अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 233, कुल 2600 में से
संदर्भ में पढ़ें५४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३
भाष्यप्रकाशः । वास्तवस्य नैसर्गिकतार्थं वस्तुसद्भावे ज्ञानेन तद्बाधायोगाच्च । अतो वास्तवं प्रियत्वमात्मन्येवे- त्यात्मन एव दर्शनादिकमावश्यकमिति बोधयित्वा 'इदं सर्वं यदयमात्मा' इत्यनेन सर्वस्यात्मा- भिन्नत्वं भावयति । तथा तैत्तिरीये, 'आनन्दं ब्रह्मणो विद्वान्' इत्युपक्रम्य, 'एत ५ ह वा व न तपति किमह ५ साधु नाकरवं किमहं पापमकरवम्'इति 'स य एवं विद्वानेते आत्मान ५ स्पृणुते' इत्या- त्मत्वानुसंधानेन तत्कृततापाभावं च श्रावयति । अत एवमात्मानन्दज्ञानेन प्राकृतिकप्रियत्वादि- बाधदर्शनान्न तद्रूपेणान्वय आद्रियते किं त्वात्मत्वेन । सर्वस्मिन्नपिचप्रियत्वस्य बोधनादबाधि- तेनैव रूपेण श्रुत्यविरोध इति तदन्वय एवाद्रियत इत्यर्थः । ननु यद्येवं तदा नानात्वमपि नादर- रश्मिः । बाधदर्शनादिति भाष्यं विवृण्वन्ति वास्तवस्येत्यादि । भाष्ये । सुगमव्याख्या त्वेवं बोध्या । तथाहि । प्रतिपादितोऽस्तिभातिप्रियत्वेन ब्रह्मसमन्वयोऽनुपपन्नः परिच्छेदाप्रियत्वयोर्दर्शनादित्याशङ्कयाहुः अज्ञानादित्यादि । तथा च न ते वास्तवे इति तत्प्रतीतावपि न समन्वयानुपपत्तिरित्यर्थः । किंच नायं नियमो यदुपादानधर्माणां उपादेये भानमिति । विभागेनापरिच्छेदतिरोभावस्य सांख्येभ्य- ङ्गीकारात् । संयोगेन महत्त्वस्य नैयायिकैरप्यङ्गीकाराच्च । तयोर्वास्तवत्वे हेतुमाहुः ज्ञानेनेत्यादि । वाचारम्भणवाक्योक्तरीतिकज्ञानेन विकल्पबुद्धेर्बाधस्य श्वेतकेत्वादिषु दर्शनादित्यर्थः । प्रकृते । सिद्धमाहुः अत इत्यादि यतः सर्वत्रौपाधिकी सा, अत इत्यर्थः । बोधयित्वेति सहोवाचे- त्याद्यनुवाकद्वयं 'न वा अरे' इत्यारम्य 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेद ५ सर्वं विदितम्' इत्यंशेन बोधयित्वा 'ब्रह्म तं परादात्' इत्यारम्य 'इदं सर्वं यदयमात्मा' इत्यन्तेनांशेन सर्वस्यात्माभिन्नत्वं श्रावयतीत्यर्थः । तथाचा- न्यत्र प्रतीयमानं प्रियत्वं तदंश इति भावः । एतमित्यादि पूर्वोक्तानन्दविदं न तपति नोद्वेजयति समे एते साध्वसाधुनी एवं तापहेतू इति विद्वान् आत्मानं स्पृणुते स्नेहयतीत्यर्थः । स्पृ प्रीतिपालनयोः स्वादिः । बाधदर्शनादिति 'किमह ५ साधु नाकरवम्'इत्यादिश्रुतेस्तथेत्यर्थः । बोधनादिति 'न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति' इत्यादिना बोधनादित्यर्थः । एवाद्रियत इति एवकारेण ब्राह्मणां सत्त्वरजस्तमसां व्युदासः । तथाहि । माभूत् प्राकृतसत्त्वरजस्तमो- रूपेण ब्रह्मान्वयः परंतु ब्राह्मतद्रूपेण तु स्यात् । 'सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभोः' ।। इति वाक्यात् मैवम् । एतेषामप्यागन्तुकत्वादेतस्य सुबोधिन्यां सद्रूपेण निर्गतं सत्त्वमि- त्युच्यते, केवलचिद्रूपेण निर्गतं क्रियाशक्तिप्रधानत्वात्सदानन्दानन्दाभावाच्च रज इत्युच्यते, आनन्दां- शाच्च तमः, ते भगवद्रूपा एव भगवता सृष्टाः । न च ते पूर्वं भगवति स्थिताः इति प्रतिपादनात् । अबाधितेन नानात्वेन धर्मेण प्रकृतेरन्वयात् तस्या अपि समवायित्वं निर्दुष्टमित्याशङ्कयाहुर्नानात्वमाहुः नन्वित्यादि । अन्यथा ननु यदि ब्रह्मोपादेयता प्रपञ्चे स्यात् तदा ब्रह्मण एकरसत्वेन तथे- 146