अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2315, कुल 2600 में से
संदर्भ में पढ़ेंबहिःप्रकटस्यैवान्तरपि प्राकट्यादुत्क्रमणाभाव उच्यते । आत्मातिरिक्तस्य गति- मुक्त्वा तस्य तामाह 'ब्रह्मैव सन् ब्रह्माप्येती'त्यनेन । उक्तरीत्या पुरुषोत्तमात्मक- तल्लीलोपयोगिदेहेन्द्रियादिसम्पत्त्या ब्रह्मैव सन्, न तु ब्रह्मातिरिक्तदेहाभिमानपि, तादृशः सन्, ब्रह्म बृहत्त्वात् बृंहणवत्त्वात् पुरुषोत्तमस्वरूपं प्राप्तो भवतीत्यर्थः । अन्यथा जीवस्य ब्रह्मांशत्वेनानन्दांशाविर्भावेन च ब्रह्मत्वे प्राणादियोक्त्या तदितरव्यवच्छेदे चानुक्तसिद्धे सति 'ब्रह्मैव स'न्निति न वदेत् । अत एवैतदग्रे श्लोकोक्तिः 'अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत' इति । मृतिधर्म- वच्छरीरं हि मर्त्यम्, तद्वत्त्वेन जीवोपि तथोच्यते । तथाचायं पूर्वं तादृश एव, अथ पुष्टिलीलाप्रवेशानन्तरममृत उक्तलक्षणशरीरवान् भवति, ततोत्र अस्मिन्नेव शरीरेब्रह्म सम्यगश्नुते । भगवता क्रियमाणलीलारसमनुभवतीत्यर्थः ।
भाष्यप्रकाशः ।
मिप्रेत इत्यत्र किं गमकमित्यत आहुः अन्यथेत्यादि । तथाच 'ब्रह्मैव स'न्नित्यस्यान्यथावैयर्थ्या- पत्तिरेव गमिकेत्यर्थः । उक्तोपष्टम्भाय गमकान्तरमाहुः अत एवेत्यादि । तथा चात्र 'ब्रह्मभूतः प्रसन्नात्मे'त्युक्तरीतिको ब्रह्मभावो यदि 'ब्रह्मैव स'न्नित्यत्राभिप्रेतः स्यात्, तदास्मिन् श्लोके 'अथ मर्त्योऽमृतो भवती'त्येतावदेव वदेत्, न तु तुरीयं पादम् । अतो यथोक्त एव श्रुत्यर्थ इत्यर्थः । एवमुपोद्घातेन पुष्टिमार्गीयस्य लौकिकदेहक्षपणं नाम प्राणादीनां ब्रह्मणि लय इति सिद्धम् । तदेतत्पूर्वपादान्तसूत्रे एव विचारणीयम् । तथाप्येतत्सूत्रप्रणयनं प्रति तस्य हेतुत्वं न स्फुटं भवेदिति तत्रानुक्त्वा अत्र विचारितमिति ज्ञेयम् । तदेतत् हृदि कृत्वाचार्यः प्रकृतं विचा-
रश्मिः ।
बहिरिति । सद्योमुक्त्यर्थं, आत्मस्थित्यर्थं वा बहिःप्रकटस्य । उत्क्रमणेति । छान्दोग्यीयाष्टमोप- देशोक्तरीत्या प्राणेन्द्रियादीनां लयस्थानेन्तःप्रकटे लयादुत्क्रमणाभाव उच्यत इत्यर्थः । आत्माति- रिक्तस्येति । सूक्ष्मदेहस्य । तस्येति । भक्तस्य । तां गतिं, ननु विरहं विना पूर्णभक्त्यभावाद्विरहे च ब्रह्मण- मान्तरत्वेन बहिःप्राकट्याभावात् कथं पुरुषोत्तमप्राप्तिरत आहुः। ब्रह्म बृहत्त्वादिति। अत एव बृहत्त्वात् बृंहणत्त्वाच्च ब्रह्मेति लक्षणमादृतं न स्वरूपलक्षणं नापि कार्यलक्षणमिति बोध्यम् । तदितरेति । ब्रह्मातिरिक्तयोगव्यवच्छेदे । तद्वत्त्वेनेति । मर्त्यशरीरवत्त्वेन । तथोच्यत इति । मर्त्यत्वेनोच्यते । तादृश इति । मर्त्यः । ब्रह्मसम्यगिति । सायुज्ये परमात्मन एव ब्रह्माशनम् । सन्दिग्धमुक्तौ तु निर्णीतायां सम्यगन्तरात्मबाह्यात्मनोरपि ब्रह्माशनमिति सम्यगश्नुत इत्यर्थः । अश्नुत इत्यस्य न व्याप्नो- तीत्यर्थ आनन्दमयाधिकरणे दूषणात्, नाप्यश्नातीत्यर्थः । द्वितीयलाभावात्