भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 232, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 232

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४५ प्रकृतेरपि स्वमते तदंशत्वात् । अज्ञानात् परिच्छेदाप्रियत्वे । ज्ञानेन बाध- भाष्यप्रकाशः। तथा करणात् सिद्धे प्रकृतेः सत्त्वे सर्वस्य त्रिगुणत्वेन गुणमय्याः प्रकृतेरेव समन्वयस्य सिद्धत्वान्न ब्रह्मणः समवायित्वसिद्धिरित्यत आहुः प्रकृतेरित्यादि । 'आसीज्ज्ञानमयो ह्यर्थ एकमेवाविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरातीतं द्विधा समभवद् बृहत् ॥ तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते' ॥ इत्याद्येकादशस्कन्धीयभगवद्वाक्यैस्तस्या अंशत्वे जन्यत्वे च निश्चिते तद्रूपस्याप्यागन्तुक- त्वेन तदन्वयस्यापि समन्वयत्वाभावान्न तेन ब्रह्मणः समवायित्वभङ्ग इत्यर्थः । ननु भवत्वेवं, तथापि तदन्वयस्य सांख्यैः साधितत्वात् तेनैव रूपेण ब्रह्मान्वयोऽस्तु किमस्त्यादिरूपान्वयाग्रहेणे- त्याशङ्कायामाहुः अज्ञानादित्यादि । अयमर्थः । प्राकृती या प्रीतिः सा आज्ञानिकी, न तु वास्तवी । तत्र गमको देशतः कालतश्च परिच्छेदः । यथा कस्यचित् किंचित् प्रियं किंचिन्न । तदपि कदाचित् प्रियं, कदाचिन्न । तथा सति तस्या औपाधिकत्वम् । मैत्रेयीब्राह्मणे तथैव सिद्धत्वात् । रश्मिः। 'अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः । ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः' ॥ इत्यादिस्मृत्यर्थः । प्रकृतेरेवेति अस्त्यादीनामपि प्राकृतत्वसंभवादेवकारः । न ब्रह्मण इति ब्रह्म न समवायि सत्त्वादिना समन्वयादिति । अस्त्यादिसमन्वयरूपहेतोः सत्प्रतिपक्षत्वा- च्चेति । ज्ञानमय इति 'ज्ञानमयो ह्यर्थः' इत्यपि पाठः । कार्त्स्न्ये मयटोऽर्थः । अयुग इति युगेभ्यः पूर्वं प्रलये चेत्यर्थः । तन्मायेत्यादि माया तत्फलं दृश्यं सर्वं तद्रूपेणेत्यर्थः । उभया- त्मिकेति कार्यकारणरूपिणीत्यर्थः । तद्रूपस्येति मायारूपस्य सत्त्वरजस्तमोरूपस्य धर्मस्येत्यर्थः । समवायित्वभङ्ग इति। एतच्च चतुर्थपादे 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यधिकरणे स्फुटम् । यद्यप्येवं ब्रह्मणः समवायित्वे सिद्धे परिच्छेदाप्रियत्वे विरुद्धे इत्याशङ्क्याहुः अज्ञानादिति । इत्येवं तथापि प्राज्ञानां संतोषो न भवति सुगमव्याख्यान इति विस्तरेणाहुः ननु भवत्वित्यादिना । तदन्वयस्येति प्रकृत्यन्वयस्येत्यर्थः । तेनैवेति प्राकृतप्रियत्वादिरूपेणेत्यर्थः । देशतः परिच्छेदमाहुः यथेत्यादि । कालतः परिच्छेदमाहुस्तदपीत्यादि । तस्या इत्यादि प्रीतेर्धनसौन्दर्यादियुक्तशुद्ध- देशशुद्धानुद्वेजककालरूपोपाध्याहितत्वमित्यर्थः । मैत्रेयीत्यादि । एतच्च चतुर्थपादे वाक्यान्वया- धिकरणे स्पष्टम् । तथा चाज्ञानाद्ब्रह्मात्मकानन्दे परिच्छेदोऽप्रियत्वं च लोके भवतो न तु प्राकृतं प्रियत्वमस्ति, तथाच श्रुतिः 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति । तथा च प्राकृतप्रियत्वस्यैवाभाव इति दूरे तेन रूपेण समन्वय इति भावः । व्यतिरेकमुखेन ज्ञानेन १९ ब्र० सू० १० 145