अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2297, कुल 2600 में से
संदर्भ में पढ़ेंसर्वे पाप्मानः प्रदूयन्त' इति श्रुतिरग्निदृष्टान्तमाह । स्मृतिरपि 'यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा' इति । 'सर्वं पाप्मानं तरति, तरति ब्रह्महत्यां योऽश्वमेधेन यजत' इत्यादिश्रुति- भ्यस्त्वयापि न तद्भोगनियमो वक्तुं शक्यः । एतेनाभुक्तस्याक्षयाद्भोगे च कर्मान्तरजननान्मोक्षासम्भव इति निरस्तं वेदितव्यम् । नचान्योन्याश्रयः । अनाद्यविद्याजनितसंसारवासनात्मिका हि सा । सा च गुरूपसत्तिश्रवणमनन- विष्णूपासनादिरूपया ज्ञानसामग्र्यैव नाश्यते । अविद्या परं ज्ञानेन नाश्यत इति त्वेनैवंविदीतिविशेषणवैयर्थ्यप्रसङ्गात् । न च लिङ्ग उत्पन्नं लिङ्गे एव न श्लिष्यत इत्यपि युक्तम् । दृष्टान्तवैषम्यस्यात्रापि तुल्यत्वात् । अतः पापस्यासम्बन्धमात्रमेव श्रुतौ वि