अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2298, कुल 2600 में से
संदर्भ में पढ़ें४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ६ सू० १४. क्क तत्प्रसङ्गः । ज्ञानसामग्र्या बलिष्ठत्वात्कर्मणो दुर्बलत्वाच्च तत्प्रतिबन्धकत्वमिति ज्ञाननाश्यत्वबोधकश्रुतिस्मृतिमत्ता त्वयाप्युररीकार्यम् । इममेव हेतुमाहाचार्यस्त- द्धपदेशादिति ॥ १३ ॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ पापस्य शास्त्रविरोधित्वेन शास्त्रीयज्ञानेन समं विरोधो भवतु नाम, भाष्यप्रकाशः। प्युक्तेन कर्मणा ज्ञानसामग्रीबन्धो भवत्विति चेत्, तत्राहुः ज्ञानसामग्र्या इत्यादि । यदि हि कर्ममात्रमभुक्तं न क्षीयेत, तदा प्रायश्चित्तविधिरनर्थकः स्यात् । यदि चाक्षीयमाणं स्वसजातीय- सन्तानमुत्पादयेत्, तदा ज्ञानसाधने प्रवृत्त्यनुपपत्त्या ज्ञानसामग्रीविधिरानर्थक्यमापद्येते । अतस्तदभावाय प्रारब्धस्यैवाभुक्तसाद्ध्यः, क्रियमाणसंचितयोस्तु प्रायश्चित्तादिना क्षय इत्यवश्य- मङ्गीकार्यम् । एवं सति प्रारब्धं भुञ्जानस्यापि क्रियमाणसञ्चितयोः क्षये ज्ञानसामग्र्या बलिष्ठत्वाच्चैव चित्ताशुद्धिनिवृत्तौ तत्पोषकस्य कर्मणो निरालम्बनतया दुर्बलत्वान्न सामग्रीप्रतिबन्धकत्वमिति त्वयापि श्रौतवादिनाङ्गीकार्यम् । इममेव हेतुं पूर्वपक्षिबोधनाय तद्व्यपदेशादिति पदेनाह । तस्मान्न कोपि दोष इत्यर्थः । अश्लेषश्रुतिस्तु, 'यथा पुष्कर- पलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत' इति छान्दोग्य उपकोसल- विद्यास्था बोध्या । सात्र न लिखिता । सहकारित्वसूत्रे ज्ञानस्य कर्मस्वभावनाशकतया व्युत्पादिततया तत एव निर्वाहादिति ॥ १३ ॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ सूत्रमवतारयन्ति पापस्येत्यादि । इत्या- रश्मिः। तज्जन्यजनको हि व्यापार इति व्यापारलक्षणात् । न तु ज्ञानोदयेन । चित्ताशुद्धिनाशस्य कर्मोपासना- जन्यत्वादित्येवकारः । कर्मणेति । दुष्कर्मणा । सूत्रेऽपपदेनाघत्वेनाघग्रहणादघविवेचनेनार्थमाहुः यदि हीत्यादि । कर्ममात्रमिति । प्रारब्धक्रियमाणसञ्चिताघमात्रम् । अनर्थक इति । प्रायश्चित्तस्य भोगातिरिक्तस्य भोगनाश्याघनाशेऽकारणत्वात् तथा । स्वसजातीयेति । अघत्वेन सजातीयत्वम् । स्वसजातीयसन्तानज्ञानप्रतिबन्धकम् । आनर्थक्यमिति । शमदमादीनां ज्ञानोत्पादे कौण्ठ्यात्तथा । तद्भावायेति । द्वयोर्विध्योरानर्थक्याभावाय । अभुक्तस्येति । भोगेन क्षयः । प्रायश्चित्तादि- नेति । आदिना ज्ञानेन । चित्ताशुद्धीति । ज्ञानसामग्रीव्यापारभूतायाम् । तत्पोषकस्येति । चित्ताशुद्धिहेतोर्दुष्कर्मणः । आलम्बनं दुष्कर्मणश्चित्ताशुद्धिः, तस्याः निष्क्रान्ततया । सामग्रीति । ज्ञानसामग्रीप्रतिबन्धकत्वम् । श्रौतेति । श्रुतिभिः श्रूयत इति श्रौतम् । शैषिकोऽण् । श्रुतिः श्रवणं तस्य वादिना श्रुतिश्रुतिमत्ता श्रुतिश्रवणवतेति यावत् । इममेवेति भाष्यविवरणं इममेवेति । तद्व्यपदेशादिति । तस्य हेतोर्व्यपदेशात् । न लिखितेति । अघनाशविचारेऽभाव- प्रतियोगिनोर्व्यधिकरणयोरिति बोध्यमित्येवंबोधिका न लिखिता । कर्मस्वभावेति । व्यधिकरण- ज्ञानस्य कर्मस्वभावनाशकत्वम् । समानाधिकरणस्य कर्मनाशकत्वमिति बोधनाय स्वभावशब्दः । श्रुतौ व्यधिकरणयोर्जलतदभावयोः समानाधिकरणयोः जलसंयोगतदभावयोर्ग्रहणं बोध्यम् । तत इति । सहकारित्वसूत्रात् ॥ १३ ॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ पापस्येत्यादीति । विरोधः सहानव- 2160