आदौ पूर्वं ज्ञानमार्गेनुपपत्तिम्, एकदेशोपासनेन फलाभावबोधिकां युक्तिमाहेत्यर्थः । उपगच्छन्तीति पूर्वसूत्रादनुवृत्त्य न प्रतीक इति सूत्रभाग- स्यार्थमाहुः । न प्रतीक इत्यादि । प्रतीक इति । अनात्मभूते मनआदौ ब्रह्मत्वेनोपासिते प्रतीकत्वान्न ब्रह्मणि प्रवेशः फलम्, किन्तु मनआद्युपासनाभूतमेव । अत्र तु ब्रह्मणि प्रवेशस्योप- पादितत्वान्न प्रतीकत्वमित्यर्थः । शेषमवतार्य व्याकुर्वन्ति भक्तीत्यादि । तथा च यदिदं प्रतीको- पासनं न स्यात्, अत्रोपास्यः पुरुषोत्तमो न स्यात् । यतोत्र पुरुषोत्तम एवात्मत्वेनोपास्यः, न त्वात्मा पुरुषोत्तमत्वेन । उपक्रमे सृष्टिकर्तृत्वरूपब्रह्मलिङ्गेन, अग्रे च 'आत्मानं प्रियमुपासीते'ति विशेषकथनेन, ईश्वरत्वकथनादिना च तथा निश्चयात् । अतो नेदं प्रतीकोपासनमित्यर्थः । सिद्ध- माहुः एवमित्यादि । तथा च मोक्षफलकं ज्ञानिनामात्मत्वेनोपासनं न प्रतीकम् । अकृतकृत्यवार- णार्थत्वात् । भक्तानां चात्मत्वेनोपासनं पुरुषोत्तमपर्यवसायीत्यतोपि न प्रतीकम् । अतः पूर्वोक्तं तवाभिमतमसङ्गतमित्यर्थः । एवमप्रतीकोपासनेन ज्ञानभक्त्योः फलवत्त्वे सिद्धे तयोरनावृत्तिफलकत्वेन तदङ्गभूतकर्मणोप्यनावृत्तावेव पर्यवसानमित्यपि बोध्यम् ॥ ४ ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ सूत्रमवतारयन्ति नन्वित्यादि । मुक्तिसाधनत्वेनेति । परम्परया साक्षाच्च तत्साधनत्वेन । सा च प्रतीकात्मिकेवेति । ब्रह्मकार्ये ब्रह्मांशे च ब्रह्म- दृष्टिरूपत्वात्तथा । तथा चेदं वाक्यद्वयं छान्दोग्यस्थम् । तत्र प्रथमं शाण्डिल्यविद्यास्थम् । तेन शुद्धान्तःकरणस्याग्रे 'यस्य स्यादद्धे'त्यनेन भगवत्प्राप्तिरूपं फलमुक्तम् । द्वितीयं सनत्कुमारनारद- संवादस्थम् । तत्रापि, 'न पश्यो मृत्युं पश्यती'त्यादिना 'तमसस्पारं दर्शयती'त्यन्तेन मुक्ति- रश्मिः । अपि तु न सम्भवतीति काकुर्बोध्या । अनुवृत्त्येति । अत्र क्त्वो ल्यपः स्थानिवद्भावेन कित्त्वं स्वीकृतम्, अतो न गुणः । न प्रतीक इत्यादीति । न प्रतीक इत्येकं पदमित्याशयेनाहुः । अनात्मभूत इति । शेषमिति । न हि स इति तत्र शेषम् । भक्तीत्यादीति । तामित्युपपत्तिं, अनुपपत्तिं च पाठान्तरे । न हीति । भक्तिहंसे स्पष्टम् । पुरुषोत्तमस्य भक्त्येकविषयत्वेनोपास्यत्वाभावात् । उपगमनं पूर्वसूत्रादनुवृत्तोपगच्छन्तिपदप्रकृत्यर्थः । पर्यवसानमिति । उद्देश्यभेदेन चित्तशुद्ध्यर्थं कृतेन कर्मणा ज्ञानभक्तिद्वारानावृत्तिरिति तथा ॥ ४ ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ तेनेत्यादीति । 'सर्वं खल्विदं ब्रह्मे'त्युपासनेन ब्रह्मदृष्टिरूपेण । अग्रे श्रुत्यग्रे । भक्तिफलं 'यस्य स्यादद्धा प्रत्यक्ष'मितिवाक्येन प्रत्यक्षे ऽयन्नियमात्, भगव- त्प्राप्तिरू'मित्यर्थः । अतिमुक्तिः मुक्तिरूपमिति । सर्वात्मभावप्रकरणादतिमुक्तिरूपम् । आत्मनोथोपनि- 2140

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३ ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ सर्वत्र ब्रह्मदृष्टिर्न प्रतीकात्मिका । सर्वस्य वस्तुतो ब्रह्मात्मकत्वात् । सा न नोपदेशसाध्या, अतो नोपदिश्यते, किन्त्वनूद्यते । सा त्वधिकारोत्कर्षात् भाष्यप्रकाशः । रूपमेव फलमुक्तम् । तयोपासनद्वयमपि प्रतीकरूपम् । सर्वरूप आत्मनि प्राणाद्येकदेशदृष्टिवद् ब्रह्म- कार्यरूपे जगति ब्रह्मांश आत्मनि च ब्रह्मदृष्टिरुपतयातद्रूपे तत्त्वेनोपासनरूपत्वात् । ततश्च मुक्ति- रुक्तेति प्रतीकेनापि मुक्तिसिद्धौ फलेन विषयेण च निर्णयाभावादात्मत्वेनोक्तेर्मोक्षफलकत्वोक्तेश्च तादृशप्रतीकनिवारकत्वकथनं न साधीय इत्याशङ्कायामुत्तरमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति सर्वत्रे- त्यादि । सर्वस्मिन् प्रपञ्चे या ब्रह्मदृष्टिः, सा न प्रतीकात्मिका । कार्यस्य कारणात्मकत्वेन प्रपञ्चस्य ब्रह्मात्मकतया वस्तुतो ब्रह्मात्मक

