भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 230, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 230

कार्यत्वेन प्रतीतेस्ते एव कार्यस्य कार्यतावच्छेदकरूपभूते । यदा हि पृथुबुध्नोदराकारोऽर्थो भवति तदा तत्र तादृशं रूपं घट इति नाम च भवति । तदपि न स्वतः किंतु व्याकरणश्रुतेस्तत्करणो- त्तरम् । यथा हि बालके जाते तदवयवानालोक्य व्यक्तौ निश्चितायां नाम नियमयति, एत- न्नामाऽयमिति तद्वत् । अतः कर्मापि मूलवस्तूत्तरकालीनं कार्यस्वरूप एव प्रविशतीत्यागन्तुक- त्वान्न तत्समन्वयः, किंत्वन्वयमात्रं तेषामतो न ब्रह्मणः समवायित्वबाधकमित्यर्थः । ननु तथाप्यस्त्यादिसमन्वयस्य न ब्रह्मसमवायितागमकत्वम् । कार्यमात्रे प्रकृत्यात्मकानां सत्त्वरजस्तमसामनुवृत्तिदर्शनात् । यथाहूः सांख्याः । ‘प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः' ॥ इति गुणानां स्वरूपं वृत्तीश्चोक्त्वा [