अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 231, कुल 2600 में से
संदर्भ में पढ़ेंबहिरेवानुभवेन तज्जनकेषु रूपादिष्वपि तस्य बहिरेव सत्तानिश्चयात् । नच तस्यानुभवस्य भ्रान्तत्वं शक्यवचनम् । तथा सति देहे मे सुखं, शिरसि मे वेदनेत्याद्यनुभवान्तरस्यापि बाधप्रसङ्गात् । एवं तु स्त्रीसुखं चन्दनसुखमित्याद्यभिलापोऽपि युज्यते । आन्तरत्वेनानुभवस्तु मानसस्यैव । एवं सिद्धे तेषां बाह्यत्वे रूपादिसंसर्गेण बहिरेव तेऽभिव्यज्यन्ते । घृतद्रवत्वादिवत् । तथाच प्रयोगः । विमताः सुखादयो न साक्षादात्मधर्माः । बाह्यत्वे सत्यात्मनि प्रतीयमानत्वात् । गौरत्वादिवदिति । तथा, रूपादयः सुखादिगुणाः सुखादिजनकत्वात् । यद् यज्जनकं तत् तद्- गुणकं, प्रकाशशैत्यादिजनकवह्निचन्दनादिवदिति च । एवं सिद्धे तेषां तद्गुणकत्वे तेषां द्रव्याणां तद्गुणात्मकत्वमप्यनुमेयम् । तथाच प्रयोगः । विमताः सुखाद्यात्मकाः, सुखाद्यविनाभूतत्वात् । तन्मात्राविनाभूतमहाभूतवत् । तथा, सुखादयो द्रव्यसूक्ष्मावस्थास्वरूपाः । तदविनाभूतत्वे सति तज्जनकत्वात् । महाभूताविनाभूततज्जनकतन्मात्रवदिति । नच प्रथमे क्षणे द्रव्यं यावद्गुणशून्य- मेवोत्पद्यत इति वाच्यम् । प्रत्यक्षाबाधितत्वात् । अपाकजस्य रूपादेरुत्पत्तिदशायामप्यनुभवात् । एवं सुखादावपि बोद्धव्यम् । पुत्राद्युत्पत्तिकाल एव पुरुषभेदेन सुखदुःखाद्युत्पत्तिदर्शनात्तत्तस्य बालादेस्त- दानीमपि तज्जनक तया तद्गुणकत्वतदविनाभावयोर्निश्चयादिति । एवं मैत्रायणीये, 'तमो वा इद- मेकमेवाग्र आसीत् तत्परे स्यात् तत्परेणेरितं विषमत्वं प्रयाति' इति । श्वेताश्वतरेऽपि, 'प्रधानक्षेत्र- ज्ञपतिर्गुणेशः' इति तमःशब्दवाच्यायाः प्रकृतेर्गुणानां च सृष्ट्यादौ सद्भावश्रावणात् पुराणेषु मन्वादिषु
रश्मिः । मानाभाव इत्यर्थः । तस्येति । घृतेत्यादि वह्निसंसर्गेणेत्यादिः । विमता इति रूपादयः सुखादि- गुणकाः आध्यात्मिकस्य सुखादेरित्यर्थः । गौरत्वेत्यादिभास्वरं गौरत्वमात्मनीति दृष्टान्तः । तन्मात्रेति तेन यद् यदविनाभूतं तत् तदात्मकं इति व्याप्तिः सामान्या । तज्जनकत्वादिति द्रव्यजनकत्वात् । न च रूपादिवदन्यथासिद्धत्वमिति वाच्यम् । घटादिकं प्रति दण्डादिकस्य रूपवन्न भवत्यन्यथासिद्धत्वम् । द्रव्यस्य सुखत्वेनाकारणत्वापत्तेः कार्यस्य । प्रथमक्षणिकद्रव्यमादाय हेतोरंशतः स्वरूपासिद्धत्वमाशङ्क्य निराकुर्वन्ति न च प्रथम इत्यादि । तथाच पक्षैकांशतः ह्रदे पर्वते चाद्यक्षणाव- च्छेदेन सुखाद्यविनाभूतत्वरूपहेत्वभावाद् ह्रदो द्रव्यं धूमादितिवत् पक्षे हेत्वभावात्स्वरूपासिद्धिः सिद्धान्तमुक्तावल्युक्ता, पर्वते सुखादिरूपे आद्यक्षणावच्छेदेन हेतुतावच्छेदकस्य तदविनाभूतत्वसमाना- धिकरणतज्जनकत्वरूपस्य गौरवेणाभावात् स्वरूपासिद्धिर्भवेद्युक्ता । अपाकेत्यादि पाकोऽग्निसंयोगः । निश्चयादिति तथाच प्रथमक्षणावच्छेदेनापि द्रव्यस्य सगुणत्वात् न हेत्वोः स्वरूपासिद्धत्वमिति भावः । पुराणेष्विति एकादशे— 'तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ तेभ्यः समभवत्सूत्रं महान् सूत्रेण संयुतः । ततो विकुर्वतो जातो योऽहंकारो विमोहनः' ॥ इत्यादित्यर्थः । मन्वादिष्विति । 'आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।