स्त एव भवतीति प्रतीकोपासनस्य न मुक्तिसाधनत्वमिति साधूक्तम् । एतद्दे- वोक्तमनेन सूत्रेण ॥ ५ ॥ २ ॥ इति चतुर्थाध्याये प्रथमपादे द्वितीयमात्माधिकरणम् ॥ २ ॥ भाष्यप्रकाशः । तीत्यभिप्रायेण । एवं 'मनो ब्रह्मेत्युपासीते'त्यादावपि मनो ब्रह्म इति हेतोस्तत्रोक्तफलायैवोपासी- तेत्येवमुपासनाहेतुत्वेनानूद्यते, न तु विषयत्वेनोपदिश्यते । सा त्वेवं ज्ञात्वोपासने क्रियमाणे- धिकारोत्कर्षात् स्वत एव भवति । अतस्तत्र मुक्तिफलकथनेन तदुक्तेषु प्रतीकेषूपासनेषु न मुक्तिफलकत्वसिद्धिः, अतः पूर्वोक्तं साध्वेवेत्यर्थः । तथा चोपासनावाक्यगतस्यात्मशब्दस्य प्रती- कोपासननिवृत्त्यर्थत्वात् सर्वत्रात्मदृष्टेरप्रतीकत्वादात्मशब्दब्रह्मशब्दयोरैकार्थ्यात् सर्वत्र ब्रह्मदृष्टौ साक्षात्परम्परया च मोक्ष एव फलमिति ज्ञानभक्त्योरनावृत्तिफलकत्वमप्रत्यूहम

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७५ भाष्यप्रकाशः । शास्त्रात् प्रतिमासु विष्णुदृष्टिवत् स्वात्मनस्तत्तादात्म्यदृष्टिः कर्तव्या, न तु संसारिणो मुख्य आत्मा परमेश्वर एवेति प्रापयितव्यम् । एवं प्राप्ते, उच्यते । आत्मैत्येव परमेश्वरः प्रतिपत्तव्यः । यतः परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवेनमुपगच्छन्ति, 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते' इति । तथा अन्येपि 'अहं ब्रह्मास्मी'त्येवमादाय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति चात्म- त्वेनैवेश्वरं वेदवाक्यानि । 'एष त आत्मा सर्वान्तरः', 'एष त आत्मान्तर्याम्यमृतः', 'तत् सत्यं स आत्मा तत्त्वमसी'त्येवमादीनि । यदुक्तं प्रतिमान्यायेन प्रतीकं भविष्यतीति । तदयुक्तम् । गौण- त्वप्रसङ्गात् । 'मनो ब्रह्मेत्यादित्यो ब्रह्मे'त्यादौ सकृदेव तद्वचनेन, इह चाहं त्वं त्वमहमित्यस- कृद्वचनेन प्रतीकश्रुतिवैरूप्याच्च । 'अथ योन्यां देवतामुपास्तेन्योसावन्योहमिति न स वेद, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती'ति, 'सर्वं तं परादाद्योन्यत्रात्मनः सर्वं वेदे'त्या- दिषु भेददर्शनापवादाच्च । न च विरुद्धगुणयोरन्योन्यात्मत्वासम्भवः शङ्क्यः । विरुद्धगुणत्वस्य मिथ्यात्वोपपत्तेः । नापीश्वराभावः शङ्क्यः । शास्त्रप्रामाण्यान्नास्वामीश्वरस्य संसारित्वाप्रतिपादनेन संसार्यात्मनः संसारित्वापोहेनेश्वरत्वप्रतिपादनस्य क्रियमाणत्वेन तदभावात् । नाप्यधिकार्य- भावः, प्रत्यक्षविरोघो वा । प्राक्प्रबोधाद्धि व्यवहारे संसारित्वस्य तद्विषयकप्रत्यक्षस्य चाङ्गीकारेण विरोधाभावात् । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये'दित्यादिना प्रबोधदशायामेव श्रुत्या प्रत्यक्षाद्यभावबोधनात्तदानीं च श्रुत्यभावस्यापि, 'अत्र पिता अपिता भवती'त्युपक्रम्य, अग्रे 'वेदा अवेदा' इति वचनेन वेदाभावस्यापीष्टत्वात् । यदपि कैश्चिदविद्याया ब्रह्मणः सद्वितीयत्वादद्वैतानु- पपत्तिरिति शङ्क्यते, तदप्येतेनैव प्रत्युक्तम् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति शाङ्करा आहुः । तन्न रुचिरम् । परमात्मन्यहङ्ग्रहोपासने साध्ये प्रमाणत्वेनात्मत्वोपगमस्य वक्तुमयुक्तत्वात् । परमात्मनि मुख्यवृत्तस्यात्मपदस्य 'सर्वं खल्विदं ब्रह्म,' 'इदं सर्वं यदयमात्मा आत्मैवेदं सर्व'- मित्यादिश्रुतिभिः सर्वस्य ब्रह्मत्वे बोधिते सर्वसङ्ग्राहक तया स्वप्रत्यग्विचिद्वेद्यवाचकाहमपदतो रश्मिः । वस्तत्तादात्म्यं तस्य दृष्टिः । मुख्य इति । सोपाधिको गौणो मुख्यत्वनिरूपकः । विरुद्धेति । अपहत- पाप्मत्वापहतपाप्मत्वयोः । तद्भावादिति । ईश्वराभावशङ्काभावात् । प्रबोधाज् ज्ञानात् । तद्वि- षयकेति । संसारिविषयकप्रत्यक्षस्य । प्रत्यक्षादीति । आदिनाधिकारी । एतेनेति । मिथ्यात्वोप- पादनेन । परमात्मनीति । जीवे ब्रह्मोपासनानिषेधात् परमात्मनोधिष्ठानत्वमुक्तम् । परमते परमात्म- विषयके, 'अहमस्मि ब्रह्माहमस्मि' इत्याद्यर्थवादत्वानङ्गीकारादहंग्रहोपासनं तस्मिन् । तत्रापि 'ब्रह्मा- हमस्मी'ति । ब्रह्मणः प्रसिद्धेः । 'अहं ब्रह्मास्मी'त्यत्र भवन्मये ब्रह्मज्ञानाधीनविद्यासम्बन्धाधीनत्वादस्म- च्छब्दप्रयोगस्य 'ब्रह्माहमस्मी'ति प्रबोधे सुकरत्वात् । प्रमाणत्वेनेति । अहङ्ग्रहोपासनश्रुतौ ह्यनधि- गतार्थगन्तृत्वं प्रमाणम् । जीवस्यात्मत्वेनोपगमस्तस्येति, आत्मोपगमस्य प्रमाणत्वं शब्दार्थयोरेात्पत्तिक- कसम्बन्धात् । सर्वैति । आत्मपदस्यात्मत्वेन सर्वसङ्ग्राहक तया । स्वप्रत्यगिति । स्वमात्मा प्रत्यग् जीव- स्तस्य वित्तिर्ज्ञानं तद्वेद्यः प्रादेशिकः, 'अङ्गुष्ठमात्रो रवितुल्यरूपः कामाहङ्कारसमन्वितो यः, बुद्धेर्गुणेनात्म- गुणेन चैव आराग्रमात्रो ह्यपरोपि दृष्टः', इति श्रुतेर्बुद्ध्यादिगुणेषु प्रदेशेषु भवः प्रादेशिको जीवः । १. श्रुतौ पश्यतीत्यदाविति शेषः । 2143 ४ ब्र० सू० २०

