अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 229, कुल 2600 में से
संदर्भ में पढ़ें१४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३ नामरूपयोः कार्यरूपत्वात् । भाष्यप्रकाशः । ततश्च सदाद्यात्मकं सच्चिदानन्दात्मकं च ब्रह्मेति तेन रूपेण ब्रह्मान्वयोऽवगम्यत एवेत्यर्थः । ननु जगत्यस्त्यादिसमन्वयो न ब्रह्मणः समवायित्वगमकः । नामरूपयोरपि समन्वयात् । नच तयोर्ना- नात्वान्नान्वय इति शङ्क्यम् । तयोः प्रतिनियतरूपेणानन्वयेऽप्यवच्छेदकावच्छेदेनान्वयस्य निराबा- धानुभवात् । नच रूपस्य व्यभिचारः शङ्क्यः । तस्य व्यवहार्यत्वपरत्वात् । अवकाशादिरूपेण व्यवहार्यत्वस्याकाशादावपि सत्त्वादिति चेत् तत्राहुः नामरूपयोः कार्यरूपत्वादिति । नामरूपे कर्मणोऽप्युपलक्षके । 'त्रयं वा इदं नाम रूपं कर्म' इति श्रुतेः प्रपञ्चसैतत्त्रयात्मकत्वात् । तथाच, 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इति श्रुतेर्नाम्नां रूपेषु नियमने कृत एव जगतः रश्मिः । पटात् किं तु सद्घटादप्यतिरिच्यते पटादपि, एवं सर्वत्र, यत्सर्वं सत्सर्वस्मादतिरिच्यते तद्ब्रह्म । नन्वेकमेव ब्रह्मत्वसाधकमस्तु किं द्वाभ्यामिति चेन्न । अन्वयेन ब्रह्मत्वं न सिद्ध्यति जगति जगतो- प्यन्वयात् । यद्यपि घटादेर्व्यतिरिच्यते जगत्तथापि जगतो न व्यतिरिच्यते, खपुष्पादिकं तु जगतो व्यतिरिच्यते परं नान्वेति, सज्जगतो व्यतिरिच्यते भगवतोपि सत्त्वात् , कारणस्याक्षरस्यापि सत्त्वात् , अतो यस्यान्यव्यतिरेकौ तदेव सर्वमिति । तत्र यदि सर्वमस्तीति प्रतीतिजनकं घटोस्ति भूतले घटाभावो स्तीत्यादिप्रतीतेर्नेतु भातिप्रियत्वप्रतीतिजनकं घटो ज्ञानं घटो जानाति घटः प्रीणातीत्याद्यप्रतीतेः । घटो भासते इत्यत्र तु नाश्रयत्वं तदर्थः किं तु विषयत्वमित्यागृह्यते, तदा तु अत्रैव युक्तिनिरूपणे भातिप्रियत्वयोरपि घटादिवृत्तित्वस्य मया व्युत्पाद्यत्वाद् घटादीनां तद्धर्मकत्वे सिद्धे तदप्रतीतावप्य- क्षतिः । जीवे आनन्दांशस्य जडे चिदानन्दयोराप्राकट्यस्य वक्ष्यमाणत्वात् । अतो न पद्मसरसि भृङ्गे झङ्कृति- पराकृतमशकझङ्कारः । हेतुघटिका प्रतीतिश्च प्रत्यक्षानुमित्यन्यतरपरा । तेन सदन्वयः प्रतीतिसाक्षिकश्चि- दानन्दयोस्त्वानुमानिक इति ज्ञेयम् । तेनेति सच्चिदानन्दरूपेणेत्यर्थः। नन्वस्त्यादयो यथा ब्रह्मधर्मास्तथा नामरूपे अपीति नामरूपरूपेणान्वयः कुतो न स्यादित्याशङ्कते ननु जगतीत्यादि । समवायित्वेत्यादि भाष्यप्रकाशीययथाश्रुतव्याख्यानपक्षे समवायित्वस्य साध्यत्वाभावाद्गमक इत्युक्तम् । समवायिनि ब्रह्मत्वे सिद्धे ब्रह्मणः समवायित्वं गमयतीत्यर्थः । समन्वयादिति तथा च जगतोऽपि जगत्समवायित्वं स्यादिति प्रश्नः । नान्वय इति घटनामरूपयोः पटे नान्वयः । तन्नामरूपयोर्भिन्नत्वादित्यर्थः । प्रतिनि- यतेत्यादि देवदत्तविष्णुमित्रादिरूपेण नीलत्वपीतत्वरूपेण चेत्यर्थः । अवच्छेदकेत्यादि नामत्व- रूपत्वरूपेणेत्यर्थः । पदार्थतावच्छेदकं गुणत्वं तस्यावच्छेदो द्वैधीकरणं येन नामत्वरूपत्वरूपेण करणे प्रत्ययः । उपदेश आद्योच्चारणमित्यत्रोपदेशपदात्प्रत्ययवत् करणनिष्ठव्यापारो वा धात्वर्थः । पचादेरा- कृतिगणत्वाद्वा । व्यभिचार इति आकाशादौ रूपव्यभिचार इत्यर्थः । व्यवहार्येत्यादि रूपवान् विशेषतो व्यवहार्यो भवतीति कार्यतादात्म्यसंबन्धेन व्यवहार्यत्वलक्षकत्वादित्यर्थः । श्रुतेरिति बृहदारण्यकेऽस्ति नामरूपयोरागन्तुक रूपत्वान्न तयोर्ब्रह्मसमवायित्वबाधकत्वमिति वदन्तो भाष्ये द्वयोपादाने उपपत्तिमपि वदन्ति स्म तथाचेत्यादि । नामरूपकर्मणां प्रपञ्चरूपत्वे सति । व्याकरणे- त्यादि । अनेनेत्यादिव्याकरणश्रुतेर्नाम्ना रूपेण प्रवेशकरणोत्तरमित्यर्थः । 142