१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० १ अ० २ सू० ५. भाष्यप्रकाशः । भिन्नार्थत्वेऽहम्पदार्थमात्रत्वप्रमित्यजनकत्वात् । अथ 'आत्मैवेदमग्र आसी'दित्यपक्रम्य 'सोहम- स्मी'त्यग्रे व्याहरत्ततोहंनामा अभव'दिति श्रुतेः पर्यायत्वान्न दोष इत्युच्यताम् । तथा सति तेन तदहंवित्तिवेद्यत्वगुणकोपासनं सेत्स्यति, न तु तस्य स्वाभेदपर्यवसायित्वाहंवित्तिवेद्यत्वगुणकम् । ततश्च किमहमिति ग्रहीतव्यः, किं वा मदन्य इति संशयाकारासङ्गतिः । तत्रासत्पदाभ्यां प्रति- शरीरं भिन्नस्य स्वाहंवित्तिवेद्यस्यैव बोध्यमानत्वात् । न चोपाधेर्मिथ्यात्वात् तदनादरेण घटाकाश- महाकाशन्यायात्तयोरभेदस्यैव सिद्धेर्न दोष इति वाच्यम् । मिथ्यात्वेपि यावद्व्यवहारं तत्स- त्त्वायां भेदाभावस्योपगन्तुमशक्यत्वात् । न च जाबाल

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २७ भाष्यप्रकाशः। अत एव, 'एष त आत्मे'त्यादिषु ग्राहणवाक्येष्वप्यात्मपदमेवोक्तम्, न तु, त्वम्पदमहम्पदं वेति युज्यते । किञ्च । आत्मनः स्वप्रत्यग्विचित्त्वेद्यस्य च सर्वथा भेदाभावे, 'अथातोऽहङ्कारादेश' इत्यनन्तरं 'अथात आत्मादेश' इति पुनर्नोपदिश्येत । तस्मात् स्वात्मेश्वरयोर्भेदविरुद्धभावाभेदे- नैवोपासना युक्ता, न तु भेदाभावरूपेणाभेदेन । एवमेव श्रीभागवतेप्युच्यते । 'आत्मानं चिन्तयेदेकमभेदेन मया मुनि'रिति, न तु स्वाभेदेन मामिति । 'अथ योन्यां देवतामुपास्तेन्यो- सावन्योहमिति न स वेद यथा पशुरेवं हि स देवाना'मिति भेदोपासननिन्दापि, न हि निन्दान्यायेन पूर्वोक्ताभेदोपासनास्तुत्यर्थत्वादुपपन्ना । एवमन्यान्यपि वाक्यानि बोध्यानि । एवञ्च प्रतिमाद

Here is the complete, accurate line-by-line transcription in pure Markdown with line markers:

दृष्टिर्न कार्येत्युक्तम् । तत्रापि मनआद्युपासनस्य प्रतीकत्वमेवायुुक्तम् । 'सर्वं तं परादाद्योऽन्यत्रा- त्मनः सर्वं वेदे'ति सर्वत्राभेददृष्ट्यर्थं भेददृष्टिनिन्दाङ्गीकारेण भवतामपि सिद्धे सर्वस्य ब्रह्मात्मकत्वे मनआदीनामपि तथात्वात्पुरुषाङ्गे पुरुषबुद्धिवत् प्रतीकत्वाभावात् । अथ, 'अङ्गं प्रतीकोऽवयव' इति कोशादङ्गोपासनैव प्रतीकोपासनेतीष्यते, तदा तु ॐमिति ब्रूमः । रामानुजाचार्यास्तु, तुशब्दोऽवधारणे । उपासितुरात्मत्वेवोपास्यम् । उपासिता प्रत्य- गात्मा स्वशरीरस्य स्वयं यथात्मा तथा स्वात्मनोऽपि परं ब्रह्मात्मेत्येवोपासीत । कुतः । एवं ह्युप- गच्छन्त्युपासितारः । 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसी'ति । उपासितुरर्थान्तरभूतं ब्रह्म उपासितारः कथमित्युपगच्छन्तीत्यत्राह । ग्राहयन्ति चेति । इति

"भक्तिमार्गीयस्य"! भ - क्ति - मा - र्गी - य - स्य! YES! Look at the letter: It is NOT 'अङ्किकि'! It is: 'भ' (bha) 'क्ति' (kti) with hrasva i-matra! 'मा' (mā) 'र्गी' (rgī) 'य' (ya) 'स्य' (sya)! "भक्तिमार्गीयस्य नेदं युज्यत इत्यरुच्या"!! WOW, amazing! "अत्राङ्गोपासनाफलस्योक्तत्वाभावाद् भक्तिमार्गीयस्य नेदं युज्यत इत्यरुच्या विषयवाक्यमन्यदाहुः" "Because the fruit of anga-upasana is not stated here, this is not appropriate for one belonging to the bhakti-marga, hence dissatisfaction..." And look at the next lines: "छान्दोग्ये मधुविद्यायाम् ।" And look at line 11: "ज्ञानभक्तिसम्बन्धिनीनामुपासनानां फलमुक्त्वा..." And line 22-23: "ज्ञानभक्तीत्यादि । ज्ञानफलं आत्मेति ज्ञानम् । ... भक्तिमार्गफलं पुरुषोत्तमसमीपगमनम् ।" Yes, absolutely, 100% it is "भक्तिमार्गीयस्य"! What an excellent catch! It made no sense as "अङ्किकिम

सर्वेषां फलसिद्धेः, पृथक्पृथगुक्तौ गौरवात्, प्रयोजनविशेषाभावाच्च । तादृशाधि- काराभावात् पृथक् तदुक्तिरिति चेत् । न । सर्वत्र सदा तद्भावनायां तथानुभव- स्यापि सम्भवात् । एवं सति वस्तुतः सर्वस्य ब्रह्मत्वं नाभिमतम्, किन्तु यथा- दित्यादीनां तत्तथा, तथा सर्वस्यापीति प्रतीकोपासनत्वमेव सर्वत्र । तेनैव फल- मिति प्राप्ते प्रतिवदति । आदित्यादौ या ब्रह्मत्वमतय उच्यन्ते, तास्तु साकारस्यैव ब्रह्मणो व्यापक- त्वात् तस्य प्रत्येकमप्यङ्गमुपासितं फलद‌मित्येकैकाङ्गविषयिण्यस्ता विधीयन्ते । उपपन्नं चैतत् । न हि साकारव्यापकब्रह्मणोऽङ्गं न ब्रह्म, अतो न प्रतीकोपा- सनत्वं तत्र । भाष्यप्रकाशः । प्रयोजनविशेषसत्तामाशङ्कते तादृशेत्यादि । तादृशाधिकाराभावादिति । उत्कृष्टाधिकारा- भावात् । तथा च येषां न सर्वत्र ब्रह्मत्वेन स्फूर्तिः, तदर्थं पृथगादित्याद्युपासनोक्तिरित्यर्थः । समाधत्ते नेत्यादि । सर्वत्र तद्भावनायां तया उपनयेनोपनीतमानरूपस्य ब्रह्मानुभवस्यापि सम्भ- वात् । एवं सतीति । अधिकाराभावेप्युक्तरीत्या सर्वत्र ब्रह्मदर्शनसम्भवेप्येवं पृथगुपासनो- पदेशे सति । वस्तुत इत्याद्युक्तरीत्या तत्तथा उपासनं प्रतीकम्, तथा सर्वस्यापि ब्रह्मत्वेनोपा- सनमपि प्रतीकम् । तेनैव चित्तशुद्धिद्वारा मुक्तिरूपं फलं सम्भवतीति पूर्वसूत्रद्वयोक्तमयुक्तमिति प्राप्ते प्रतिवदति । आदित्याद्युपासनानामङ्गोपासनत्वेन फलवत्त्वं वदन् तासु तदुक्तप्रतीकरूपत्वं परिहरतीत्यर्थः । सिद्धान्तं वक्तुं सूत्रं व्याचष्टे । आदित्येत्यादि । एकैकाङ्गविषयिण्य रश्मिः । प्रतियोगिज्ञानरूपप्रयोजनविशेषसत्ताम् । उत्कृष्टेति । ब्रह्मत्वदृष्ट्यधिकारः ह्यादित्यवायुघटपटप्रतिमादिषु तस्याभावादेकप्रकारेणोपासनस्य पृथगुक्तिः । तेन ह्यादित्यवायुघटपटादिरूपौपमन्यवसत्ययज्ञेन्द्रद्युम्न- कुलालकुविन्दफलानां तूष्णीकं विचारो ज्ञानमार्गोपयोगी । भक्तिमार्गे तु घटपटादिकार्यस्य ब्रह्मत्व- मात्मकृतज्ञतासम्पादकम् । कृत्स्नोपासनया तादृशाधिकारे प्रेम, 'श्रेयोभिर्विविधैर्भाक्तैः कृष्णे भक्तिर्हि साध्यत' इतिवाक्यात् । तदर्थमिति । औपमन्यवसत्ययज्ञेन्द्रद्युम्नार्थम्, न तु वामदेवार्थम् । उपनयेनेति । उपनयः समीपानयनं यथा शाब्दं ह्युपनीतं मन्तव्यमितिशङ्कायां श्रोत्रसमीपे शब्दे- नार्थनयनं श्रावणं प्रत्यक्षमिति । तेनेत्यर्थः । उपनीतस्य ब्रह्मणो मानं तद्रूपस्य । उक्तरीत्येति । उपनीतमानरूपत्वेन ब्रह्मदर्शनमिति रीत्या । आदित्यादीनां पृथक् तदनन्तर्गतत्वेनोपासनोपदेशे सति । तत्तथेति व्याख्येयम् । उपासनं प्रतीकम् । तथा सर्वस्येतिभाष्यमाहुः तथा सर्वस्येति । पूर्वसूत्रेति । 'न प्रतीक' 'ब्रह्मदृष्टि'सूत्रद्वयोक्तं प्रतीकोपासनस्यामुक्तिजनकत्वम् । तास्विति । अङ्गोपासनासु । पूर्वपक्ष्युक्तप्रतीकरूपत्वम् । आदित्येत्यादीति । उच्यन्त इति । छान्दोग्ये उच्यन्त इति । साकारस्येति । विराजः । 'सर्वं खल्विदं ब्रह्म'ति विषयवाक्ये भाष्ये विराज उक्तेः 'सर्वत्र प्रसिद्धोपदेशा'दित्यत्र । ननु 'न हि स' इति भागे भक्तिमार्गे पुरुषोत्तमोक्तेः 'साकारब्रह्म- वादैकव्यापक' इति श्रीसर्वोत्तमग्रन्थोक्तेर्विराट्सङ्गः साकारत्वं कथमिति चेत् । न । अधोक्षजत्वेपि 'यतो वाच' इतिश्रुतेरिमित्थंतया यावद्धर्मप्रतिपादकत्वेपि परब्रह्मणो जगदभिन्ननिमित्तोपादानत्वेन ह्याकारजगत्समवायिनः साकारत्वात् । साकाराद्देवदत्ताज्जायमानस्य तत्पुत्रस्य साकारत्वदर्शनात् ।

ामेव"? Look at line 24: च (ca) क्षु (kshu) then: ष् (sh) ? Wait, look at: "चक्षुषामेव"? च - क्षु - षा - मे - व (cakṣuṣām eva)! Not "चक्षुष्पामेवं"! It is: च (ca) क्षु (kshu) षा (shaa) मे (me) व (va) रूपत्वात् (roopatvaat) "चक्षुषामेव रूपत्वात् ।" Yes! चक्षुस् in genitive plural = चक्षुषाम्! "चक्षुषामेव रूपत्वात्"!

Let's check line 25: मिति । 'मनेर्घश्छन्दसी'तिसूत्रेण ज्ञानार्थकस्य मनेर्घप्रत्यय औणादिकः । देवस्य 'अन्तस्तद्धर्मा'धि- Wait, Panini/Unadi: 'मनेर्घश्छन्दसि' (Uṇādi 4.137 / 4.138: 'मनेर्घश्छन्दसि') Yes, 'मनेर्घश्छन्दसी'ति सूत्रेण... Line 26: करणोक्तस्यादित्यान्तःस्थस्य नारायणस्य मधु ज्ञानकर्तृ द्वादशस्कन्धप्रसिद्धम् । त्रयीरूपत्वाद्वा । अतो Wait: द्वादशस्कन्धप्रसिद्धम् -> द्वाद

३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ३ सू० ६. भाष्यप्रकाशः। मधुत्वं मधुनाडीत्वम् । 'प्राच्यो मधुनाड्य' इत्यादिश्श्रुतेः । तासां मधुप्रधानत्वान्मधुत्वम् । ऋचां मधुकृत्त्वम्, ऋग्वेदस्य पुष्पत्वम् । तासामेव ऋचाममृतता ब्रह्मरूपत्वम्, ताभिर्ऋग्वेदतापम्, रश्मिः। विवक्षितत्वात्। पूञ्पवने, सम्पदादि क्विप्, अपूपं पाति पिबति वा । आतोनुपेति कः । पिष्टस्य विकारः । संज्ञायामिति कन् । 'पिष्टको घृतपूपादौ नेत्ररोगान्तरेपि चे'ति विश्वः । 'पिष्टको नेत्ररोगे स्याद्धा- न्यादिचमसेपि चे'ति पाठान्तरम् । धान्यादिपानपात्रं नानावृक्षा रसाश्रया अप्यपूपः । तेन 'यथा मधु- मधुकृतो निस्तिष्ठन्ती'त्यत्रोक्तनानावृक्षरसातृत्वं मधुकृतां न विरुद्धम् । तद्वदन्तरिक्षं तत्रादित्यरश्मी- रूपोन्तरिक्षसाध्यक्षे वायौ खसमवायिनि समवायेन स्थित्वा 'वायव्या वै पशव'इत्युक्तेः पशून् अश्वान् रथद्वारा भुङ्क्ते । ऋचोपि भुञ्जते आदित्यद्वारा । 'वायुः शब्दतामापद्यत' इति प्राचां प्रवादात् । अत्रेदं प्रतिभाति । अवयवा ऋगादयः न तूष्णीमादित्यमवयविनमारभन्तेपि तु मधुत्वम् । आदित्यस्य सिद्धत्वात् । मधुत्वान्तर्गतज्ञानं च किंविषयकमित्यपेक्षायामन्तरिक्षे ये वायव्याः पशवः राधाकृष्णवराहाः । पञ्चमाष्टके 'आदित्यः पशुरासीत्तेनायजन्त, अग्निः पशुरासीत्तेनायजन्त, वायुः पशुरासीत्तेनायजन्ते'ति श्रुतावुक्तेः । आदित्यः कृष्णः पशुः पश्यतीति पशुः द्रष्टा अग्निः, निरुक्ते देवपत्नीनामसु सूर्यपाठाद् राधा । वराहः वायुः । हिरण्यगर्भनस्तो 'वराहतोको निरगा'दिति श्रीभाग- वते । तथा च मधुत्वान्तर्गतज्ञानं पशुविषयकमिति भावोत्र । अधिकारस्कन्धानन्तरं ज्ञानस्कन्धः । तादृशज्ञानविषयत्वेन तृतीयस्कन्धे वराहपशुसर्गपुरःसरं सर्ग उक्तः । ततो राधाकृष्णपशुनिरोधपुरःसरं सामान्यतो निरोधः प्रपञ्चविस्मृतिपूर्वकभगवदासक्तिलक्षणकनिरोधो व्याख्यात इति । स्कन्धचतुष्टय- व्याख्याशयः । मरीचयः पुत्रा इति । मधुकृतां पुत्रा अपि मधुकृतस्तद्वन्मरीचयः किरणाः दीप्तयोपि आदित्यमधुकृतः । तथाहि । आदित्योपां पुष्पं तेजस्तु भगवदीयं पुत्रवत् किरणदीप्तिरूपम् । 'अजा- यमानो बहुधा विजायत' इति श्रुतेरधिकारिणं 'पुन्नाम्नो नरकात् त्रायत' इति पुत्रपदव्युत्पत्तेः पाल- कम् । अन्यथा बन्धप्राप्त्या नाधिकारं कुर्यात् । 'देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण' इति संहितोक्तम्, तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । अत्रत्यं प्रतीकमाहुः । प्राच्य इत्यादि । तस्यादित्यस्यावयवरूपरसाश्रयस्य सवितुर्ये प्राञ्चः पूर्वदिग्गता रश्मयः । ता एवास्यादित्यस्य प्राच्यो मधुनाड्यः । प्रसिद्धमधुरूपार्णवादित्यमधुरूपच्छिद्राणि । ऋचामिति । ऋच एव मधुकृत इति श्रुत्यर्थः । भ्रमरा इवर्षः समवायित्वं मधुनि भ्रमराणां आदित्ये ऋचाम् । 'एषा त्रय्येव विद्या तपती'- तिश्रुतेः । 'ऋग्वेद एव पुष्प'मितिश्रुत्यर्थमाहुः ऋग्वेदस्येति । नारायणविशिष्टादित्यस्य पुष्टिद्वारोपासन- फलत्वं सूचितमित्यादित्यमधुनरूपेण वेद ऋग्वेदः पुष्पं अर्थरूपफलसत्ताविशिष्टम् । वेदयति साधनफले अलौकिके इति वेदः । 'ता अमृता आप' इति श्रुत्यर्थमाहुः तासामेवेति । प्रसिद्धमधुनः द्रव्यभूय- स्करस्वरूपापां लक्षणवत्त्वात् प्रकृते आप उक्ताः । ता इति विधेयलिङ्गम् । पुष्पं फलसत्ताकमिति । आदित्यमधुपीता आपः अमृताः अमृतपदवाच्या मुख्यफलजनकत्वात् । एवं च तासामपामेव या रुचो दीप्तयः तासाममृता आपः इतीति शेषः । इति हेतोर्ब्रह्मरूपत्वम् । ऋग्वेदस्य शब्दस्यार्थरूपत्वम् । 'अथ वेद' इति शब्दरूपत्वं वा । 'ता वा एता ऋच एतमृग्वेदम्भ्यतपं'न्निति श्रुत्यर्थमाहुः ताभिरिति । ता वै मधुकृतः वै निश्चयेन एताः पुष्परूपाः कार्यकारणाभेदात् । ऋग्वेदं स्वं रूपं गहनार्थवत्त्वेन तापयुक्तमकरोत् । आधिदैविके तापः सम्भवति । 'मृदब्रवी'दितिवत् । 'तस्याभितप्तस्य यशस्तेज 2150

++रा=तत्रात्तेतराभावादाह! Wait, why would it be त्तेतरा? Wait, could it be तत्रास्तेतरा? No. Wait! What if the letter is NOT ? What if it is: तत्रात्रेतरभावादाह? No. What if it is: तत्रानेतराभावादाह? Wait, could it be तत्रान्नेतराभावादाह? Wait! In Chhandogya, the prior discussion: The gods don't eat or drink. Why? Because they only see the amrita and are satisfied! "अन्नाद्यं रसः" was discussed earlier! "तत्र अन्नेतराभावात्" -> there, since there is no food other than this amrita, he says... Wait, "तत्रान्नेतराभावादाह"? Let's look at न्ने: न्++. Yes! In old fonts, न्+often looks like a double-decker or ligature that resemblesत्त! Wait, look at line 23: नन्दाद्याःLook at line 14:गृह्णन्तिLook at line 28:तात्पर्यार्थविषयेणLook at line 32: afterदाह: नैतन्नश्नन्तिor

अन्यधर्मनिवृत्तिः, तस्यैव स्वतन्त्रपुरुषार्थत्वेन ज्ञानमतिशयितस्नेहजविगाढभावेन तत्रैव लयः, पुनस्तद्दर्शनानन्दानुभवार्थं भगवानेव कृपया पुनः पूर्वभावं सम्पा- दयतीति तस्माद्रूपाद्युदयश्च । एतत्सर्वं भगवदङ्गत्वे एवोपपद्यत इत्यपि हेत्वभि- प्रेतोऽर्थो ज्ञेयः। न हि प्रतीकत्व इदं सर्वं सम्भवति । भक्तिमार्गीयत्वादस्यार्थस्येति- भावः । अङ्गानां भगवत्स्वरूपात्मकत्वेनैक्यमिति ज्ञापनायैकवचनम् । एतेन स्वरूपस्यैव फलत्वमुक्तं भवतीति मुख्यः सिद्धान्तः सूचितो भवति ॥ ६ ॥ भाष्यप्रकाशः। तथा चेत्यादि । अन्यधर्मनिवृत्तिरिति । प्राणधर्मरूपक्षुदादिनिवृत्तिः । हेत्वभिप्रेतोर्थ इति । हेतुबोधके उपपत्तिपदेऽभिप्रायगोचरोऽर्थः । तदुपपादयन्ति न हीत्यादि। ज्ञानमार्ग एवा- न्धत्वादिदोषः, न भक्तिमार्ग इत्यपि सूचितम् । शेष

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ३६ आसीनः सम्भवात् ॥ ७ ॥ पूर्वसूत्रेण धर्ममात्रस्य फलत्वमुक्त्वा, अधुना धर्मिणः फलत्वं तत्साधनं चाह सम्भवात् । उत्कटस्नेहात्मकसाधनस्य सम्भवात् तदधीनः सस्तदग्रे आसीनो भगवान् भवति । एतेन भक्तवश्यतोक्ता ॥ ७ ॥ एवं बहिःप्राकट्यमुक्त्वा आन्तरं तदाह । ध्यानाच्च ॥ ८ ॥ भावानौत्सुक्यदशायां व्यभिचारिभावात्मकसततस्मृतिरूपध्यानादपि हृदि प्रकटः सन्नासीनो भवतीत्यर्थः। तेन स्थैर्यमुक्तं भवति ॥ ८ ॥ एवं भक्तेच्छयैव स्वरूपप्राकट्यमित्युक्त्वा लीलानाविष्करणमाविष्करणं चापि तदिच्छयैवेत्याह । अचलत्वं चापेक्ष्य ॥ ९ ॥ भक्तेच्छामपेक्ष्याचलत्वम्, चकाराच्चलत्वमपीत्यर्थः ॥ ९ ॥ भाष्यप्रकाशः। आसीनः सम्भवात् ॥ ७ ॥ सूत्रमवतारयन्ति पूर्वसूत्र इत्यादि । पूर्वसूत्रे चक्षुरादि- रूपस्यादित्यादेर्धर्मस्य प्राप्यत्वेन फलत्वमुक्त्वास्मिन् सूत्रे धर्मिणो भगवत एव तदुपासनफलत्वं तत्प्राप्तिसाधनं चाहेत्यर्थः । व्याकुर्वन्ति सम्भवादित्यादि । भगवदङ्गत्वज्ञानपूर्वकयादित्याद्यु- पासनया उत्कटस्नेहसम्भवात् तथा, न तु तदभावेपीत्यर्थः । एतेन ज्ञानमार्गेणामीदृशस्नेहाभावा- न्नासीनो भवति, किन्तु परोक्षज्ञानविषयो भवतीत्यपि बोधितम् । सिद्धमाहुरेतेनेत्यादि ॥ ७ ॥ ध्यानाच्च ॥ ८ ॥ सूत्रमवतारयन्ति एवमित्यादि । तदिति । प्राकट्यम् । व्याकुर्वन्ति भावेत्यादि। स्थैर्यमुक्तं भवतीति। एतेन ज्ञानमार्गे एतादृशस्यापि भावस्याभावादस्थैर्यमित्यपि बोधितम् ॥ ८ ॥ अचलत्वं चापेक्ष्य ॥ ९ ॥ सूत्रमवतारयन्ति एवं भक्तेत्यादि । अस्मिन्नपि सूत्रे अपे- क्ष्येति कथनाज्ज्ञानमार्गीयस्योपासनामपेक्ष्य वाऽचलत्वादिकं बोध्यम् ॥ ९ ॥ रश्मिः। आसीनः सम्भवात् ॥ ७ ॥ उक्त्वेति । अभिधायोक्त्वा, व्यञ्जनया तु धर्म्यप्युक्त एव । आहेति । अभिधायाहेत्यर्थः । परोक्षेति । 'भक्त्याहमेकया ग्राह्य' इतिवाक्यात् तथा ॥ ७ ॥ ध्यानाच्च ॥ ८ ॥ भावेत्यादीति । भावना न सन्न्यासनिर्णयोक्तत्वाद्विप्रयोग एव, संयोग- व्यभिचारिभावसततस्मृतिरूपत्वस्य वक्ष्यमाणत्वात् । ऐकाग्र्ये मनोनिवेशस्य ध्यानस्य साधनदशायां सत्त्वम् । फले तन्न निविष्टम् । अत एव सततपदम् । एतादृशस्येति । भक्तिरसे व्यभिचारिभावा- त्मकस्यान्तर्बहिःस्थित्या स्थैर्ययुक्तस्य । किन्त्वक्षरविषयकं ज्ञानं सोहमिति तस्य 'कृष्णोऽहं पश्यत गति'- मित्यत्रोक्तसदृशस्य । अस्थैर्यमिति । तादृशे स्थैर्यभिन्नो धर्म उक्तः, आन्तरमात्रत्वात् ॥ ८ ॥ अचलत्वं चापेक्ष्य ॥ ९ ॥ उपासनमपेक्ष्येति । यावदुपासनं तावदित्यर्थः । अचलत्वेति । आदिना चलत्वम् ॥ ९ ॥ 2153

३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ३ सू० १०. स्मरन्ति च ॥ १० ॥ केचन भक्ताः स्वरूपनिरपेक्षास्तत्स्मरणजनितानन्देनैव विस्मृतापवर्गान्तफला भवन्ति । चकाराच्छ्रवणकीर्तनादयोपि समुच्चीयन्ते । तदुक्तं 'अथ ह वा व तव महिमामृतसमुद्रविप्रुषा सकृल्लीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मा- रितदृष्टश्रुतसुखलेशाभासाः परमभागवता' इति । अथवा । 'अहं भक्तपराधीन' इत्यादिसमृतिः पूर्वोक्ते प्रमाणत्वेनोक्ता ॥ १० ॥ इति चतुर्थाध्याये प्रथमपादे तृतीयमादित्याद्यधिकरणम् ॥ ३ ॥ भाष्यप्रकाशः स्मरन्ति च ॥ १० ॥ अनेन साधनानन्तरमुक्तमित्याहुः केचनेत्यादि । अत्र भाष्यमति- रोहितार्थम् । एवञ्चात्रादित्यसूत्रोक्ते मनने आसीनसूत्रेण विशेष उक्तः, ध्यानसूत्रोक्तनिदिध्यासने चाचलत्वसूत्रेणेति ज्ञेयम् । अनेनाधिकरणेन आदित्याद्यङ्गविषयिणीनामुपासनानां जघन्याधिकारिषु फलदानद्वारा भगवन्माहात्म्यप्रतिपादनेन तत्र भक्तिजननद्वारा सर्वात्मभावरूपज्ञानाङ्गत्त्वमपि प्रतिपादितम् । तेन तासामपि परम्परया तदेव फलमिति सिद्धम् । अन्ये तु, आदित्यादिमतिसूत्रमधिकरणान्तरत्वेनोक्त्वा तत्र 'य एवासौ तपति तमुद्गीथ- मुपासीते'त्यादिषु कर्माङ्गोपासनेषु किमादित्यादिषूद्गीथदृष्टिः कार्या, किं वोद्गीथादिष्वादित्या- दिदृष्टिः, दृष्टेरनियमो वेति संशये, उद्गीथादिष्वङ्गेष्वेवादित्यादिदृष्टयः कार्या इति सिद्धान्तयन्ति । आसीन इत्यादिकं चतुःसूत्रमधिकरणान्तरमुक्त्वा तेष्वेवासननियमोस्ति न वेति संशये, आसीन एवोपासीतेति नियमं सिद्धान्तयन्ति । तत्रोदासीना वयम् ॥ १० ॥ इति तृतीयमादित्याद्यधिकरणम् ॥ ३ ॥ रश्मिः। स्मरन्ति च ॥ १० ॥ अनेनेत्यादि सूत्रेण । साधनं भक्तेच्छालीलाविष्करणे तदन्यत् साधनं 'अहं भक्तपराधीन' इति भगवत्सङ्कल्पस्तद्रूपं साधनानन्तरम् । आदित्येति । मतिपदेनादित्य- सूत्रोक्ते । विशेष इति । आसीनत्वविषयकमनने विशेषः । निदिध्यासन इति । सततस्मृति- रूपे । ध्यानधारणयोः स्मृतौ सातत्याभावात् । अचलत्वेनेति । भक्तेच्छापेक्षत्वरूपो विशेषो भगव- त्युक्तः । लीलाः पूर्वं नित्यलीलास्थानामनूदितास्तत्र प्रवेशस्तु व्रजभक्तभावेन भजने भवति, तत्र तु सर्वात्मभावोपीति तमाहुरनानेनेति । फलदानेति । तत्तद्देवतासायुज्यफलदानद्वारा । तत्रेति । भगवति । सर्वात्मभावेति । प्रदानसिद्धसर्वात्मभावेत्यादि । ज्ञानत्वं तु । सर्वात्मभावरूपं ज्ञान- मिति 'लिङ्गभूयस्त्वा'धिकरणग्रन्थात् । न च 'प्रदानवदेव'तिसूत्रात् प्रदानमात्रात् साध्यत्वं सर्वात्मभाव- सेति शङ्क्यम् । पूर्वसाधनवते दानस्याविरुद्धत्वात् । तदेवेति । सर्वात्मभाव एव फलम् । तदिति विधेयलिङ्गात् । कर्माङ्गेति । 'यदेव विद्यया करोति' इतिश्रुतेर्विद्योपासनकृतिं करोति । कृतिः कर्म । तेषु कर्माङ्गोपासनेषु । अनियम इति । अभितः पक्षद्वयेपि यमो नियमः । इति संशये त्रिकोटि- कसंशये । अङ्गेष्वेवेति । उद्गीथाद्यङ्गेषु । 'रसाना ५ रसतमः परमः पराद्ध्योऽर्ह्योऽयमुद्गीथ' इत्यादिष्व- ङ्गिनः । तेष्वेवेति । उपासनेष्वेव, एवकारेण योगयोग्यव्यवच्छेदः । उदासीना इति । योगं विनासन- विचाराप्रसङ्गादसङ्गतो विचार इति तथेत्यर्थः ॥१०॥ इति तृतीयमादित्याद्यधिकरणम् ॥३॥ १. अभिनयम इति रश्मिपाठः । 2154